________________
१७२
प्रज्ञापनाउपाङ्गसूत्र-१-३/-२७/२९७ वृ. अथ भदन्त ! सर्वजीवाल्पबहुत्वं-सर्वजीवाल्पबहुत्ववक्तव्यतात्मकं महादण्डक वर्णयिष्यामि-रचयिष्यामीति तात्पर्यार्थः, अनेन एतद् ज्ञापयति-तीर्थकरानुज्ञामात्रसापेक्ष एव भगवान् गणधरः सूत्ररचनांप्रति प्रवर्तते न पुनः श्रुताभ्यासपुरःसरमिति, यद्वा एतद् ज्ञापयतिकुशलेऽपि कर्मणि विनेयेन गुरुमनापृच्छय च न प्रवर्तितव्यं, किंतु तदनुज्ञापुरःसरं, अन्यथा विनेयत्वायोगात्, विनेयस्य हि लक्षणमिदम्॥१॥ “गुरोर्निवेदितात्मा यो, गुरुभावानुवर्तकः ।
मुक्त) चेष्टते नित्यं, स विनेयः प्रकीर्तितः॥"
-गुरुरपि यः प्रच्छनीयःस एवंरूपः॥१॥ "धर्मज्ञो धर्मकर्ता च, सदा धर्मप्रवर्तकः।
सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ।।" इति, महादण्डकंवर्तयिष्यामिइत्युक्तंततःप्रतिज्ञातमेव निर्वाहयति-सव्वत्थोवा गब्भवतंतिया मणुस्सा' इत्यादि, सर्वस्तोका गर्भव्युत्क्रान्तिकमनुष्याः, सङ्खयेयकोटीकोटीप्रमाणत्वात् १, तेभ्यो मानुष्यो मनुजस्त्रीयः सङ्खयेयगुणाः, सप्तविंशतिगुणत्वात्, उक्तंच-“सत्तावीसगुणापुण मणुयाणं तदहिआचेव" २, ताभ्यो बादरतेजःकायिका पर्याप्ताअसंख्येयगुणाः, कतिपयवर्गन्यूनावलिकाधनसमयप्रमाणत्वात् ३, तेभ्योऽनुत्तरोपपातिनो देवाअसंख्येयगुणाः, क्षेत्रपल्योपमासंख्येयभागवतिनभःप्रदेशराशिप्रमाणत्वात् ४, तेभ्य उपरितनग्रैवेयकत्रिकदेवाः संख्येयगुणाः, बृहत्तरपल्योपमासंख्येयभागवर्तिनमप्र देशराशिप्रमाणत्वात्, एतदपिकथमवसेयं? इति चेत्, उच्यते, विमानबाहुलस्यात्, तथाहि-अनुत्तरदेवानापञ्चविमानानि विमानशतंतूपरितनग्रैवेयकत्रिके प्रतिविमानं चासङ्खयेया देवाः यथा यथाचाधोऽधो-वर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्ते ततोऽवसीयते-अनुत्तरोपपातिकदेवेभ्यो बृहत्तरक्षेत्रपल्योपमासम्ङ्ख्ये यभागवत्याकाशप्रदेशराशिप्रमाणा उपरितनग्रैवेयकत्रिकदेवाः (संख्येयगुणाः) ५,
__ -एवमुत्तरत्रापि भावना कार्या यावदानतकल्पः तेभ्योऽप्युपरितनौवेयकत्रिकदेवेभ्यो मध्यमग्रैवेयकत्रिकदेवाः सङ्खयेयगुणाः ६ तेभ्योऽप्यधस्तनौवेयकत्रिकदेवाः सङ्खयेयगुणाः ७ तेभ्योऽप्यच्युतकल्पदेवाः सङ्खयेयगुणाः ८ तेभ्योऽप्यारणकल्पदेवा सङ्खयेयगुणाः ९, यद्यप्यारणाच्युतकल्पौ समश्रेणिकौ समविमानसङ्ख्याकौ च तथाऽपि कृष्णपाक्षिकास्तथास्वाभाव्यात् प्राचुर्येण दक्षिणस्यां दिशि समुपद्यन्ते नोत्तरस्यांबहवश्च कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिकाःततोऽच्युतकल्पदेवापेक्षया आरणकल्पदेवाः सङ्घययगुणाः, तेभ्योऽपि प्राणतकल्पदेवाः सङ्घयेयगुणाः १०
- तेभ्योऽप्याननतकल्पदेवाः सङ्घयेयगुणाः, भावना आरणकल्पवत्कर्तव्या ११, तेभ्योऽधः-सप्तमनरकपृथिव्यां नैरयिका असङ्घयेयगुणाः, श्रेण्यसङ्ख्येयभागगतनभःप्रदेशराशिप्रमाणत्वात् १२, तेभ्यः षष्ठपृथिव्यां नैरयिका असङ्खयेयगुणाः, एतच्च प्रागेव दिगनुपातेन नैरयिकाल्पबहुत्व-चिन्तायां भावितं १३
तेभ्योऽपि सहनारकल्पदेवा असङ्खयेयगुणाः, षष्ठपृथिवीनैरयिकपरिमाणहेतुश्रेण्यसङ्ख्येयभागापेक्षया सहनारकल्पदेवपरिमाणहेतोः श्रेण्यसङ्खयेयभागस्य असङ्ख्येयगुणत्वात् १४ तेभ्यो महाशुक्रे कल्पे देवा असङ्खयेयगुणाः, विमानबाहुल्यात् षट् सहम्नाणि विमानानां सहसरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org