SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७४ प्रज्ञापनाउपाङ्गसूत्रं-१-३/-/२७/२९७ सङ्ख्येयगुणाःद्वात्रिंशद्गुणत्वात् ३० ताभ्योऽप्यस्यां रत्नप्रभायां पृथिव्यां नैरयिका असङ्ख्येयगुणाः अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वीतीये नवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावप्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तवत्प्रमाणत्वात् ३१ । -तेभ्यो पि खचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषा असङ्खयेयगुणाः प्रतरासद्धेययभागवत्यसङ्खयेयश्रेणिनभःप्रदेशराशिप्रमाणत्वात् ३२ तेभ्योऽपिखचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्खयेयगुणाः, त्रिगुणत्वात्, “तिगुणा तिरूवअहिया तिरिआणंइथिओ मुणेयव्वा' इति वचनात् ३३ ताभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः सङ्खयेयगुणाः, बृहत्तरप्रतरासङ्खयेयभागवत्यसङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् ३४ तेभ्यः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सहयेयगुणाः त्रिगुणत्वात् ३५ ताभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः सङ्ख्येयगुणाः बृहत्तमप्रतरासङ्घयेयभागवत्यसङ्घयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् ३६ तेभ्यो जलचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्खयेयगुणाः त्रिगुणत्वात् ३७ ताभ्योऽपि व्यन्तरा देवा पुंवेदोदयिनः सङ्ख्येयगुणाः, यतः सङ्घयेययोजनकोटीकोटीप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्तितावन्तःसामान्येन व्यन्तराः, केवलमिह पुरुषा विवक्षिताइति ते सकलसमुदायापेक्षया किञ्चिदूनद्वात्रिंशत्तमभागकल्पा वेदितव्याः, ततो घटन्ते जलचरयुवतिभ्यः सङ्घयेयगुणाः ३८ तेभ्यः व्यन्तर्यः सङ्खयेयगुणाः द्वात्रिंसद्गुणत्वात् ३९ । -ताभ्यो ज्योतिष्का देवाः सङ्खयेयगुणाः ते हि सामान्यतः षट्पञ्चादशधिकशतद्वयाकुलप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावप्रमाणाः, परमिह पुरुषा विवक्षिताइतितेसकलसमुदायापेक्षया किञ्चिदूनद्वात्रिंशत्तमभागकल्पाप्रतिपत्तव्याः, तत उपपद्यन्ते व्यन्तरीभ्यः सङ्ख्येयगुणाः ४० तेभ्यो ज्योतिष्कदेव्यः सङ्खयेयगुणाः द्वात्रिंशद्गुणत्वात् ४१। ताभ्यः खचरपञ्चेन्द्रियतिर्यग्योनिका नपुंसकाः सङ्ख्येयगुणाः, क्वचित् असङ्ख्येयगुणाः' इति पाठः, सनसमीचीनः, यत इतऊर्ध्वये पर्याप्तचतुरिन्द्रिया वक्ष्यन्तेतेऽपिज्योतिष्कदेवापेक्षया सङ्खयेयगुणा एवोपपद्यन्ते, तथाहि-षट्पञ्चटाशदधिकशतद्वयाङ्गुलप्रमाणानि सूचिरूपाणिखण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा ज्योतिष्काः, उक्तंच-“छपन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरइ" इति, अङ्गुलसफ़ेययभागमात्राणि च सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाश्चतुरिन्द्रियाः, उक्तंच॥१॥ “पज्जत्तापज्जत्तबितिचउरअसन्त्रणो अवहरंति। अङ्गुलसंखासंखप्पएसभइयं पुढो पयरं ।।" अङ्गुलसङ्खयेयभागापेक्षयाच षट्पञ्चादशधिकमङ्गुलशतद्वयं सड़येयगुणं, ततोज्योतिष्कदेवापेक्षया परिभाव्यमानाः पर्याप्तचतुरिन्द्रिया अपि सङ्केययगुणा एव घटन्ते किं पुनः पयप्तिचतुरिन्द्रियापेक्षया सङ्घयेभागमात्राः खचरपञ्चेन्द्रियनपुंसका इति? ४२ तेभ्योऽपि स्थलचरपञ्चेन्द्रियनपुंसकाः सङ्खयेयगुणाः ४३ तेभ्योऽपि जलचरपञ्चेन्द्रियनपुंसकाः सङ्केयगुणाः ४४ तेभ्योऽपि पर्याप्तचतुरिन्द्रियाः सङ्खयेगुणाः ४५ तेभ्योऽपिपर्याप्ताःसंश्यंज्ञिभेदभिन्नाः पञ्चेन्द्रिया विशेषाधिकाः ४६ तेभ्योऽपि पर्याप्ता द्वीन्द्रिया विशेषाधिकाः ४७। -तेभ्योऽपि पर्याप्तास्त्रीन्द्रिया विशेषाधिकाः, यद्यपि च पर्याप्तचतचुरिन्द्रियादीनं पर्याप्तत्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy