________________
पदं-३, उद्देशकः-, द्वारं-२४
१५७ तिर्यग्लोकगतमनुष्यस्त्रीणामूर्ध्वलोकेसमुत्पित्सूनां मारणान्तिकसमुद्घातवशात्दूरतरमूर्द्धविक्षितात्मप्रदेशानामद्यापि कालमकुर्वन्तीनां यथक्तप्रतरद्वयसंस्पर्शनभावात् तासां चोभयासामपि बहुतरत्वात्, ताभ्योऽधोलोकतिर्यग्लोके-प्रागुक्तस्वरूपे प्रतरद्वयरूपे सङ्घयेयगुणाः, तिर्यग्लोकाद् मनुष्यस्त्रीभ्यः शेषेभ्यो वाऽधोलौकिकग्रामेषुयदिवाऽधोलौकिकग्रामरूपात् शेषाद्वा तिर्यग्लोके मनुष्यस्त्रीतेवेनोत्पित्सूनांकासाञ्चिदधोलौकिकग्रामेष्ववस्थानतोऽ यथोक्तप्रतरद्वयसंस्पर्शसंभवात् तासांचप्रागुक्ताभ्योऽतिबहुत्वात्, ताभ्योऽपिऊर्ध्वलोके सङ्घयेयगुणाः,क्रीडार्थं चैत्यवन्दनिमित्तं वासौमनसादिषुप्रभूततराणां विद्याधरीणां (गमन)-संभवात्, ताभ्योऽप्यधोलोके सद्ध्येयगुणाः, स्वस्थानत्वेन तत्रापि बहुतराणां भावात्, ताभ्यस्तिर्यग्लोके सद्धेययगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात् स्वस्थानत्वाच्च । गतं मनुष्यगतिमधिकृत्याल्पबहुत्वम्, इदानीं देवगतिमधिकृत्याह
क्षेत्रानुपातेन चिन्त्यसमाना देवाः सर्वस्तोकाः ऊर्ध्वलोके, वैमानिकानामेव तत्र भावात् तेषां चाल्पत्वात्, येऽपि भवनपतिप्रभृतयो जिनेन्द्रजन्ममहोत्सवादी मन्दरादिषु गच्छन्ति तेऽपि स्वल्पाएवेति सर्वस्तोकाः, तेभ्यऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञेप्रतरद्वयेऽस
येयगुणाः, तद्धिज्योतिष्काणा प्रत्यासन्नमिति स्वस्थानं,तथा भवनपतिव्यन्तरज्योतिष्कामन्दरादौ सौधर्मादिकल्पगताःस्वस्थाने गमागमेनतथा ये सौधर्मादिषुदेवत्वेनोत्पित्सवोदेवायुः प्रतिसंवेदयमानाः स्वोत्पत्तिदेशमभिगच्छन्ति ते यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सामास्त्येन यथोक्तप्रतरद्वयसंस्पर्शिनः परिभाव्यमानाअतिबहव इतिपूर्वोक्तेभ्योऽसङ्ख्येयगुणाः,तेभ्यस्त्रैलोक्यसंस्पर्शिनः सङ्घयेयगुणाः, यतो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाः तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तः त्रीनपि लोकान् स्पृशन्ति ते चेत्थं समवहताः प्रागुक्तप्रतरद्वयस्पर्शिभ्यः सङ्घयेयगुणाः केवलवेदसोपलभ्यन्ते इति सङ्ख्येयगुणाः,
तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसंज्ञेप्रतरद्वये वर्तमानाः सङ्घयेयगुणाः, तद्धि प्रतरद्विकंभवनपतिव्यन्तरदेवानांप्रत्यासत्रतयास्वस्थानंतथा बहवो भवनपतयः स्ववनस्थाः तिर्यग्लोकगमागमेन तथोद्वर्त्तमानाः तथा वैक्रियसमुद्घातेन समवहतास्तथा तिर्यग्लोकवर्तिनस्तिर्यक्पञ्चेन्द्रियमनुष्या वा भवनपतित्वेनोत्पद्यमाना भवनपत्यायुरनुभवन्तो यथोक्तप्रतरद्वयसंस्पर्शिनोऽतिबहवइति सङ्खयेयगुणाः, तेभ्योऽधोलोके सङ्खयेयगुणाः, भवनपतीनांस्वस्थानमितिकृत्वा, तेभ्यस्तिर्यग्लोते सङ्ख्येयगुणाः,ज्योतिष्कव्यन्तराणां स्वस्थानत्वात् । अधुना देवीरधिकृत्याल्पबहुत्वमाह-- 'खेत्ताणुवाएणं' इत्यादि, सर्वं देवसूत्रमिवाविशेषेण भावनीयं ।
तदेवमुक्तं देवविषयमौधिकमल्पबहुत्वम्, इदानीं भवनपत्यादिविशेषविषयं प्रतिपिपादयिषुः प्रथमतो भवनपतिविषयमाह
मू. (२८८) खेत्ताणुवाएणं सव्वत्थोवा भवणवासी देवा उड्डलोए उड्डलोयतिरियलोए असंखेजगुणा तेलोक्के संखेनगुणा अहोलोयतिरियलोए असंखेजगुणा तिरियलोए असंखेजगुणा अहोलोए असंखेनगुणा । खेत्ताणुवाएणंसव्वत्थोबाओभवणवासिणीओदेवीओउडलोए उडलोयतिरियलोए असंखेज्जगुणाओ तेलोके संखेनगुणाओ अहोलोयतिरियलोए असंखेजगुणाओ तिरियलोए असंखेजगुणाओ अहोलोए असंखेजगुणाओ।।
खेत्ताणुवाएणं सव्वत्थोवा वाणमंतरा देवा उडलोए उड्डलोयतिरियलोए असंखेजगुणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org