________________
१५६
प्रज्ञापनाउपाङ्गसूत्र-१-३/-२४/२८७
तिर्यग्लोकवर्तिनश्चजीवास्तिर्यग्योनिकस्त्रीत्वेनाधोलौकिकग्रामेष्वपिचतेच तथोत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति तिर्यग्योनिकस्त्र्यायुःप्रतिसंवेदनाच्चतिर्यग्योनिकास्त्रियोऽपि, तथाऽधोलौकिकग्रामायोजनसहस्रावगाहाः पर्यन्तेऽक्विचिप्रदेशे नवयोजनशतावगाहाअपितत्र काश्चित्तिर्यग्योनिकस्त्रियोऽवसअथानेनापि यथोक्तप्रतरद्वयाध्यासिन्यो वर्तन्ते ततो भवन्ति पूर्वोक्ताभ्यः सङ्ख्येयगुणाः, ताभ्योऽधोलोके सङ्खयेयगुणाः, यतोऽधोलौकिकग्रामाः सर्वेऽपिचसमुद्रायोजनसहस्रावगाहाः ततो नवयोजनशतानामधस्तात्या वर्तन्ते मत्सीप्रभृतिकास्तिर्यग्योनिकस्त्रियस्ताः स्वस्थानत्वात्प्रभूता इतिसङ्ख्येयगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात्, ताभ्यस्तिर्यग्लोके सङ्घयेयगुणाः उक्तं तिर्यग्गतिमप्यधिकृत्याल्पबहुत्वम्, इदानीं मनुष्यगतिविषयमाह
क्षेत्रानुपातेन मनुष्याश्चिन्त्यमानास्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, यतो ये ऊर्ध्वलोकादधोलौकिकग्रामेषु समुत्पित्सवो मारणान्तिकसमुद्घातेन समवहता भवन्ति ते केचित् समुद्घातवशावहिर्निर्गतैः स्वात्मप्रदेशैस्त्रीनपि लोकान्स्पृशन्ति येऽपिचान्ये वैक्रियसमुद्घातमाहारकसमुद्घातं वा गताः प्राप्ताः तथाविधप्रयलविशेषात् दूरतरमूषिोविक्षिप्तात्मप्रदेशाः ये च केवलिसमुद्घातगतास्तेऽपि त्रीन्पि लोकान् स्पृशन्ति स्तोकाश्चेति सर्वस्तोकाः,
तेभ्यऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञकप्रतरद्वयसंस्पर्शिनोऽसङ्ख्येयगुणाः, यत इह वैमानिकदेवाः शेषकायाश्च यथासंभवमूर्ध्वलोकात्तिर्यग्लोके मनुष्यत्वेन समुत्पद्यमाना यथोक्तप्रतरद्वयसंस्पर्शिनो भवन्ति विद्याधराणामपिचमन्दरादिषु गमनं तेषां च शुक्ररुधिरादिपुद्ग- लेषु संमूर्छिमनुष्याणामुत्पाद इति ते विद्याधरा रुधिरादिपुद्गलसम्मिश्रा यदा गच्छन्तितदा संमूर्छिममनुष्या अपि यथोक्तप्रतरद्वयसंस्पर्शवन्त उपजायन्ते ते चातिबहव इत्यासङ्ख्येयगुणाः,
तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये सङ्खयेयगुणाः, यतोऽधोलौकिकग्रामेषुस्वभावतएव बहवो मनुष्याः, ततोये तिर्यग्लोकात्मनुष्येभ्यः शेषकायेभ्यो वाऽधोलौकिकग्रामेषु ग्रभव्युत्क्रान्तिकमनुष्यत्वेन संमूर्छिममनुष्यत्वेन वा समुत्पित्सवो ये चाधोलोकादधोलौकिकग्रामरूपात्शेषाद्वा मनुष्येभ्यः शेषकायेभ्योवातिर्यग्लोके गर्भव्युत्क्रान्तिकमनुष्यत्वेनवासंमूर्छिममनुष्यत्वेन वासमुत्पत्तुकामास्तेयथोक्तंकिल प्रतरद्वयंस्पृशन्ति बहुतराश्च ते तथा स्वस्थानतोऽपि केचिदधोलौकिकग्रामेषु यथोक्तप्रतरद्वयसंस्पर्शिन इति ते प्रागुक्तेभ्यः सङ्खयेयगुणाः, तेभ्यः ऊर्ध्वलोकेसङ्घयेयगुणाः, सौमनसादिक्रीडा,चैत्यवन्दनिमित्तंवा प्रभूततराणां विद्याधरचारणमुनीनां भावात् तेषां च यथायोगंरुधिरादिपुद्गलयोगतः संमूर्छिमम-नुष्यसंभवात्, तेभ्योऽधोलोके सङ्खयेयगुणाः, स्वस्थानत्वेन बहुत्वभावात्, तेभ्यस्तिर्यग्लोके सङ्घयेय- गुणाः, क्षेत्रस्य सङ्ख्येयगुणत्वात् स्वस्थानत्वाच्च । सम्प्रति क्षेत्रानुपातेन मानुषीविषयमल्पबहुत्वमाह
क्षेत्रानुपातेन मानुष्यश्चिन्त्यमानाः सर्वस्तोकाःत्रैलोक्यस्पर्शिन्यः, ऊर्ध्वलोकादधोलोके समुत्पित्सूनामारणान्तिकसमुद्घातवशविनिर्गतदूरतरात्मप्रदेशानामधवावैक्रियसमुद्घातगतानां केवलिसमुद्घातगतानां वा त्रैलोक्यसंस्पर्शनात् तासां चातिस्तोकत्वमिति सर्वस्तोकाः, ___ ताभ्य ऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये सङ्कयेयगुणाः वैमानिकदेवानां शेषकायाणां चोर्ध्वलोकात् तिर्यग्लोके मनुष्यस्त्रीत्वेनोत्पद्यमानानां तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org