SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ पदं-३, उद्देशकः-, द्वारं-२४ वृ. 'क्षेत्रानुपातेन' क्षेत्रानुसारेण नैरयिकाश्चिन्त्यमानाः सर्वस्तोकास्त्रैलोक्ये-लोकत्रयसंस्पर्शिनः, कथं लोकत्रयसंस्परिश्नो नैयिकाः कथं वा ते सर्वस्तोकाः इति चेत् ?, उच्यते, इह ये मेरुशिखरे अञ्जनदधिमुखपर्वतशिखरादिषु वा वापीषु वर्तमाना मत्स्यादयो नरकेषूपित्सव ईलिकागत्या प्रदेशाविक्षिपन्तितेकिल त्रैलोक्यमपि स्पृशन्ति नारकव्यपदेशंच लभन्ते तत्कालमेव नरकेषूत्पत्ते कायुष्कप्रतिसंवेदनात, ते चेत्थंभूताः कतिपये इति सर्वस्तोकाः, अन्ये तु व्याचक्षते-नारका एव यथोक्तवापीषु तिर्यक्पञ्चेन्द्रियतयोत्पद्यमानाः समुद्घातवशतो विक्षिप्तनिजात्मप्रदेशदण्डाः परिगृह्यन्ते, तेहि किल तदा नारका एव निर्विवादं, तदायुष्कप्रतिसंवेदनात, त्रैलोक्यसंस्पर्शिनश्च, यथोक्तवापीर्यावदात्मप्रदेशदण्डस्व विक्षिप्तत्वादिति, तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसञ्जञप्रागुक्तप्रतरद्वयस्य संस्पर्शिनोऽ. सङ्खयेयगुणाः, यतो बहवोऽसङ्खयेयेषुद्वीपसमुद्रेषु पञ्चेन्द्रियतिर्यग्योनिका नरकेषूत्पद्यमाना यथोक्तं प्रतरद्वयंस्पृशन्तिततो भवन्तिपूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, क्षेत्रस्यासङ्ख्यातगुणत्वात्, मन्दरादिक्षेत्रादसङ्ख्येयद्वीपसमुद्रात्मकं क्षेत्रमसङ्घयेयगुणमित्यतो भवन्त्यसद्ध्येयगुणाः, अन्ये त्वभिदधति-नारका एवासङ्घयेयेषु द्वीपसमुद्रेषु तिर्यक्पञ्चेन्द्रियतयोत्पद्यमाना मारणान्तिकसमुद्घातेन विक्षिप्तनिजात्मप्रदेशदण्डाद्रष्टव्याः, ते हि नारकायुःप्रतिसंवेदनानारका उद्वर्तमाना अपिअसङ्ख्येया; प्राप्यन्ते इतिप्रागुक्तेभ्योऽसङ्खयेयगुणाः, तेभ्योऽधोलोकेऽसङ्घयेयगुणाः, तस्य तेषां स्वस्थानत्वात् । उक्तं नारकगतिमधिकृत्य क्षेत्रानुपातेनाल्पबहुत्वम्, इदानीं तिर्यग्गतिमधिकृत्याह इदं सर्वमपि सामान्यतो जीवसूत्रमिव भावनीयं, तदपितिरश्च एव सूक्ष्मनिगोदानधिकृत्य भावितम्, अधुना तिर्यग्योनिकस्त्रीविषयमल्पबहुत्वमाह-क्षेत्रानुपातेन तिर्यग्योनिकस्त्रियश्चिन्त्य मानाः सर्वस्तोकाः ऊर्ध्वलोके, इह मन्दराद्रिवापीप्रभृतिष्वपिहि पञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियो भवन्ति,ताश्चक्षेत्रस्याल्पत्वात्सर्वस्तोकाः, ताभ्यऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये वर्तमानाः असङ्खयेयगुणाः, कथमिति चेत् ?, उच्यते, यावत्सहस्रादेवलोकस्तावद्देवा अपि गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रिययोनिषूत्पद्यन्ते किं पुनः शेषकायाः ?, ते हि यथासंभवमुपरिवर्तिनोऽपि तत्रोत्पद्यन्ते, ततो ये सहनारान्ता देवा अन्येऽपि च शेषकाया ऊर्ध्वलोकात्तिर्यग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेन तदायुः प्रतिसंवेदयमाना उत्पद्यन्तेयास्तिर्यग्लोकवर्त्तिन्यस्तिर्यक्पञ्चेन्द्रियस्त्रियऊर्ध्वलोके देवत्वेन शेषकायत्वेन चोत्पद्यमाना मारणान्तिकसमुद्घाततेनोत्पत्तिदेशे निजनिजात्मप्रदेशदण्डान् विक्षिपन्ति ता यथोक्तंप्रतरद्वयं स्पृशन्ति तिर्यग्योनिकस्त्रैयश्चतास्ततोऽसङ्घयेयगुणाः, क्षेत्रस्यासङ्घयेयगुणत्वात्, ताभ्यस्त्रैलोक्ये सङ्खयेयगुणाः, यस्मादधोलोकात् भवनपतिव्यन्तरनारकाः शेषकायाअपिचोर्ध्वलोकेऽपि तिर्यक्पञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते ऊर्ध्वलोकादेवादयोऽप्यधोलोके च ते समवहता निजनिजात्मप्रदेशदण्डैस्त्रीनपि लोकान् स्पृशन्ति प्रभूताश्च ते तथा तिर्यग्योनिकस्यायुःप्रतिसंवदनात् तिर्यग्योनिकस्त्रियश्च ततः सङ्घयेयगुणाः, ___ताभ्योऽधोलोकतिर्यग्लोके अधोलोकतिर्यग्लोकसंज्ञेप्रतरद्वये वर्तमानाः सङ्खयेयगुणाः, बहवो हि नारकादयः समुद्घातमन्तरेणापि तिर्यग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy