SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ प्रज्ञापनाउपाङ्गसूत्रं-१- ३/-/२४/२८६ विशेषाधिका अवाप्यन्ते ततो विशेषाधिकाः, - तेभ्यस्तिर्य' लोकवर्त्तिनोऽसङ्घयेयगुणाः उक्तक्षेत्रद्विका त्तिर्यग्लोक क्षेत्रस्यासङ्घयेयगुणत्वात्, तेभ्यस्त्रैलोक्ये - त्रिलोकसंस्पर्शिनोऽसङ्घत्येयगुणाः, इह ये केवले ऊर्ध्वलोकेऽधोलोके तिर्यग्लोके वा वर्त्तन्ते ये च विग्रहगत्या ऊर्ध्वलोकतिर्यग्लोकी स्पृशन्ति ते न गण्यन्ते, किं तु ये विग्रहगत्यापन्नास्त्रीन्पि लोकान् स्पृशन्ति ते परिग्राह्याः, सूत्रस्य विशेषविषयत्वात्, ते च तिर्यग्लोकवर्त्तभ्योऽसङ्घयेयगुणा एव, कथमिति चेत्, उच्यते, इह बहवः प्रतिसमयमूर्ध्वलोकेऽधोलोके च सूक्ष्मनिगोदा उद्धर्त्तन्ते, य तु तिर्यग्लोकवर्त्तिनः सूक्ष्मनिगोदा उद्वर्त्तन्ते अर्थादधोलोके र्ध्वलोके वा केचित्तस्मिन्नेव वा तिर्यग्लोके समुत्पद्यन्ते ततो न ते लोकत्रयसंस्पर्शिन इति नाधिकृतसूत्रविषयाः, तोर्ध्वलोकाधोलोकगतानां सूक्ष्मनिगोदानामुद्वर्त्तमानानां मध्ये केचित् स्वस्थाने एवोलोकेऽधोलोके वा समुत्पद्यन्ते केचित्तिर्यग्लोके, तेभ्योऽसङ्घत्येयगुणा अधोलोकगता ऊर्ध्वलोके ऊर्ध्वलोकगता अधोलोके समुत्पद्यन्ते, ते च तथोत्पद्यमानास्त्रीनपि लोकान् स्पृशन्तीत्यसङ्ख्येयगुणाः, कथं पुनरेतदवसीयते यदुत एवंप्रमाणा बहवो जीवाः सदा विग्रहगत्यापन्नाः लभ्यन्ते इति चेत् ?, उच्यते, युक्तिवशात्, तथाहि - प्रागुक्तमिदमत्रैव सूत्रं पर्याप्तद्वारे - "सव्वत्योवा जीवा नोपजत्तानो अपजत्ता अपजत्ता अनंतगुणा पञ्जत्ता संखेञ्जगुणा" इति, त एवं नामापर्याप्ता बहवः येनैतेभ्यः पर्याप्ताः सङ्घयेयगुणा एव नासङ्घयेयगुणा नाप्यनन्तगुणाः, ते चापर्याप्ता बहवोऽनन्तरगती वर्त्तमाना लभ्यन्ते इति, तेभ्यो ऊर्ध्वलोके - ऊर्ध्वलोकावस्थिता असङ्घयेयगुणाः, उपपातक्षेत्रस्यातिबहुत्वात्, असङ्घयेयाना य भागानामुद्वर्त्तनायाश्च संभवात्, तेभ्योऽ धोलोकेअधोलोकवर्त्तिनो विशे० ऊर्ध्वलोक क्षेत्रादधोलोकक्षेत्रस्य विशे० । तदेवं सामान्यतो जीवानां क्षेत्रानुपातेनाल्पबहुत्वमुक्तम्, इदानीं चतुर्गतिदण्डकक्रमेण तदभिधित्सुः प्रथमतो नैरयिकाणमाह मू. (२८७) खेत्ताणुवाएणं सव्वत्थोवा नेरइया तेलोक्के अहोलोयतिरियलोए असंखेज्जगुणा, अहोलोए असंखेजगुणा || खेत्ताणुवारणं सव्वत्योवा तिरिक्खजोणिया उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखेज्जगुणा तेलोक्के असंखेजगुणा उडलोए असंखेजगुणा अधोलोए विसेसाहिया । खेत्ताणुवाएणं सव्वत्थोवाओ तिरिक्खजोणिणीओ उड्ढलोए उडलोयतिरियलोए असंखेज्जगुणाओ तेलोक्के संखेजगुणाओ अहोलोयतिरियलोए संखेञ्जगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए संखेज्जगुणाओ ।। खेत्ताणुवाएणं सव्वत्थोवा मणुस्सा तेलोक्के उडलोयतिरियलोए असंखेजगुणा अहोलोयतिरियलोए संखेज्जगुणा उडलोए संखेजगुणा अहोलोए संकेज्जगुणा तिरियलोए संखेज्जगुणा खेत्ताणुवाएणं सव्वत्थोवा मणुस्सीओ तेलोक्केउड्डलोयतिरियलोए संखेज्जगुणाओ अहोलोयतिरियलोए संखेजगुणाओ उडलोए संखेज्जगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए संखेज्जगुणाओ ।। खेत्ताणुवाएणं सव्वत्थोवा देवा उढलोए उडलोयतिरियलोए असंखेजगुणा ते लोके संखेजगुणा अहोलोयिरियलोए संखेजगुणा अहोलोए संखेज्जगुणा तिरियलोए संखेज्जगुणा । खेत्ताणुवाएणं सव्वत्थोवाओ देवीओ उड्डुलोए उडलोयतिरियलोए असंखेज्जगुणाओ तेलोक्के संखेज्जगुणाओ अहोलोयतिरियलोए संखेज्जगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए संखेजगुणाओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org ,
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy