SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४७ पदं-३, उद्देशकः-, द्वारं-१२ “कोडिसहस्सपुहुत्तं मणुयलोए संजयाणं” इति वचनात्, तेभ्यः संयतासंयताः-देशविरता असङ्ख्येयगुणाः,तिर्यपञ्चेन्द्रियाणामसङ्ख्ययातानादेशविरतिसद्मावात्, तेभ्यो नोसंयतनोऽसंयतनोसंयासंयताअनन्तगुणाः, प्रतिषेधत्रयवृत्ताहि सिद्धास्ते चानन्ता इति, तेभ्योऽसंयता अनन्तगुणाः,वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ॥ गतं संयतद्वारम्, सम्प्रत्युपयोगद्वारमाह __-पद-३- दारं-१३:- "उपयोगः" मू. (२७५) एएसिणंभंते! जीवाणंसागारोवउत्ताणंअनागारोक्उत्ताणयकयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसा हिया वा ?, गोयमा! सव्वत्थोवा जीवा अनागारोवउत्ता सागारोवउत्ता संखेजगुणा। कृ. इहानाकारोपयोगकालः सर्वस्तोकः साकारोपयोगकालस्तु सङ्ख्येयगुणः ततो जीवा अयनाकारोपयोगोपयुक्ताः सर्वस्तोकाः, पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात्, तेभ्यः साकारोपयोगोपयुक्ताः सङ्खयेयगुणाः, साकारोपयोगकालस्य दीर्घतया तेषां पृच्छासमये बहूनां पराप्यमाणत्वात् ।। गतमुपयोगद्वारम्, इदानीमाहारद्वारमाह -:पदं-३-दारं-१४:- “आहार" मू. (२७६) एएसिणं भंते ! जीवाणं आहारगाणं अनाहारगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा जीवा अनाहारगा आहारगा असंखेनगुणा। दृ. सर्वस्तोका जीवा अनाहारकाः, विग्रहगत्यापन्नादीनामेवानाहारकत्वात्, उक्तंच॥१॥ “विग्गहगइमावन्नै केवलिणो समुहया अयोगी य। सिद्धा य अनाहारा सेसा आहारगा जीवा ॥" तेभ्यःआहारका असङ्ख्येयगुणाः, ननुवनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां चाहारकतयापि लभ्यमानत्वात् कथमनन्तगुणा न भवन्ति?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, इह सूक्ष्मनिगोदाः सर्वसङ्ख्ययाप्यसङ्ख्येयाः, तत्राप्यन्तर्मुहूर्तसमयराशितुल्याः सूक्ष्मनिगोदाः सर्वकालं विग्रहे वर्तमाना लभ्यन्ते, ततोऽनाहारका अप्यतिबहवः सकलजीवराश्यसङ्ख्येयभागतुल्या इति तेभ्यः आहारका असङ्घयेयगुणा एव नानन्तगुणाः।।गतमाहारद्वारम्, इदानीं भाषकद्वारमाह -पदं-३-दारं-१५:- "भाषकः" मू. (२७७) एएसिणं भंते! जीवाणं भासगाणं अभासगाण यकयरे कयरेहितोअप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवाभासगा अभासगा अनंतगुणा वृ.सर्वस्तोका भाषकाः-भाषालब्धिसम्पन्नाः, द्वीन्द्रियादीनामेव भाषकत्वात्, अभाषकाभाषालब्धिहीना अनन्तगुणाः, वनस्पतिकायिकानामनन्तत्वात् ॥ गतं भाषकद्वारं, सम्प्रति परीत्तद्वारमाह - पदं-३-दारं-१६:- "परित्तः" मू. (२७८) एएसिणं भंते ! जीवाणं परीत्ताणं अपरीत्ताण य नोपरीत्तनोअपरीत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा?, गोयमा ! सब्वत्थोवा जीवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy