SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६ प्रज्ञापनाउपाङ्गसूत्र-१-३/-/20/२७२ संभवात्, तेभ्योऽसङ्खयेयगुणा अवधिज्ञानिनः, नैरयिकतिर्यक्पश्चेन्द्रियमनुष्यदेवानामष्यवधिज्ञानसंभवात, तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, संज्ञितिर्यक्पञ्चेन्द्रियमनुष्याणामेवावधिज्ञानविकलानामपि केषाञ्चिदाभिनिवोधिकश्रुतज्ञानभावात, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, “जत्थ मइनाणं तत्थ सुयनाणं जत्थ सुयनाणं तत्थ मइनाणं" इति वचनात्, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्त्वात् ।। उक्तं ज्ञानिना मल्पबहुत्वम्, इदानीं तप्रतिपक्षभूतानामज्ञानिनामल्पबहुत्वमाह सर्वस्तोका विभङ्गज्ञानिनः, कतिपयानामेव नैरयिकदेवतिर्यपञ्चेन्द्रियमनुष्याणां विभङ्गभावात्, तेभ्योमत्यज्ञानिनः श्रुताज्ञानिनोऽनन्तगुणाः, वनस्पतीनामपिमत्यज्ञानश्रुताज्ञानभावात् तेषां चानन्तत्वात् स्वस्थाने तु परस्परंतुल्याः “जत्थ मइअनाणं तत्थ सुयअन्नाणं जत्थ सुयअन्नाणंतत्थ मइअनाणं' इतिवचनात् ।। सम्प्रत्युभयेषांज्ञान्याज्ञानिनांसमुदायेनाल्पबहुत्वमाह सर्वस्तोका मनःपर्यवज्ञानिनः तेभ्योऽसङ्ख्येयगुणा अवधिज्ञानिनः तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, अत्र भावना प्रागेवोक्ता, तेभ्योऽसङ्खयेयगुणा विभङ्गज्ञानिनः, यस्मात्सुरगती निरयगतौ च सम्यग्दृष्टिभ्यो मिथ्यादृष्टयोऽसङ्ख्येयगुणाः पठ्यन्ते, देवनैरयिकाश्च सम्यग्दृष्टोऽवधिज्ञानिनो मिथ्याष्टो विभङ्गज्ञानिन इत्यसङ्खयेयगुणाः, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यो मत्यज्ञानिनः श्रुतज्ञानिनश्चानन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात्, तेषां च मत्यज्ञानिश्रुताज्ञानित्वात्, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः॥ गतं ज्ञानद्वारम्, इदानीं दर्शनद्वारमाह - पदं-३-दारं-११:- "दर्शन" मू. (२७३) एएसि णं भंते ! जीवाणं चक्खुदंसणीणं अचखुदंसणीणं ओहिदंसणीणं केवलदसणीण य कयरे कयरेहितो अप्पा वा जाव विसेसाहिया वा?, गो० सव्वत्थोवा जीवा ओहिदसणी चक्खुदसणी असंखेनगुणा केवलदसणी अनंतगुणा अचक्खुदंसणी अनंतगुणा। इ.सर्वस्तोका अवधिदर्शनिनः, देवनैरयिकाणां कतिपयानांच संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणामवधिदर्शनभावात्,तेभ्यश्चक्षुर्दनिनोऽसङ्ख्येयगुणाः, सर्वेषांदेवनैरयिकगर्भजमनुष्याणां संज्ञितिर्यक्पश्चेन्द्रियाणां असंज्ञितिर्यक्पञ्चेन्द्रियाणां चतुरिन्द्रियाणां च चक्षुर्दर्शनभावत्, तेभ्यः केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्त्वात्व,तेभ्योऽचक्षुर्दशनिनोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धभ्योऽप्यननत्वात् ।। गतं दर्शनद्वारम्, अधुना संयतद्वारमाह -पदं-३-दारं-१२:- “संयतः" म. (२७४) एएसिणं भंते! जीवाणं संयताणं असंयताणं संजयासंजयाणं नोसंजयनोअसंजयनोसंजयासंजयाण य कयरो कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सवयोवा जीवा संजया संजया संयताअसंखेनगुणा नोसंयतानोअसंजयानोसंयतासंयता अनंतगुणा असंजया अनंतगुणा ।। वृ.सर्वस्तोकाःसंयताः,उत्कृष्टपदेऽपितेषांकोटीसहमपृथकत्वप्रमाणतया लभ्यमानत्वात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy