SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ पदं-३, उद्देशकः-,द्वारं-४ १४३ यप्तिभ्यो हि सूक्ष्मवनस्पतिकायिकपर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मेष्वोघतोऽपर्याप्तभ्यः पर्याप्तानां सङ्घयेयगुणत्वात्ततः सूक्ष्मापयप्तिभ्योऽपिसङ्ख्येयगुणाः, विशेषाधिकत्वस्य सङ्घयेयगुणत्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्षमपृथिवीकायिकादीनामपि तत्रप्रक्षेपात्, ततः सामान्यतः सूक्ष्माः पर्याप्तपर्याप्तविशेषणरहिता विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । गतं सूक्ष्मबादरसमुदायगतं पञ्चममल्पबहुत्वं, तद्गतौ समर्थितानि पञ्चदशापि सूत्राणीति ।। गतं कायद्वारम्, इदानीं योगद्वारमाह ___-पद-३-दारं-५:- “योगः":-- मू. (२६७) एएसि णं मंते ! जीवाणं सयोगीणं मणजोगीणं वइजोगीणं कायजोगीणं अयोगीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसाहिया वा?, गो० सव्वत्योवा जीवा मणयोगी वययोगी असंखे० अयोगी अनंतगुणा काययोगी अनंत० सयोगी विसे०॥ वृ. सर्वस्तोका मनोयोगिनः, संज्ञिनः पर्याप्ता एव हि मनोयोगिनः ते च स्तोका इति, तेभ्यो वाग्योगिनोऽसङ्ख्येयगुणाः, द्वीन्द्रियादीनां वाग्योगिनां संज्ञिभ्योऽसङ्ख्यातगुणत्वात्, तेभ्योऽयोगिनोऽनन्तगुणाः,सिद्धानामनन्तत्वात, तेभ्यः काययोगिनोऽनन्तगुणाः, वनस्पतीनामनन्तत्वात, यद्यपिनिगोदजीवानामनन्तानामेकंशरीरंतथापितेनैकेन शरीरेण सर्वेऽष्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्तगुणत्वाव्याघातः तेभ्यः सामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योगादीनां तत्र प्रक्षेपात् ॥ गतं योगद्वारम्, इदानीं वेदद्वारमाह -पद-३-दारं-६:- "वेद":म. (२६८)एएसिणंभंते! जीवाणंसवेयगाणं इत्थीवेयगाणं पुरिसवेयगाणंनपुंसकवेयगाणं अवेयगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा?, गो० सव्वत्योवा जीवा पुरिसवेयगा इत्थी० संखे० अवेयगा अनंतगुणा नपुंसक० अनंत० सवेयगा विसेसाहिया वृ. सर्वस्तोकाः पुरुषवेदाः, संज्ञिनामेव तिर्यग्मनुष्याणां देवानांच पुरुषवेदभावात्, तेभ्यः स्त्रीवेदाः सङ्खयेयगुणाः, यत उक्तं जीवाभिगमे- “तिरिक्खजोणियपुरिसेहितो तिरिक्खजोणियइत्थीओतिगुणीओ तिरूवाहियाओय, तहामणुस्सपुरिसेहिंतोमणुस्सइत्थीओसत्तावीसगुणाओ सत्तावीसख्वुत्तराओय, तथा देवपुरिसेहिंतोदेवित्थीओबत्तीसगुणाओबत्तीसरुवुत्तराओ'' इति, वृद्धाचार्यैरप्युक्तं॥१॥ "तिगुणा तिरूवअहिया तिरियाणं इथिया मुणेयव्वा । सत्तावीसगुणा पुन मणुयाणं तदहिया चेव ॥ ॥२॥ बत्तीसगुणा बत्तीसरूवअहिया य तहय देवाणं । देवीओ पन्नत्ता जिनेहिं जियरागदोसेहिं॥" अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यो नपुंसकवेदा अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, सामान्यतः सवेदकाः विशेषाधिकाः, स्त्रीवेदकपुरुषवेदकानामपि तत्र प्रक्षेपात, ॥ गतं वेदद्वारम्, इदानीं कषायद्वारमाह - पदं-३-दारं-७:- "कषाय":म. (२६९) एएसिं णं भंते ! सकमाईणं कोहकसाईणं मानकसार्दणं पायाकमाईणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy