SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ प्रज्ञापनाउपाङ्गसूत्र-१-३/७/२६९ लोहकसाईणं अकसाईण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवाअकसाईमानकसाई अनंतगुणा कोहकसाईविसेसाहिया मायाकसाई विसेसाहिया लोहकसाई विसेसाहिया सकसाई विसेसाहिया। वृ. सर्वस्तोका अकषायिणः, सिद्धानां कतिपयानां च मनुष्याणामकषायित्वात्, तेभ्यो मानकषायिणो मानकषाययपरिणामन्तोऽनन्तगुणाः, षट्स्वपि जीवनिकायेषु मानकषायपरिणामस्यावाप्यमानत्वात्, तेभ्यः क्रोधकषायायिणो विशेषाधिकाः तेभ्योऽपि मायाकषायिणो विशेषाधिकाः तेभ्योऽपिलोभकषायिणो विशेषाधिकाः, मानकषायपरिणामकालापेक्षयाक्रोधादिकषायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशेषाधिकत्वभावात्, लोभकषायिभ्यः सामान्यतः सकषायिणो विशेषाधिकाः, मानादिकषायिणामपि तत्र प्रक्षेपात्, सकषायिण इत्यत्रैवं व्युत्पत्तिः कषायशब्देन कषायोदयः परिगृह्यते, तथा च लोके व्यवहारः-सकषायोऽयं कशायोदयवानित्यर्थः, सह कषायेण-कषायोदयेन ये वर्तन्ते ते सकषा- योदयाः-विपाकावस्थां प्राप्ताः स्वोदयमुपदर्शयन्तः कषायकर्मपरमाणवस्तेषु सत्सु जीवस्यावश्यं कषायोदयसम्भवात्, सकषाया विद्यन्ते येषां ते सकषायिणः कषायोदयसहिता इति तात्पर्यार्थः गतं कषायद्वारम्, इदानीं लेश्याद्वारम् - -:पदं-३-दारं-८:- "लेश्या " :मू. (२७०) एएसिणं भंते ! जीवाणं सलेसाणं किण्हलेसाणं निललेस्साणं काउलेस्साणं तेउलेस्साणं पम्हलेस्साणं सुक्कलेस्साणं अलेस्साण य कयो कयरहितो अप्पा वा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवाजीवासुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखेज्जगुणा अलेस्सा अनंतगुणा काउलेस्सा अनंतगुणा नीललेस्सा विसे० कण्हलेसा विसे० सलेस्सा विसे० वृ. सर्वस्तोकाः शुक्ललेश्याः, लान्तकादिषश्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिकेषु कर्मभूमिकेषु सङ्ख्येयवर्षायुष्केषु मनुष्येषु तिर्यस्त्रीपुंसेषु च कतिपयेषुसङ्ख्येयवर्षायुष्केषुतस्याः संभवात, तेभ्यः पद्मलेश्याकाः सङ्ग्येयगुणाः, साहिपद्मलेश्या सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिषु देवेषु तथा प्रभूतेषु गर्भव्युत्क्रान्तिकेषु कर्मभूमिजेषु सङ्खयेयवर्षायुष्केषुमनुष्यस्त्रीपुंसेषुतथागर्भव्युत्क्रान्तिकतिर्यग्योनिकस्त्रीपुंसेषुसद्धेययवर्षायुष्केष्ववाप्यते, सनत्कुमारादिदेवादयश्च समुदिता लान्तकादिदेवादिभ्यः सङ्ख्येयगुणा इति भवन्ति शुक्ललेश्याकेभ्यः पद्मलेश्याकाः सङ्घयेयगुणाः, तेभ्यस्तेजोलेश्याकाः सङ्ख्येयगुणाः, सर्वेषां सौधर्मेशानज्योतिष्कदेवानां कतिपयानां च भवनपतिव्यन्तरगर्भव्युत्क्रान्तिकतिर्यक्प चेन्द्रियमनुष्याणां बादरपर्याप्तैकेन्द्रियाणां च तेजोलेश्याभावात्, नन्वसङ्ख्येयगुणाः कस्मान्न भवन्ति?, कथं भवन्तीति चेत, उच्यते, इह ज्योतिष्काः भवनवासिभ्योऽप्यसङ्खयेयगुणाः किं पुनः सनत्कुमारादिदेवेभ्यः, ते च ज्योतिष्कास्तेजोलेश्याकाः तथासौधर्मेशानकल्पदेवाश्च, ततःप्राप्नुवन्त्यसङ्ख्येयगुणाः, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, लेश्यापदेहि गर्भव्युत्क्रान्तिकतिर्यग्योनिकानांसंमूर्छिमपञ्चेन्द्रियतिर्यग्योनिकानांच कृष्णलेश्याघल्पबहुत्वेसूत्रं वक्ष्यति-सव्वत्थोवा गब्मवक्कंतियतिरिक्खजोणिया सुक्कलेसा तिरिक्खजोणिणीओ संखेज्जगुणाओ, पम्हलेसा गब्भवतियतिरिक्खजोणिया संखेज्जुणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy