SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४२ प्रज्ञापनाउपासूत्र-१-३/-/४/२६६ असङ्ख्येयगुणाः, एकैकबादर-पर्याप्तनिश्रया असङ्खयेयानांबादरापर्याप्तानामुत्पादात्, तेभ्यः सूक्ष्मा अपर्याप्ताः असङ्खयेयगुणाः, सर्वलोकापन्नतयातेषां क्षेत्रस्यासक्येयगुणत्वात्, तेभ्यः सूक्ष्मपर्याप्तकाः सङ्खयेयगुणाः, चिरकाला- वस्थायितया तेषां सदैव सङ्खयेयगुणतयाऽवाप्यमानत्वात् । गतं चतुर्थमल्पबहुत्वम्, इदानीमेतेषामेव सूक्ष्मसूक्ष्मपृथिवीकायिकादीनांडादरबादरपृथिवीकायिकादीना च प्रत्येकं पर्याप्तापर्याप्तानां च समुदायेन पञ्चममल्पबहुत्वमाह-- सर्वस्तोका बादरतेजःकायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यूनैरावलिकासमयैर्गुणिते यावान्समयराशिस्तावप्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावत्यङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावप्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिका अपर्याप्ता असङ्खयेयगुणाः, प्रतरे यावत्यहुलासङ्घयेयभागमात्राणि खण्डानि तावप्रमाणत्वात्तेषां, तेभ्यः प्रत्येकवादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्ख्येयगुणाः, यद्यप्येते प्रत्येकं प्रतरे यावत्यकुलासङ्येयभागमात्राणि खण्डानि तावप्रमाणास्तथाप्यकुलासङ्घयेयभागस्यासङ्ख्येयभेदभिन्नत्वात् इत्यं यथोत्तरमसङ्ख्येयगुणत्वमभिधीयमानं न विरुध्यते, तेभ्यो बादरतेजःकायिका अपर्याप्ता असङ्खयेयगुणाः, असङ्घयेयलोकाकाशप्रदेशप्रमाणत्वात्, ततःप्रत्येकशरीरबादरवनस्पतिकायिकाबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुका यिका अपर्याप्ता यथोत्तरमसङ्घयेयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तभ्यः सूक्ष्मतेजःकायिका अपर्याप्ता असङ्खयेयगुणाः ततः सूक्ष्मपृथिवीकायिकसूक्ष्मप्कायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरंविशेषाधिकाः ततः सूक्ष्मपर्याप्तस्तेजःकायिकाः सङ्ख्यातगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां ओघत एव सङ्ख्येयगुणत्वात्, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माकायिकसूक्ष्मवायुकायिकाः पर्याप्ताः यथोत्तरं विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका असङ्ख्येयगुणाः, तेषामतिप्राभूत्येनसर्वलोकेषुभावात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाः सङ्ख्येयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघतएव सदा सङ्ख्येयगुणत्वात्, एतेच बादरापर्याप्ततेजःकायिकादयः पर्याप्तसूक्ष्मनिगोदापर्यवसानाः षोडश पदार्था यद्यप्यन्यत्राविशेषेणासङ्खयेयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाप्यसङ्ग्येयत्वस्यासंख्येयभेभिन्नत्वाद् इत्थमसङ्ख्येयगुणत्वं विशेषाधिकत्वं सङ्ख्येयगुणत्वं च प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरवनस्पतिकायिकाः पर्याप्ताअनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानांजीवानां भावात्, तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजःकायिकादीनामपितत्रप्रक्षेपात, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्ग्येयगुणाः, एकैकपर्याप्तबादरनिगोदनिश्रया असङ्खयेयानांबादरनिगोदापर्याप्तानामुत्पादात, तेभ्यःसामान्यतो बादराअपर्याप्ता विशेषाधिकाः, बादरतेजःकायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्खयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्तानामप्यसङ्खयेयगुणत्वात्, ततः सामान्यतः सूक्ष्मापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यपर्याप्तानां नत्र प्रक्षेपात. तेभ्यः सक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मवनस्पतिकायिकाप For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy