SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पद-३, उद्देशकः--, दारं-४ १४१ वृ. 'एएसिणं भंते !' इत्यादि, इह प्रथमं बादरगतमल्पबहुत्वं बादरपञ्चसूत्र्यां यप्रथम सूत्रं तद्वद्भावनीयं यावद्बादरवायुकायपदं, तदनन्तरं यत्सूक्ष्मगतमल्पबहुत्वं तत्सूक्ष्मपञ्चसूत्र्यां यप्रथमं सूत्रं तद्वत्तावद्यावत्सूक्ष्मनिगोदचिन्ता, तदनन्तरंबादरवनस्पतिकायिका अनन्तगुणाः, प्रतिबादर-निगोदामनन्तानांजीवानां भावात्,तेभ्यो बादरा विशेषाधिकाः, बादरतेजःकायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्ख्येयगुणाः, बादरनिगोदेभ्यःसूक्ष्मनिगोदानाम-सङ्खयेयगुणत्वात्, तेभ्यः सामान्यतःसूक्ष्मा विशेषाधिकाः, सूक्ष्मतेजः कायिकादीनामपि तत्र प्रक्षेपात् । गतमेकल्पबहुत्वम्, इदानीमेतेषामेवापर्याप्तानां द्वितीयमाह “एएसि णं भंते !' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्ताः ततो बादरतेजःकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ताः क्रमेण यथोत्तरमसङ्घयेयगुणाः, अत्र भावना बादरपञ्चसूत्र्यां यद्वितीयमपर्याप्तकसूत्रं तद्वत्कर्तव्या, ततो बादरवायुकायिकेभ्योऽसङ्ख्येयगुणाः सूक्ष्मतेजःकायिका अपर्याप्ताः, अतिप्रभूतासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्मा-प्कायिकसूक्ष्मवायुकायिकसूक्ष्मनिगोदा अपर्याप्ता यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना सूक्ष्म- पञ्चसूत्र्यां यद् द्वितीयं सूत्रं तद्वत्, तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ताः अनन्तगुणाः, प्रतिबाादरैकैकनिगोदमनन्तानां जीवानां सद्भावात्, तेभ्यः सामान्यतोबादरापर्याप्तकाविशेषाधिकाः, बादरत्रसकायिकापर्याप्तादीनामपितत्र प्रक्षेपात, तेभ्यः सूक्ष्मवनस्पतिकायिकाअपर्याप्ता असङ्ख्येयगुणाः, बादरनिगोदापयप्तिभ्यः सूक्ष्मनिगोदापर्याप्तानामसङ्ख्येयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजःकायिकापर्याप्तादीनामपितत्र प्रक्षेपात्। गतं द्वितीयमल्पबहुत्वम्, अधुनाएतेषामेवपर्याप्तानांतृतीयमल्पबहुत्वमाह 'एएसिणंभंते! सुहुमपज्जत्तयाणं' इत्यादि, सर्वस्तोकाबादरतेजःकायिकाः पर्याप्ताः तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादरप्कायिकबादरवायुकायिकाः पर्याप्ता यधोत्तरमसङ्ख्येयगुणाः,अत्र भावना बादरपञ्चसूत्र्यां यत्तृ तीयं पर्याप्तसूत्रंतद्वत् कर्तव्या, बादरपर्याप्तवायुकायिकेभ्य; सूक्ष्मतेजःकायिकाः पर्याप्ताअसङ्घयेयगुणाः, बादरवायुकायिका हिअसङ्ख्येयप्रतरप्रदेशराशिप्रमाणाः सूक्ष्मतेजःकायिकास्तु पर्याप्ता असङ्खयेयलोकाकाशप्रदेशराशिप्रमाणास्ततोऽसङ्ख्येयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्मा कायिकसूक्ष्मवायुकायिकाः, पर्याप्ताः क्रमेण यथोत्तरं विशेषाधिकाः ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्यः सूक्ष्मनिगोदाः पर्याप्तका असङ्ख्येयगुणाः, तेषामतिप्रभूततया प्रतिगोलकंभावात्, तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः, प्रतिपादरैरैकनिगोदमनन्तानां भावात्, तेभ्यः सामान्यतो बादराः पर्याप्तका विशेषाधिकाः, बादरतेजःकायिकादीनामपि पर्याप्तानां तत्रप्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताअसङ्खयेयगुणाः, बादरनिगोदपर्याप्तेभ्य: सूक्ष्मनिगोदपर्याप्तानामसद्धयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजःकायिकादीनामपि पर्याप्तानांतत्र प्रक्षेपात्, ।गतंतृतीयमल्पबहुत्वम्, इदानीमेतेषामेव सूक्ष्मबादरादीनांप्रत्येकंपर्याप्तापयप्तिानां पृथग्पृथगल्पबहुत्वमाह- ‘एएसिणंभंते! सुहुमाणं बायराणं पज्जत्तापज्जत्ताणं' इत्यादि, सर्वत्रेय भावना सर्वस्तोका बादराः पर्याप्ताः, परिमितक्षेत्रवर्तित्वात, तेभ्यो बादरा अपर्याप्ताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy