SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रं १- ३/-/३/२६२ भागवत्यसङ्क्षेययश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषां प्रभूतसङ्केययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाःतेषा विष्कम्मसूच्या प्रभूततरसङ्घयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तेषा विष्कम्भसूच्या प्रभूततमसङ्केत्यययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तेषा विष्कम्भसूच्या प्रभूततमसङ्केययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपि अनिन्द्रिया अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽपि एकेन्द्रिया अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, तेभ्योऽपि सेन्द्रिया विशेषाधिकाः द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् तदेवमुक्तमेकमौधिकानामल्पबहुत्वम्, इदानीं तेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह १३० सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्ताः, एकस्मिन्प्रतरेयावन्त्यङ्गुलासययबागमात्राणि खण्डानि तावव्यमाणत्वात् तेषां तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूताङ्कुला - सह्येत्यभागखण्डप्रमाणत्वात्, तेभ्यस्त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूततरप्रतरामुलासङ्केय- भागखण्डमानत्वात्, तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूततमप्रतराङ्गुलासङ्घयेय- भागखण्डप्माणत्वात्, तेभ्य एकेन्द्रिया अपर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्ततया सदा प्राप्यमाणत्वात् तेभ्योऽपि सेन्द्रिया अपर्याप्ता विशेषाधिकाः, द्वीन्द्रियाद्यपर्याप्तनामपि तत्र प्रक्षेप्ता गतं द्वितीयमल्पबहुत्वम्, अधुना एतेषामेव पर्याप्तनामल्पबहुत्वमाह - सर्वस्तोकाश्चतुरिन्द्रियाः पर्याप्ताः, यतोऽल्पायुषश्चतुरिन्द्रियास्तत; प्रभतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते च स्तोका अपि प्रतरे यावन्त्यङ्गुलंसङ्घयेयभागमात्राणि खण्डानि तावव्यमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियाः पर्याप्ता विशेषाधिकाः, प्रभूतप्रतराङ्गुलसङ्ख्त्येयभागखण्डमानत्वात्, तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः, प्रभूततरप्रतरामुलसङ्केययभागखण्डमानत्वात्, तेभ्योऽपित्रीन्द्रियाः पर्याप्ता विशेषाधिकाः, स्वभावत एव तेषां प्रभूततमप्रतराङ्गुलसख्खयेयभागखण्डप्रमाणत्वात्, तेभ्य एकेन्द्रियाः पर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानां पर्याप्तानामनन्तमानत्वात्, तेभ्यः सेन्द्रियाः पर्याप्ता विशेषाधिकाः, द्वीन्द्रियादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । (गतं) तृतीयमल्पबहुत्वं, सम्प्रत्येतषामेव सेन्द्रियादीनां प्रत्येकं पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह सर्वस्तोकाः सेन्द्रिया अपर्याप्तकाः, इह सेन्द्रियेषु मध्ये एकेन्द्रिया एव बहवः तत्रापि च सूक्ष्माः तेषां सर्वलोकापन्नत्वात् सूक्ष्माश्चापर्याप्ताः सर्वस्तोकाः पर्याप्ताः सङ्घयेयगुणा इति सेन्द्रिया अपर्याप्ताः सर्वस्तोकाः, पर्याप्ताः सङ्क्षेययगुणाः, एवमेकेन्द्रिया अपि अपर्याप्ताः सर्वस्तोकाः, पर्याप्ताः सत्यगुणा भावनीयाः । तथा सर्वस्तोका द्वीन्द्रियाः पर्याप्तकाः, यावन्ति प्रतरेयऽङ्गुलस्य सङ्घयेयभागमात्राणि खण्डानि तावप्रमाणत्वात् तेषां तेभ्योऽ पर्याप्ताः असङ्घत्येयगुणाः, प्रतरगताङ्गुलासङ्केत्यभागखण्डप्रमाणत्वात्, एवं त्रिचतुरिन्द्रियपञ्चेन्द्रियाल्पबहुत्वान्यपि वक्तव्यानि । गतं षडल्पबहुत्वात्मकं चतुर्थमल्पबहुत्वम् । सम्प्रत्येतेषां सेन्द्रियादीनां समुदितानां पर्याप्तापर्याप्तानामल्पबहुत्वमाह'एएसिणं भंते' इत्यादि । इदं प्रागुक्तद्वितीयतृतीयाल्पबहुत्वभावनानुसारेण स्वयं भावनीयं, तत्त्वतो भावितत्वात् । गतमिन्द्रियद्वारम् इदानीं कायद्वारमधिकृत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy