SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२८ प्रज्ञापनाउपाङ्गसूत्रं-१-३/-19/२६० चोपर्यवतिष्ठन्ते न मनागपि चक्रं गच्छन्ति, सिध्यन्ति च तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पञ्चस्वैरावतेषु मनुष्या अल्पाः, क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिधधभावादिति तक्षेत्रसिद्धाः सर्वस्तोकाः, तेभ्यः पूर्वस्यादिशि सङ्ख्येयगुणाः,पूर्वविदेहाना भरतैरावतक्षेत्रेभ्यः सङ्ख्येयगुणतयातद्गतमनुष्याणामपि सङ्ख्येयगुणत्वात् तेषां च सर्वकालं सिद्धिभावात्, तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अधोलोकिकग्रामेषु मनुष्यबाहुस्यात् । गतं दिग्द्वारं इदानीं गतिद्वारम्, तत्रेदमादिसूत्रम् -:पदं-३-दारं-२:- "गतिः ":मू. (२६१) एएसिणं भंते ! नेरइयाणं तिरक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य पंचगति० समणेणं कतरे कतरेहितो अप्पा वा बहुया वा तुला वा विसेसाहिया वा?, गोयमा सब्बत्योवा मणुस्सा नेरइया असंखेज्जगुणा देवा असंखेजगुणा सिद्धा अनंतगुणा तिरिक्खजोणिया अनंतगुणा॥ एएसिणंभंते! नेरइयाणंतिरिक्खजोणियाणंतिरिक्खजोणीणीणं मणुस्साणंमणुस्सीणं देवाणं देवीणं सिद्धाण य अट्ठगति० समसेणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवाओ मणुस्सीओ, मणुस्सा असंखेनगुणा, नेरइया असंखेजगुणा, तिरिक्खजोणियीओअसंखेनगुणाओ, देवाअसंखेनगुणा, देवीओ संखेजगुणाओ, सिद्धा अनंतगुणा, तिरिक्खजोणिया अनंतगुणा ।। पृ. सर्वस्तोका मनुष्याः, षन्नवतिच्छेदनकच्छेद्यराशिप्रमाणत्वात्, सच षन्नवतिच्छेदनकदायी राशिरग्रेदर्शयिष्यते, तेभ्यो नैरयिका असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशशिर्भवति तावप्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषुयावन्तो नभः प्रदेशास्तावप्रमाणत्वात्, तेभ्यो देवा असङ्खयेयगुणाः, व्यन्तराणांज्योतिष्काणांच प्रत्येकंप्रतरासायेयभागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात, तेभ्यः सिद्धा अनन्तगुणाः, अभव्येभ्योऽनन्तगुणत्वात्, तेभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्। तदेवं नेरयिकतिर्यग्योनिकमनुष्यदेवसिद्धरूपाणां पचनामल्पबहुत्वमुक्तम्, इदानीं नैरयिकतिर्यग्योनिकतैर्यग्योनिकीमनुष्यामानुषीदेवदेवीसिद्धलक्षणानामष्टानामल्पबहुत्वमभिधित्सुरिदमाह-सर्वस्तोका मानुष्यो - मनुष्यस्त्रियः, सङ्ख्येयकोटीकोटीप्रमाणत्वात्, ताभ्यो मनुष्या असङ्ख्येयगुणाः, इह मनुष्या इति संमूर्छनजा अपि गृह्यन्ते, वेदस्याविवक्षणात्, ते व संमूर्छनजा वान्तादिषु नगरनिर्द्धमनान्तेषु जायमाना असङ्खयेयाः प्राप्यन्ते, तेभ्यो नैरयिकाअसङ्खयेयगुणाः, मनुष्या हि उत्कृष्टपदे ऽपि श्रेणयसङ्ख्येयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते नैरयिकास्त्वगुलमात्रक्षेत्रप्रदेशराशिसत्कतूतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाश प्रदेशराशिप्रमाणाः ततो भवन्त्यसद्ध्येयगुणाः तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसङ्खयेयगुणाः, प्रतरासङ्घयेयभागवत्तच्यसङ्खयेयश्रेणिनभः- प्रदेशराशिप्रमाणत्वात्, ताभ्योऽपिदेवा असङ्ख्येयगुणाः, असङ्ख्येयगुणप्रतरासङ्खयेयभागवत्य- सङ्घयेयश्रेणिगतप्रदेशराशिमानत्वात्, तेभ्योऽवि देव्यः सङ्घयेयगुणाः, द्वात्रिंशद्गुणत्वात्, ताग्योऽपि सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यभ्यो निका अनन्तगुणाः, अत्रयुक्तिः प्रागेवोक्ता ।। गतं गतिद्वारम्॥इदानीं इन्द्रियद्वारमधिकृत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy