SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पदं - ३, उद्देशक:-, द्वारं- 9 दाक्षिणात्या असङ्घयेयगुणाः, एवं सर्वास्वपि क्रमेणं वाच्यम् ॥ तिर्यक्पञ्चेन्द्रियसूत्रं त्वप्कायसूत्रवद् भावनीयम् ।। सर्वस्तीका मनुष्या दक्षिणस्यामुत्तरस्यां च, पञ्चानां भरतक्षेत्राणां पञ्चानामैरावतक्षेत्राणामल्पत्वात्, तेभ्यः, पूर्वस्यां दिशि सङ्घयेयगुणाः, क्षेत्रस्य सङ्घयेयगुणत्वात्, तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, स्वभावत एवाधोलौकिकग्रामेषु मनुष्य बाहुल्यभावात् ॥ दिसाणुवाएणं सव्वत्थोवा भवणवासी' इत्यादि, सर्वस्तोका भवनवासिनो देवाः पूर्वस्यां पश्चिमायां च दिशि, तत्र भवनानामल्पत्वात्, तेभ्य उत्तरदिग्भाविनोऽसङ्घयेयगुणाः, स्वस्थानतया तत्र भवनानां बाहुल्यात्, तेभ्योऽपि दक्षिणदिग्भाविनोऽसङ्केयेयगुणाः, तत्र भवनानामतीव बाहुल्यात्, तथाहि - निकाये निकाये चत्वारि चत्वारि भवनशतसहस्राण्यतिरिच्यन्ते, कृष्णपाक्षिकाश्च बहवस्तत्रोत्पद्यन्ते, ततो भवन्त्यसङ्ख्त्येयगुणाः । १२७ व्यन्तरसूत्रे भावना - यत्र सुषिरं तत्र व्यन्तराः प्रचलन्ति, यत्र धनं तत्र न, ततः पूर्वस्यां दिशि धनत्वात् स्तोका व्यन्तराः, तेभ्योऽ परस्यां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु सुषिरसंभवात्, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, स्वस्थानतया नगरावासबाहुल्यात्, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, अतिप्रभूतनगरावासबाहुल्यात् । तथा सर्वस्तोका ज्योतिष्काः पूर्वस्यां पश्चिमायां च दिशि, चन्द्रादित्यद्वीपेषूद्यानकल्पेषु कतिपयानामेव तेषां भावात्, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, विमानबाहुल्यात् कृष्णपाक्षिकाणां दक्षिणदिग्भावित्वाच्च, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडास्थानमिति क्रीडनव्यापृता नित्यमासते, मानसरतसि च ये मत्स्यादयो जलचरास्ते आसन्नविमानदर्शनतः समुत्पन्नजातिस्मरणाः किञ्चिद् व्रतं प्रतिपद्यानशनादि च कृत्वा कृतनिदानस्तत्रोत्पद्यन्ते ततो भवन्ति उत्तराहा दाक्षिणात्येभ्यो विशेषाधिकाः ॥ 7 तथा सौधर्मे कल्पे सर्वस्तोकाः पूर्वस्यां पश्चिमायां च दिशि वैमानिका देवाः, यतो यान्यावलिकाप्रविष्टानि विमानानि तानि चतसृष्वपि दिक्षु तुल्यानि यानि पुनः पुष्पावकीर्णानि तानि प्रभूतानि असङ्घयेययोजनविस्तृतानि तानि च दक्षिणस्यामुत्तरस्यां दिशि नान्यत्र, ततः सर्वस्तोकाः पूर्वस्यां पश्चिमायां च दिशि, तेभ्य उत्तरस्यां दिशि असङ्घयेयगुणाः, पुष्पावकीर्णकविमानानां बाहुल्यात् असङ्घयेयोजनविस्तृतत्वाच्च, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् । एवमीशानसनत्कुमारमाहेन्द्रकल्पसूत्राण्यपि भावनीयानि । ब्रह्मलोककल्पे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्भाविनो देवाः, यतो बहवः कृष्णपाक्षिकास्तिर्यग्योनयो दक्षिणस्यां दिशि समुत्पद्यन्ते शुक्लापाक्षिकाश्च स्तोका इति पूर्वोत्तरपश्चिमदिग्भाविनः सर्वस्तोकाः, तेभ्यो दक्षिणस्यां दिशि असङ्घयेयगुणाः, कृष्णपाक्षिकाणां बहूनां तत्रोत्पादात् एवं लान्तकशुक्रसहस्रारसूत्राण्यपि भावनीयानि । आनतादिषु पुनर्मनुष्या एवोत्पद्यन्ते, तेन प्रतिकल्पं प्रतिग्रैवेयकं प्रत्यनुत्तरविमानं चतसृषु दिक्षु प्रायो बहुसमा वेदितव्याः, तथा चाह 'तेण परं बहुसमोववन्नगा समणाउसो !' इति ॥ सर्वस्तोकाः सिद्धा दक्षिणस्यामुत्तरस्यां च दिशि, कथमिति चेत् ?, उच्यते, इह मनुष्या एव सिध्यन्ति, नान्ये, मनुष्या अपि सिध्यन्तो येष्वाकाशप्रदेशेष्विह चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेषूर्ध्वमपि गच्छन्ति तेष्वेव For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy