SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२६ प्रज्ञापनाउपाङ्गसूत्रं-१-३/-/१/२६० उत्तरदिगपेक्षया दक्षिणस्यां दिशिभवनानां नरकावासानां चातिप्रभूतत्वात्। तथा यत्र प्रभूता आपस्तत्रप्रभूताः पनकादयोऽनन्तकायिका वनस्पतयःप्रभूताः शङ्खादयो द्वीन्द्रियाः प्रभूताः पिण्डीभूतसेवालाद्याश्रिताः कुन्थ्वादयस्त्रीन्द्रियाः प्रभूताः पद्माद्याश्रिता भ्रमरादयश्चतुरिन्द्रियाइति हेतोर्वनस्पत्यादिसूत्राणि चतुरिन्द्रियसूत्रपर्यन्तानि अप्कायिकसूत्रवद्भावनीयानि नैरयिकसूत्रेसर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्विभागभाविनो नैरयिकाः, पुष्पावकीर्णनरकावासानां तत्राल्पत्वात, बहूनां प्रायः सङ्खयेययोजनविस्तृतत्वाच, तेभ्योदक्षिणदिग्विभागभाविनोऽसङ्ख्येयगणाः, पुष्पावकीर्णनरकावासानांतत्रबाहुल्यात्, तेषांचप्रायोऽसङ्घयेययोजनविस्तृतत्वात्, कृष्णापाक्षिकाणां तस्यां दिशि प्राचुर्येणोत्पादाम्च, तथाहि-द्विविधा जन्तवः, शुक्लपाक्षिकाः कृष्णपाक्षिकाच, तेषां लक्षणमिदं-येशां किञ्चिदूनपुद्गलपरावर्धिमात्रसंसारस्तेशुक्लपाक्षिकाः, अधिकतरसंसारभाजिनस्तु कृष्णपाक्षिकाः, उक्तंच॥१॥ "जेसिमवड्डो पुग्गलपरियट्टो सेसओ य संसारो। ते सुक्कपक्खिया खलु अहिए पुन कण्हपक्खी उ॥" अतएवच स्तोकाः शुक्लपाक्षिकाः, अल्पसंसारिणांस्तोकत्वात्, बहवः कृष्णपाक्षिकाः, प्रभूतसंसारिणामतिप्रचुरत्वात्, कृष्णपाक्षिकाचप्राचुरयेण दक्षिणस्यां दिशि समुत्पद्यन्ते, नशेषासु दिक्षु, तथास्वाभाव्यात्, तच्च तथास्वाभाव्यं पूर्वाचायैरेवं युक्तिभिरुपबृह्यते, तद्यथा कृष्णपाक्षिकादीर्घतरसंसारभाजिनउच्यन्ते, दीर्घतरसंसारमाजिनश्च बहुपापोदयाद्भवन्ति, बहुपापोदयाश्चकूरकर्माणः,क्रूरकर्माणश्च प्रायस्तथास्वाभाव्यात् तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु, यत उक्तं॥१॥ "पायमिह कूरकम्मा भवसिद्धियावि दाहिणिल्लेसुं। नेरइयतिरियमणुसायसुराइठाणेसु गच्छंति।।" ततो दक्षिणस्यां दिशि बहूनां कृष्णापाक्षिकाणामुत्पादसम्भवात् पूर्वोक्तकारणद्वयाच्च सम्भवन्ति पूर्वोत्तरपश्चिमदिग्विभागभाविभ्यो दाक्षिणात्या असङ्खयेयगुणाः। यथाचसामान्यतो नैरयिकाणां दिग्विभागेनाल्पबहुत्वमुक्तं, एवं प्रतिपृथिव्यापि वक्तव्यं, युक्तेः सर्वत्रापि समानत्वात् । तदेवं प्रतिपृथिव्यपि दिग्विभागेनाल्पबहुत्वमभिहितं, इदानीं सप्तापि पृथिवीरधिकृत्य दिग्विभागेनाल्पबहुत्वमाह सप्तमपृथिव्यांपूर्वोत्तरपश्चिमदिग्भाविभ्यो नैरयिकेभ्योये सप्तमपृथिव्यामेव दाक्षिणात्यास्तेऽसद्धयेयगुणाः, तेभ्यः षष्ठपृथिव्यांतमःप्रभाभिधानायांपूर्वोत्तरपश्चिमदिग्भाविनोऽसङ्ख्येयगुणाः, कथमिति चेद् ?, उच्यते, इह सर्वोत्कृष्टपापकारिणः संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याः सप्तमनरकपृथिव्यामुत्पद्यन्ते, किञ्चिहीनहीनतरपापकर्मकारिणश्च षष्ट्यादिषु पृथिवीषु, सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोकाः बहवश्च यथोत्तरं किञ्चिद्धीनहीनतरादिपापकर्मकारिणः ततो युक्तमसङ्खयेयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपश्चिमनारकाणां, एवमुत्तरोत्तपृथिवीरप्यधिकृत्य भावयितव्यम्, तेभ्योऽपि तस्यामेव षष्टपृथिव्यांदक्षिणस्यां दिशिनारकाअसङ्ख्येयगुणाः,युक्तिरत्रप्रागेवोक्ता, तेभ्योऽपिपञ्चमपृथिव्यां धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्भाविनोऽसद्धयेयगुणाः, तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy