________________
१२२
प्रज्ञापनाउपागसूत्र-१-२/-1-२५६ पगमनेन मुक्ता जातिजरामरणबन्धनविमुक्ताः, हेतावियंप्रथमा, यतोजातिजरामरणबन्धनविप्रमुक्तास्ततोनिस्तीर्णसर्वदुःखाः, कारणाभावात्, ततोऽव्यावबाधंसौख्यंशाश्वतंसिद्धाअनुभवन्ति
पदं-२ - समाप्तम्। मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापना उपासूत्रे द्वीतीयपदस्यमलयगिरिविरचिताटीका परिसमाप्ता।
पद-३-अल्पबहुत्त्वम् (बहुवक्तव्य) वृ.व्याख्यातं द्वितीयंपदं, अधुना तृतीयपदमारभ्यते, तस्य चायमभिसम्बन्धः-इह प्रथम पदे पृथिवीकायिकादयः प्रज्ञप्ताः द्वितीये ते एव स्वस्थानादिना चिन्तिताः अस्मिंस्तु तेषां दिग्विभागादिनाऽल्पबहुत्वादि निरूप्यते, तत्रेदमादौ द्वारसङ्गङ्ग्रहगाथाद्वयम्मू. (२५७) दिसि गइ इंदिय काए जोए वेए कसाय लेसा य।
सम्मतं नाणदंसणं संजयउवओगआहारे॥ वृ.प्रथमं दिग्द्वारं १, तदनन्तरं गतिद्वारं, २, तत इन्द्रियद्वारं ३, ततः कायद्वारं ४, ततो योगद्वारं ५, तदनन्तरं वेदद्वारं ६, ततः कषायद्वारं, ७, ततो लेश्याद्वारं ८, ततः सम्यकत्वद्वार ९, तदनन्तरं ज्ञानद्वारं १०, ततो दर्शनद्वारं ११, ततः संयतद्वारं १२, तत उपयोगद्वारं १३, तत आहारद्वारं १४, पू. (२५८) भासगपरित्तपजत्त सुहुमसन्नी भवऽथिए चरिमे।
जीवे य खित्तबंधे पुग्गलमहदंडए चेव ॥ वृ.ततो भाषकद्वारं १५, ततः परित्त' इति परित्ताः-प्रत्येकशरीरिणः शुक्लपाक्षिकाश्च तद्वारं १६, तदनन्तरं पर्याप्तद्वारं १७, ततः सूक्ष्मद्वारं १८, तदनन्तरं संज्ञिद्वारं १९, ततो भव'त्ति भवसिद्धिकद्वारं २०, ततोऽस्तीति अस्तिकायद्वारं २१, ततश्चरमद्वारं २२, तदनन्तरंजीवद्वारं, २३, ततः क्षेत्रद्वारं २४, ततो बन्धद्वारं २५, ततः पुद्गलद्वारं २६, ततो महादण्डकः २७, इति सर्वसङ्ख्यया सप्तविंशतिः द्वाराणि । तत्र प्रथमं द्वारमभिधित्सुराह
-पदं-२- दारं-१:-"दिसा":म. (२५९)दिसाणुवाएणंसव्वत्थोवाजीवापच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया।
वृ. इह दिशः प्रथमे आचाराख्ये अङ्गे अनेकप्रकारा व्यावर्णिताः, तत्रेह क्षेत्रदिशः प्रतिपत्तव्याः, तासां नियतत्वात्, इतरासां च प्रायोऽनवसअथितत्वात् अनुपयोगित्वाच्च, क्षेत्रदिशां च प्रभवस्तिर्यग्लोकमध्यगतादष्टप्रदेशकाद्रुचकात्, यत उक्तम्॥१॥ "अट्ठपएसोरुयगो तिरियलोयस्स मज्झयारम्मि ।
एस पभवो दिसाणं एसेव भवे अनुदिसाणं ॥” इति, दिशामनुपातो दिगनुपातो-दिगनुसरणं तेन दिशोऽधिकृत्येति तात्पर्यार्थः, सर्वस्तोका जीवाः पश्चिमेन-पश्चिमायां दिशि, कथमिति चेत् ?, उच्यते, इदं ह्यल्पबहुत्वं बादरानधिकृत्य द्रष्टव्यं, न सूक्ष्मान्, सूक्ष्माणां सर्वलोकापन्नानां प्रायः सर्वत्रापि समत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org