________________
पदं-२, उद्देशकः-, द्वार
१२१ वृ. 'इय'इत्यादि, एवं निर्वाणं-मोक्षमुपगताः सिद्धाः सर्वकालं साद्यपर्यवसितं कालं तृप्ताः-सर्वथौत्सुक्यविनिवृत्तिभावतः परमसंतोषमधिगता अतुलम् अनन्यसध्शमुपमाऽतीतत्वात शाश्वतं प्रतिपाताभावात अव्याबाधं लेशतोऽपि व्याबाधाया असंभवात सुखं प्राप्ता अत एव सुखिनः तिष्ठन्तीति । एतदेव सविशषतरंभावयतिमू. (२५५) सिद्धत्ति य बुद्धति य पारगयत्ति । य परंपरगयत्ति उ
मुक्तकम्मकवया अजरा अमरा असंगाय।। वृ. 'सिद्धत्ति य' इत्यादि, सितं-बद्धमष्टप्रकारं कर्म ध्मातं-भस्मीकृतं यैस्ते सिद्धाः "पृषोदरादयः" इतिरूपनिष्पत्तिः,निर्दग्धानेकभवकर्मेन्धनाइत्यर्थः, तेचसामान्यतः कर्मादिसिद्धा अपि भवन्ति, यत उक्तम्॥१॥ “कम्मे सिप्पे य विजाए, मंतेजोगे य आगमे ।
अत्थजत्ताअभिपाए, तवे कम्पक्खए इय।।" ततःकर्मादिसिद्धव्यपोहाय आह-'बुद्धा' इति, अज्ञाननिद्राप्रसुप्तेजगत्यपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिस्वभावबोधरूपा इति भावः, एतेऽपि च संसारनिर्वाणोभयपरित्यगेन स्थितवन्तः कैश्चिदिष्यन्ते॥१॥ "संसारे न च निर्वाणे, स्थितो भुवनभूतये ।
अचिन्त्यः सर्वलोकानां, चिन्तारलाधिको महान् ।।" इति वचनात्, ततस्तन्निरासार्थमाह-'पारगता' इति, पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वागताः पारगताः, तथाभव्यत्वाक्षिप्तसकलप्रयोजनसमाप्तया निरवशेषकर्तव्यशक्तिविप्रमुक्ता इति भावः, इत्थंभूता अपि कैश्चिद् यदृच्छावादिभिरक्रमसिद्धत्वेनापि गीयन्ते, तथोक्तम्॥१॥ "नैकादिसंख्याक्रमतो, वित्तप्राप्तिर्नियोगतः।
दरिद्रराज्यचारित्ररूपया, तद्वन्मुक्तिः कवचिन्नकिम् ? " ततस्तन्मतव्यपोहाय ‘परम्परागता' इतिपरम्परया-ज्ञानदर्शनचारित्ररूपया मिथ्याष्टिसासादन-सम्यग्मिध्यादृष्टयअविरत सम्यग्दृष्टिदेशविरतिप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिबादरसंपरायसूक्ष्मसंपरायांपशान्तमहक्षीण मोहसयोगिकेवल्ययोगिकेवलिगुणस्थानभेदभिन्नया गताः परम्परागताः, एतेच कैश्चित् तत्त्वतोऽनुन्मुक्तकर्मकवचा अभ्युपगम्यन्ते 'तीर्थनिकारदर्सनादिहागच्छन्ति' इति वचनतः पुनः संसारावतरणाभ्युपगमात्, अतस्तन्मतापाकरणार्थमाह
_ 'उन्मुक्तकर्मकवचाः' उत्-प्राबल्येनापुनर्भवरूपतया मुक्तं परित्यक्तं कर्म कवचमिव कर्मकवचं यैस्ते उन्मुक्तकर्मकवचाः, अत एवाजराः शरीराभावतो जरसोऽभावात् अमरा अशरीरत्वादेव प्राणत्यागासंभवात्, उक्तंच॥१॥ "वयसो हाणीह जरा, पाणचाओ य मरणमादिहें।
सइ देहमि तदुभयं तदभावेतं न कस्सेव ॥" मू. (२५६) निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का।
अव्याबाहं सोक्खं अणुहोती सासयं सिद्धा॥ वृ. असङ्गा बाह्याभ्यन्तरसङ्गरहितत्वात् 'निच्छिन्न' इत्यादि, निस्तीर्णं-लचितं सर्वदुःखं यैस्ते निस्तीर्णसर्वदुःखाः, कुतः? इत्याह-'जातिजरामरणबंधणविमुक्का' जातिः-जन्म जरावयोहानिलक्षणामरणं प्राणत्यागरूपंबन्धनानि-तन्त्रबन्धनरूपाणि कर्माणि तैर्विशेषतो-निःशेषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org