SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२० प्रज्ञापनाउपाङ्गसूत्र-१-२/-1-1२५० सिद्धसुखराशिः सर्वाद्धापिण्डितः' सर्वयासाद्यपर्यवसितयाअद्धया, यत्सुखं सिद्धः प्रतिसमयमनुभवति तदेकत्र पिण्डीकृतमिति भावः, सोऽनन्तवर्गभक्तः-अनन्तैर्वर्गमूलैरपवर्तितः,अनन्तैवर्गमूलैः तावदपवर्तितो यावत् सर्वाद्धालक्षणेन गुणकारेण गुणने यदधिकं जातं तस्य सर्वस्याप्यपवर्तनैः सिदअधात्वाद्यसमयभाविसुखमात्रतां प्राप्त इति भावः, । सर्वाकाशे न माति-एतावन्मात्रोऽपि सर्वाकाशे न माति सर्वस्तु दूरापास्तप्रसर एवेति ज्ञापनार्थ पिण्डयित्वा पुनरपवर्तनं सुखराशेः, इयमत्र भावना-इह किल विशिष्टाह्यादरूपं सुखं परिगृह्यते, ततश्चयत आरभ्यशिष्टानां सुखशब्दप्रवृत्तिस्तमाह्यादमवधिकृत्य एकैकगुणवृद्धितारतम्येन तावदसावालादो विशिष्यते यावदनन्तगुणवृध्द्या निरतिशयनिष्ठामुपगतः, सोऽयमत्यन्तोपमातीतैकान्तीत्सुक्यविनिवृत्तिरूपस्तिमिततमकल्पः चरमाहादः सदा सिद्धानां, तस्माचारतः प्रथमाचोध्वमपान्तरालवर्तिनो ये गुणास्तारतम्येनाहादविशेषरूपास्ते सर्वाकाशप्रदेशेभ्योऽप्यतिभूयांसः, ततः किलोक्तं-'सव्वागासे न माइजा' इति, अन्यथा यत् सर्वाकाशे न माति तत् कथमेकस्मिन् सिद्धे मायाद् ? इति पूर्वसूरिसंप्रदायः॥ साम्प्रतमस्य निरुपमतां प्रतिपादयतिमू. (२५१) जह नाम कोइ मिच्चो नगरगुणे बहुविहे वियाणंतो। नचएइ परिकहेउं उवमाए तहिं असंतीए। वृ. जहनाम' इत्यादि, यता नामकश्चिदम्लेच्छोनगरगुणान्-गृहनिवासादीन्बहुविधान्अनेकप्रकारान् विजानन् अरण्यगतः सन् अन्यम्लेच्छोभ्यो न शक्नोति परिकथयितुं, कस्मान शक्नोति ? इत्यत आह-उपमायां तत्रासत्यां "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायाद् हेती सप्तमी, तत उपमाया अभावादिति द्रष्टव्यं, एष गाथाऽक्षरार्थः, भावार्थः कथानकादवसेयः, एगो महारत्रवासी पिच्छो रन्ने चिट्ठति, इत्तो य एगो राया आसेण अवहरितो तं अडविं पवेसिओ तेण दिट्ठो, सक्कारिऊण जनवयं नीतो, रन्नावि सो नगरं नीओ, पच्छा उवगारित्ति गाढमपचरितो, जहा राया तहा चिट्टइ. धवलधराइभोगेण विभासा, कालेण रनंसरिउमारद्धो, रत्ना विसजिओ, तत्तो रनिगा पुच्छंति-'केरिसं नयरंति' ? सो वियाणंतोऽवि तत्थोवमाभावा न सक्कइ नयरगुणे परिकहेउं । एस दिलुतो, अयमर्थोपनयःमू. (२५२) इय सिद्धाणं सोक्खं अनोवम नत्थि तस्स ओवम्म। किंचि विसेसेणितो सारिक्खमिणं सुणए वोच्छं। वृ.इयसिद्धाणं इत्यादि, इत्येवं सिद्धानां सौख्यमनुपमवर्तते, किमिति?,तत आह-यतो नास्तितस्यौपम्यं, तथाऽपि बालजनप्रतिपत्तये किञ्चि विशेषेण इतो' इति आर्षत्वाद् अस्येत्यर्थः, साध्यमिदं-वक्ष्यमाणं अणुतमू. (२५३) जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई। तहाछुहाविमुक्को अच्छिज्ज जहा अमियतितो॥ वृ. 'जह सब्ब' इत्यादि, यथेत्युदाहरणोपदर्शनार्थः, मुज्यते इति भोजनं सर्वकामगुणितं' सकलसौन्दर्यसंस्कृतं कोऽपि पुरुषो मुक्त्वा क्षुत्तृविप्रमुक्तः सन् यथा अमृततृप्तस्तथा तिष्ठति, मू. (२५४) इय सव्वकालतित्ता अतुलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं चिटंति सही सुहं पत्ता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy