________________
११९
पदं-२, उद्देशकः-, द्वार
सम्प्रति सिद्धिानेव लक्षणतः प्रतिपादयतिमू. (२४६) असरीरा जीवधना उवउत्ता दसणे य नाणे य ।
सागारमनागारं लक्खणमेयं तु सिद्धाणं ।। वृ. 'असरीरा' इत्यादि, अविद्यमानशरीरा अशरीरा औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते घनाश्च वनदोदरादिशुषिरूरणात् जीवघना उपयुक्ता दर्शने-केवलदर्शने ज्ञाने च-केवलज्ञाने यद्यपि सिद्धत्वप्रादुर्भावसमये केवलज्ञानमिति ज्ञानं प्रधानं तथाऽपि सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थमादौ सामान्यावलम्बनं दर्शनमुक्तं,
तथा च सामान्यविषयंदर्शनं विशेषविषयंज्ञानमिति, ततःसाकारानाकारसामान्यविशेषोपयोगरूपमित्यर्थः, सूत्रेमकारोऽलाक्षणिको, लक्षणं-तदन्यव्यावृत्तिस्वरूपमेतत्-अनन्तरोक्तं, तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थ, सिद्धानां-निष्ठितार्थानामिति । सम्प्रति केवलज्ञानकेवलदर्शनयोरशेषविषयतामुपदर्शयतिमू. (२७) केवलनाणुवउत्ता जाणंता सव्वभावगुणभावे।
पासंता सब्बओ खलु केवलदिट्ठीहिऽनंताहिं ।। वृ. 'केवलनाणुवउत्ता' इत्यादि, केवलज्ञानेनोपयुक्ता न त्वन्तः करणेन तदभावादिति केवलज्ञानोपयुक्ता जानन्ति-अवगच्छन्तिसर्वभावगुणभावान्-सर्वपदार्थगुणपर्यायान्, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचनः, गुणपर्याययोस्त्वयं विशेषः-सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा पश्यन्ति सर्वतः खलु-खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, केवलष्टिभिरनन्ताभिः,अनन्तैः केवलदर्शनैरित्यर्थः, केवलदर्सनानांचानन्तता सिद्धानामनन्तत्वात्, इहादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थ ॥
सम्प्रति निरुपमसुखभाजस्ते इति दर्शयतिमू. (२४८) नवि अस्थि माणुसाणं तं सुक्खं नविय सव्वदेवाणं ।
जंसिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ।। वृ. 'नवि अस्थि' इत्यादि, नैवास्ति मनुष्याणां चक्रवादीनामपि तत्सौख्यं, नैवास्ति सर्वदेवानामनुत्तरपर्यन्तानामपि यत् सिद्धानां सौख्यमव्याबाधामुपगताना-नविविधाऽऽबाधा अव्याबाधा तां उप-सामीप्येन गतानां प्राप्तानां ।। यथा नास्ति तथा भङ्गयोपदर्शयतिम. (२४९) सुरगणसुहं समत्तं सव्वद्धापिंडियं अनंतगुणं ।
नवि पावइ मुत्तिसुहं नंताहिं वग्गवग्गूहि ।। वृ. 'सुरगणसुहं' इत्यादि, 'सुरगणसुखं' देवसंघातसुखं “समस्त' संपूर्णमतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः सर्वाद्धापिण्डितं' सर्वकालसमयगुणितंतथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासत्कल्पनया एकैकाकाशप्रदेशे स्थाप्यते इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनन्तं भवति तदनन्तमप्यनन्तैगैर्वर्गितं तथाऽप्येवं प्रकर्षगतमपि मुक्तिसुखं-सिद्धिसुखं न प्राप्नोति । एतदेव स्पष्टतरं भङ्गयन्तरेण प्रतिपादयतिमू. (२५०) सिद्धस्स सुहोरासी सब्बद्धापिंडिओ जइ हवेजा।
सोऽनंतवणभइओ सव्वागासे नमाइजा।। वृ. सिद्धस्स सुहोरासी इत्यादि, सुखानांराशिः सुखराशिः-सुखसंघातः सिद्धस्यसुखराशिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org