________________
११८
॥२॥
॥३॥
प्रज्ञापनाउपाङ्गसूत्रं-१-२/-/-/२४२
सत्तूसियएसु सिद्धी जहन्नओ कहमिहं बिहत्थेसु ? । साकिर तित्थयरेसु सेसाणं सिज्झमाणाणं ।। पुण हो बिहत्या कुम्मापुत्तादयो जहन्नेणं । अन्ने संवट्टियसत्तहत्यसिद्धस्स हीणत्ति ॥"
पू. (२४३)
साम्प्रतमुक्तानुवादेनैवसंस्थानलक्षणं सिद्धानामभिधत्सुराहओगाहणाइ सिद्धा भवत्तिभागेण होति परिहीणा । संठाणमनित्थंथं जरामरणविप्पमुक्काणं ॥
वृ. 'ओगाहणाओ' इत्यादि, सुगमं, नवरं 'अनित्थंथं' इति इदंप्रकारमापन्नमित्यं इतत्यं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं वदनादिशुषिरप्रतिपूरणेन पूर्वाकारान्यथाभावतोऽनियताकारतमिति भावः, योऽपि च सिद्धादिगुणेषु 'सिद्धे न दीहे न हस्से' इत्यादिना दीर्घत्वादीनां प्रतिषेधः कृतः सोऽपि पूर्वाकारापेक्षया संसअथानस्यानित्यसंस्थत्वातच् प्रतिपत्तव्यो, न पुनः सर्वथा संस्थानस्याभावतः, आह च भाष्यकृत् -
11 9 11
"सुसिरकपरिपूरणाओ पुब्वागारन्नहाववत्थाओ । संठाणमणित्यंत्यं जं भणियमणिययागारं ।। एत्तोच्चय पडिसेहो सिद्धाइगुणेस दीहयाईणं । जमणित्थंथं पुव्वागाराविक्खाए नाभावो ॥"
॥२॥
नन्वेते सिद्धाः परस्परं देशभेदेने व्यवसत्थिता उत नेति ? नेति तद् ब्रूमः कस्मादिति चेत्, मू. (२४४) जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का । अन्नोऽन्नसमोगाढा पुट्ठा सव्वेवि लोगंते ॥
वृ. ' जत्थ य' इत्यादि, यत्रैव देशे चशब्दस्य एवकारार्थत्वात् एकः सिद्धो - निवृ-तस्तत्रानन्नता भवक्षयविमुक्ताः अत्र भवक्षयग्रहणेन स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामत्वात्, धर्मास्तिकायादिवत्, तथा स्पृष्टा - लग्नाः सर्वेऽपि लोकान्ते । मू. (२४५)
Jain Education International
फुसइ अनंते सिद्धे सव्वपएसेहिं नियमसो सिद्धा । तेऽवि य असंखिज्जगुणा देसपएसेहिं पुट्ठा ॥
वृ. 'फुसइ' इत्यादि, स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिर्नियमशः सिद्धः, तथा तेऽपि सिद्धाः सर्वप्रदेशस्पृष्टेभ्योऽसंख्येयगुणा वर्तन्ते ये देशप्रदेशैः स्पृष्टाः कथमिति चेत्, उच्यते, इहैकस्य सिद्धस्य यदवगाहनक्षेत्रं तत्रैकस्मिन्नपि परिपूर्णेऽवगाढा अन्येऽप्यनन्ताः सिद्धाः प्राप्यन्ते, अपरे तु ये तस्य क्षेत्रस्यैकैकं प्रदेशमाक्रम्यावगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुःपञ्चादिप्रदेशवृध्यायेऽवगाढास्तेऽपि प्रत्येकमनन्ताः, तथा तस्य मूलक्षेत्रस्यैकैकं प्रदेशं परित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुः पञ्चादिप्रदेशहान्या येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं सति प्रदेशपरिवृद्धिहानिभ्याये समवगाढास्ते परिपूर्णैकक्षेत्रावगाढेभ्योऽसंख्येयगुणा भवन्ति, अवगाढप्रदेशानमसंख्यातत्वात्, आह च
119 ||
"एगक्खेत्ते ऽनंता पएसपरिवुद्धिहाणिओ तत्तो । हुति असंखेज्जगुणाऽसंखपएसो जमवगाढो ।”
For Private & Personal Use Only
www.jainelibrary.org