SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११७ पदं-२, उद्देशकः-, द्वारमू. (२३९) जं संठाणंतु इहं भवं चयंतस्स चरिमसमयंमि। आसीय पदेसघनं तंसंठाणं तहिं तस्स। ७. 'जसंठाणं तु इहं' इत्यादि, यत्संस्थानं-यावप्रमाणं संस्थानं इह- मनुष्यभवे आसीत तदेव भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भवं-शरीरं त्यजतः-परित्यजतः, काययोगं परिजिहानस्येति भावः, चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानबलेन वदनोदरादिरन्ध्रपूरणात् त्रिभागेन हीनं प्रदेशघनमासीत्, 'तं संठाणं तहिं तस्स' इति तदेव च प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं तत्र-लोकाग्रे तस्य-सिद्धस्य, नान्यदिति ॥ साम्प्रतमुत्कृष्टावगाहनादिभेदभित्रामवगाहनामभिधित्सुराहमू. (२४०) तिनि सया तित्तीसा धनुत्तिभागो य होइ नायब्चो। एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया। वृ. 'तिन्नि सया तेत्तीसा' इत्यादि, त्रीणि शतानि त्रयस्त्रिंशानि-त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च भवति बोद्धव्या, एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता तीर्थंकरगणधरैः,सा च पञ्चधनुःशततनुकानामवसेया, ननु मरुदेवी नाभिकुलकरपली, नाभेश्च पञ्चविंशत्यधिकानि पञ्चधनुःशतानि शरीरप्रमाणं, यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि, 'संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं समं'इति वचनात्, मरुदेवी भगवती च सिद्धा, ततस्तस्या देहमानस्य त्रिभागेपातितेसिद्धावस्थायाःसार्धानि त्रीणिधनुःशतान्येवावगाहनाप्राप्नोति, कथमुक्तप्रमाणा उत्कृष्टावगाहना घटते ? इति, नैष दोषः, मरुदेवाया नाभेः किश्चिदून-प्रमाणा भवन्ति, ततो मरुदेवाऽपिपञ्चधनुःशतप्रमाणेतिन कश्चिद्दोषः,अपिच--हस्तिस्कन्धाधिरूढासंकुचिताङ्गी सिद्धा ततः शरीरसंकोचभावाद् नाधिकावगाहनासंभव इत्यविरोधः, आह च भाष्यकृत् "कह मरुदेवामाणं? नाभीतो जेण किञ्चिदूणा सा। तो किर पंचसयच्चिय अहवा संकोचओ सिद्धा ।।" मू. (२४१) चत्तारिय रयणीओ रयणी तिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ।। वृ. 'चत्तारि रयणीओ' इत्यादि, चतनोरत्नयो रलिश्च त्रिभागोना च सा बोद्धव्या एषा खलु सिद्धानामवगाहना भणितामध्यमा। आह-जघन्यपदे सप्तहस्तोच्छितानामागमेसिद्धिरुक्ता, तत एषाजघन्याप्राप्नोति, कथंमध्यमा?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, जघन्यपदे हि सप्तहस्तानांसिद्धिरुक्ता तीर्थकरापेक्षया, सामान्यकेवलिनांतुहीनप्रमाणानामपि भवति, इदमपिचावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः। मू. (२४२) एगाय होइ रयणी अद्वेव य अंगुलाई साहि या। एसा खलु सिद्धाणं जहन्नओगाहणा भणिया। वृ. 'एगा य होइ' इत्यादि, एका रलिः परिपूर्णा अष्टौ चाङ्गुलान्यधिकानि एषा भवति सिद्धानामवगाहना जघन्या, साचकूर्मापुत्रादीनांद्विहस्तानामवसेया, यदिवासप्तहस्तोच्छ्रितानामपि यन्त्रपीलनादिना संवर्तितशरीराणां, आह च भाष्यकृत॥१॥ “जेट्ठा उपंचधनुसयतनुस्स मज्झा य सत्तहत्थस्स देहत्तिभागहीणा जहन्निया जा बिहत्थस्स ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy