________________
११६
प्रज्ञापनाउपाङ्गसूत्रं-१-२/-/-/२३५
तेन च यः कलंकलीभावः- कदर्थ्यमानता यश्च दिव्यसुखमनुप्राप्तानामपि पुनर्भवे संसारे गर्भवसतिप्रपञ्चः तौ समतिक्रान्ता अत एव शाश्वतमनागतं कालं तिष्ठन्ति, 'तत्यवि य ते अवेया' इत्यादि, तत्रापिच - सिद्धक्षेत्रे गताः सन्तस्ते - भगवन्तः 'अवेदाः पुरुषवेदादिवेदरहिताः 'अवेदनाः' सातासातवेदनाभावात् 'निर्ममा' ममत्वरहिताः 'असंगा' बाह्याभ्यन्तरसङ्गरहिताः कस्मादेवम् ? अत आह- 'संसारविप्रमुक्ताः' हेतौ प्रथमा, यतः संसाराद् विप्रमुक्तास्तस्मादवेदा अवेदना निर्ममा असङ्गाश्च पुनः कथंभूताः ? इत्याह 'पएसनिवत्तसंठाणाः प्रदेशः - आत्मप्रदेशैर्न तु बाह्यपुद्गलैः शरीरपञ्चकस्यापि सर्वात्मना त्यक्तत्वात् निर्वृत्तं-निष्पन्नं संस्थानं येषां ते प्रदेशनिर्वृत्तसंस्थानाः अत्र शिष्यः पृच्छन्नाहयू. (२३६)
कहिं पहिया सिद्धा, कहिं सिद्धा पइट्टिया । कहिं बोदिं चइत्ता णं, कत्थ गंतूण सिज्जइ ? ॥
वृ. 'कहिं पडिहया सिद्धा' इत्यादि 'कहिं' इत्यत्र सप्तमी तृतीयार्थे प्राकृतत्वात्, यथा 'तिसु तेसु अलंकिया पुढवी' इत्यादि, ततोऽयमर्थः - स्त्रकेन प्रतिहताः ? - केन स्खलिताः ? सिद्धा::- मुक्ताः, तथा कव-कस्मिन् स्थाने सिद्धाः प्रतिष्ठिताः- अवस्थिताः, तथा कव - कस्मिन् क्षेत्रे बोन्दिस्तनुः शरीरमित्यनर्थान्तरम् तां त्यक्त्वा कवगत्वा सिद्धयन्ति ? निष्ठितार्था भवन्ति ?, 'सिज्झइ' इत्यत्रानुस्वारलोपो द्रष्टव्यः, अथवा एकवचनोपन्यासोऽपि सूत्रशैल्या न विरोधभाक् तथा चान्यत्रा ऽप्येवं प्रयोगः
119 11
“वत्थगंधमलंकारं, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति वुबइ ||" इति, एवं शिष्येण प्रश्ने कृते सूरिराह
यू. (२३७)
अलोए पडिहया सिद्धा, लोयग्गे य पइट्टिया ।
इहं बोदि चइत्ता णं, तत्थ गंतूण सिज्झइ ॥
वृ. 'अलोए पडिहया सिद्धा' इत्यादि, अत्रापि सप्तमी तृतीयार्थे, अलोकेन-केवलाकाशास्तिकायरूपेण प्रतिहताः - स्खलिताः सिद्धाः, इह तत्र धर्मास्तिकायाद्यभावात् तदानन्तर्यवृत्तिरेव प्रतिस्खलनम्, न तु सम्बन्धे सति विघातः अप्रतिघत्वात्, सप्रतिघानां हि सम्बन्धे सति विघातः, नान्येषामिति, तथा लोकस्य पञ्चास्तिकायात्मकस्याग्रे - मूर्धनि प्रतिष्ठिताः - अपुनरागत्या व्यवस्थिताः, तथा इह मनुष्यलोके बोन्दीं तनुं त्यक्त्वा तत्र - लोकाग्रे समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा सिध्यन्ति-निष्ठितार्था भवन्ति ॥ सम्प्रति तत्रगतानां यत्संस्थानं तदभिधित्सुराहदीहं वा हसं वा जं चरिमभवे हविज्ज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ।।
मू. (२३८)
वृ. 'दीहं वा हस्सं वा' इत्यादि, दीर्घं वा पश्ञ्चधनुः शतप्रमाणं ह्रस्वं वा-हस्तद्वयप्रमाणं वाशब्दाद् मध्यमं वा विचित्रं यच्चरमभवे - पश्चिमभवे भवेत् संस्थानं ततः तस्मात् संस्थानात् त्रिभागहीना - वदनोदरादिरन्ध्रपूरणेन तृतीयभागेन हीना सिद्धानामवगाहना, अवगाहन्तेऽ स्यामित्यवगाहना- स्वावस्यैव भणिता तीर्थकरगणधरैरिति, अत्रगतसंस्थानप्रमाणापेक्षया त्रिभागहीनं तत्र संस्थानमिति भावः । एतदेव स्पष्टतरमुपदर्शयति-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org