________________
पदं - २, उद्देशक:-, द्वारं
अने गजाइजरामरणजोनिसंसारलं कली भावपुणब्भवगन्भवासव सही पवंचसमइकंता सासयमणागयद्धं कालं चिटअयंति, तत्थवि य ते अवेया अवेयणा निम्ममा असंगा य संसारविप्पमुक्का पएसनिव्वत्तसंठाणा ।
994
बृ. सिद्धसूत्रे 'एगा जोयणकोडी' इत्यादि परिरयपरिमाणं 'विकखंभवग्गदहगुण०' इत्यादिकरणवशात् स्वयमानेतव्यं, सुगमत्वात्, क्षेत्रसमासटीका वा परिभावनीया, तत्र पञ्चचत्वारिंश लक्षप्रमाणविष्कम्भवमनुष्यक्षेत्रपरिरयस्य एतावत्प्रमाणस्य सविस्तरं भावितत्वात्, तस्याश्च ईषत्प्राग्भारायाः पृथिव्याः बहुमध्यदेशभागे अष्टयोजनिकम् - आयामविष्कम्भाभ्यामष्टयोजनप्रमाणं क्षेत्रं च, अष्टौ योजनानि बाहल्येन चोच्चत्वेन - उच्चैस्त्वेनेति भावः, प्रज्ञप्ता, तदनन्तरं सर्वासु दिक्षु विदिक्षु च मात्रया स्तोकया स्तोकया प्रदेशपरिहान्या परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रतोऽप्यतितन्वी अङ्गुला संख्येयभागं बाहल्येन प्रज्ञप्ता, 'ईसि इ वा' इति, पदैकदेशे पदसमुदायोपचारात् १ ईषव्प्राग्भारा इति वा २ 'तणुइत्तिवा' तन्वी वा शेषपृथिव्यपेक्षयाऽतितनुत्वात् ३ 'तणुतणूइत्ति वा इति तनुभ्योऽपि जगत्प्रसिद- अधेभ्यस्तन्वी मक्षिकापत्रतोऽपि पर्यन्तदेशेऽतितनुत्वात् तनुतन्वी ४ 'सिद्धिरिति वा' सिद्धक्षेत्रस्य प्रत्यासन्नत्वात् ५,
'सिद्धालय इति वा' सिद्धक्षेत्रस्य प्रत्यासन्नतयोपचारतः सिद्धानामालयः सिद्धालयः ६ एवं मुक्तिरिति वा मुक्तालय इति वेत्यपि परिभावनीयं तथा लोकाग्रे वर्तमानत्वात् लोकाग्रमिति ९ लोकाग्रस्य स्तूपिकेव लोकाग्रस्तूपिका १० तथा लोकाग्रेण प्रत्युद्यते इति लोकाग्रप्रतिवाहिनी ११ । 'सव्वपाणभूयजीवसत्तसुहावहा' इति प्राणा- द्वित्रिचतुरिन्द्रिया इति भूताः - तरवः जीवाः - पञ्चेन्द्रियाः शेषाः प्राणिनः सत्त्वाः, उक्तं च
119 11
“प्राणा द्वित्रिचतुः प्रोक्ताः, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ।।"
सर्वेषां प्राणभूतजीवसत्त्वानां सुखावहा उपद्रवकारित्वाभावात् सर्वप्राणभूतजीवसत्त्वसु खावहा १२ । सा च ईषत्प्राग्भारा पृथ्वी श्वेता, श्वेतत्वमेवोपमयाप्रकटयति- 'संखदलविमल' इत्यादि, शङ्खदलस्य - शङ्खदलचूर्णस्य विमलो - निर्मलः स्वस्तिकः शङ्खदलविमलस्वस्तिक; स च मृणालं च दकरजश्च तुषारं च हिमं च गोक्षीरं च हारश्च तेषामिव वर्णो यस्याः सा तथा, उत्तानकंउत्तानीकृतं यत् छत्रं तस्य यत्संस्थानं तेन संस्थिता उत्तानकच्छन्नसंस्थानसंस्थितत्वं च प्रागुपदर्शितस्थापनातो भावनीयं ।
'सव्वगुणसुवन्नमयी' सर्वात्मना श्वेतसुवर्णमयी 'ईसीपमाराएणं' इत्यादि ईषत्प्राग्भारायाः पृतिव्या ऊध्वं 'सीयाए' इति निःश्रेणिगत्या योजने लोकान्तो भवति, तस्य च योजनस्य यदुपरितनं गव्यूतं चतुरअथं तस्य च गव्यूतस्य यः सर्वोपरितनो षड्भागो अत्र 'णं' इति वाक्यालङ्कारे सिद्धा भगवन्तः सादिकाः कर्मक्षयानन्तरं सिद्धत्वभावात्,
एतेन अनादिशुद्धपुरुषप्रवादप्रतिक्षेप आवेदितो द्रष्टव्यः, अपर्यवसिता रागाद्यभावेन प्रतिपातासंभवात्, रागादयो हि सिद्धत्वाच्यावयितुं प्रभविष्णवः, न च ते भगवतां सन्ति, तेषां निर्मूलका कषितत्वात् न च निर्मूलकाषंकषिता अपि भूयः प्रादुर्भवन्ति, बीजाभावादिति, तथा अनेकैर्जातिजरामरणैः- जन्मजरामृत्युभिर्यश्च तासु तासु योनिषु संसारः - संसरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org