SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ पदं-३, उद्देशकः-, द्वारं-१ १२३ बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसञ्जयाकतया तेषां प्राप्यमाणत्वात, ततो यत्र ते बहवस्तत्र बहुत्वं जीवानां, यत्र त्वल्पे तत्राल्पत्वं, वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, 'जत्थ जलं तत्थ वर्ण' इति वचनात् तत्रावश्यंपनकसेवालादीनां भावात्, तेच पनकसेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तसूक्ष्मावगाहनत्वात् अतिप्रभूतपिण्डीभावाच्च सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः, तथा चोक्तमनुयोगद्वारेषु- “ते णं वालग्गा सुहुमपनगजीवस्स सरीरोगाणाहितो असंखेनगुणा' इति, ततो यत्रापि नैते दृश्यन्ते तत्रापि ते सन्तीति प्रतिपत्तव्याः, आह च मूलटीकाकार;- "इह सर्वबहवो वनस्पतय इतिकृत्वा यत्र ते सन्ति तत्र बहुत्वं जीवानां, तेषांच बहुत्वं “जत्थ आउकाओ तत्थ नियमा वणस्सइकाइया इति पनगसेवालहढाई बायरावि होति सुहुमाआणागेज्झान चक्खुणा' इति, उदकंच प्रभूतं समुद्रादिषु, द्वीपात् द्विगुणविष्कम्भत्वात्, तेष्वपिच समुद्रेषुप्रत्येकंप्राचीप्रतीच्योर्दिशोर्यथाक्रमंचन्द्रसूर्यद्वीपाः, यावति च प्रदेशे चन्द्रसूर्यद्वीपा अवगाढास्तावत्युद- काभवः, उदकाभावाच्च वनस्पतिकायिकाभावः, केवलं प्रतीच्यां दिशि लवणसमुद्राधिपसुस्थितनाम- देवावासभूतो गौतमद्वीपो लवणसमुद्रेऽभ्यधिको वर्तते, तत्र चोदकाभावाद्वनस्पतिकायिकानाम-भावात्सर्वस्तोका जीवाःपश्चिमायां दिशि, तेभ्यो विशेषाधिकाः पूर्वस्यां दिशि, तत्र हि गौतमद्वीपो न विद्यते, ततस्तावता विशेषेणातिरिच्यते इति, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, यतस्तत्रचन्द्रसूर्यद्वीपान विद्यन्ते, तदभावातत्रोदकंप्रभूतं, तत्याभूत्याच वनस्पतिकायिका अपि प्रभूता इति विशेषाधिकाः, तेभ्योऽप्युदीच्या दिशि विशेषाधिकाः, किं कारणमिति चेत् ?, उच्यते, उदीच्यां हि दिशि सङ्ख्येययोजनेषु द्वीपेषु मध्ये कस्मिंश्चित् द्वीपे आयामविष्कम्माभ्यां सङ्ख्येयाजनकोटीप्रमाणंमानसं नाम सरः समस्ति, ततो दक्षिणदिगपेक्षया अस्यांप्रभूतमुदकम्, उदकबाहुल्याच प्रभूता वनस्पततः, प्रभूता द्वीन्द्रियाः शङ्खादयः प्रभूतास्तटलग्न- शङ्खादिकलेवराश्रितास्त्रीन्द्रियाः पिपीलिकादयः प्रभूताःपद्मादिषु चतुरिन्द्रियाः भ्रमरादयः प्रभूताः पञ्चेन्द्रिया मत्स्यादय इति विशेषाधिकाः ॥ तदेवं सामान्यतो दिगनुपातेन जीवानामल्पबहुत्वमुक्तम् । इदानीं विशेषेण तदाह मू. (२६०) दिसाणुवाएणं सव्वत्थोवा पुढविक्काइया दाहिणेणं उत्तरेणं विसेसाहिया पुरछिमेणं विसेसाहिया पच्छिमेणं विसेसाहिया। दिसाणुवाएणंसव्वत्थोवा आउक्काइयापच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया।। दिसाणुवाएणंसव्वत्थोवा तेउक्काइया दाहिणुत्तरेणं, पुरच्छिमेणं संखेजगुणा, पच्छिमेणं विसेसाहिया ।। दिसाणुवाएणं सव्वत्थोवा वाउक्काइया पुरच्छिमेणं, पच्छिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सव्वत्योवा वणस्सइक्काइया पच्छिमेणं पुरछिमेणं विसेसाहिया दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया॥ निसाणुवाएणं सव्वत्थोवा बेइंदिया पच्छिमेणं पुरच्छिमेणं विसेसाहिया दक्खिणेणं विसेसाहिया उत्तरेणं विसेसाहिया। दिसाणुवाएणं सव्वत्थोवा तेइंदिया पञ्चस्थिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। दिसाणुवाएणं सव्वत्थोवा चउरिदिया पञ्चत्थिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy