________________
प्रतिपत्तिः - २,
परिकरितप्रव्रज्याप्रतिपत्तिमङ्गीकृत्य जघन्येनान्तर्मुहूर्त्त तत ऊर्ध्वमरणादिभावात्, उत्कर्षतो देशोना पूर्वकोटी, संवत्सराष्टकादूर्द्ध प्रतिपद्याजन्मपालनात्, भरतैरावतकर्मकमनुष्यनपुंसकस्य पूर्वविदेहा-परविदेहकर्म्मभूमकमनुष्यनपुंसकस्य च क्षेत्रं धर्म्मचरणंच प्रतीत्य जघन्यत उत्कर्षतश्चैवमेव वक्तव्यम् । अकर्म्मभूमकमनुष्यनपुंसकस्य जन्म प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्तम्, अकर्म्मभूमौ हि मनुष्या नपुंसकाः संमूर्च्छिमा एव भवन्ति, न गर्भव्युत्क्रान्तिकाः, युगलधर्मिणां नपुंसकत्वाभावात्, संमूर्च्छिमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त्तायुषः, केवलं जघन्यादुत्कृ मन्तर्मुहूर्त्त बृहत्तरभवसेयं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वको, संहरणादूर्ध्वमाभरणान्तमवस्थानसम्भवात्, उत्कर्षतो देशोनता च पूर्वकोटया गर्भानिर्गतस्य संहरणस्भवात् एवं विशेषचिन्तायां हैमवत हैरण्यवताकर्म्मभूमकमनुष्यनपुंसकस्य हरिवर्षरम्यकवर्षाकर्म्मभूमकमनुष्यनपुंसकस्य देवकुरूत्तरकुर्वकर्म्मभूमकमनुष्यनपुंसकस्य अन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म संहरणं च प्रतीत्यैयमेव वक्तव्यम् ॥
सम्प्रति कायस्थितिमाह- 'नपुंसगे णं भंते!' इत्यादि, नपुंसको भदन्त ! नपुंसक इत्यादि, सामान्यतस्तद्वेदापरित्यागेन कालतः कियच्चिरं भवति ?, भगवानाह - गौतम ! जघन्यत एकं समयमुत्कर्षतो वनस्पतिकालं तत्रैकसमयता उपशमश्रेणिसमाप्ती सत्यामवेदकत्वे सति उपशमश्रेणीतः प्रतिपततो नपुंसकवेदोदयसमयानन्तरं कस्यचिन्मरणात्, तथा मृतस्य चावश्यं देवोत्पादे पुंवेदोदय भावात्, वनस्पतिकालः - आवलिकासङ्घयेयभागगतसमयराशिप्रमाणासङ्घयेयपुद्गलपरावर्त्तप्रमाणः ।
८९
नैरयिकनपुंसककायस्थितिचिन्तायां यदेव सामान्यतो विशेषतश्च स्थितिमानं जघन्यत उत्कर्षतश्चोक्तं तदेवावसातव्यं, भवस्थितिव्यतिरेकेण तत्रान्यस्याः कायस्थितेरसम्भवात् ।
सामान्यतस्तिर्यग्योनिकनपुंसककायस्थितिचिन्तायां जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमातू, उत्कर्षतो वनस्पतिकालः, विशेषचिन्तायामेकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितावपि जघन्यतोऽन्तर्मुहूर्त भावना प्राग्वत्, उत्कर्षतो वनस्पतिकालो यथोदितरूपः, तत्रापि विशेषचिन्तायां पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तमुहूर्तमुत्कर्षतोऽसङ्घयेकालोऽसङ्घयेयोत्सर्पिण्यवसर्पिणीप्रमाणः, तथा चाह - 'उक्को सेणमसंखेज्जं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओकालतो, खेत्ततो असंखिज्जा लोगा" एवमष्कायिकतेजः कायिक वायुकायिककायस्थितिष्वपि वक्तव्यं, वनस्पतिकायिककायस्थितौ तथा वक्तव्यं, यथा सामान्यत एकेन्द्रियकायस्थितौ । द्वीन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तमुहूर्त्तमुत्कर्षतः सङ्घयेयः कालः, सच सङ्ख्येयानि वर्षसहस्राणि प्रतिपत्तव्यः । एवंत्रीन्द्रियचतुरिन्द्रियतिर्यग्योनिकनपुंसककायस्थित्योरपि वक्तव्यम् ।
पञ्चेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटिपृथकत्वं, तच्च निरन्तरं सप्तभवान् पूर्वकोट्यायुषो नपुंसकत्वेनानुभवतो वेदितव्यं तत ऊर्ध्वं त्ववश्यं वेदान्तरे विलक्षणभवान्तरे वा संक्रमात् एवं जलचरस्थलचरखचरसामान्यतो मनुष्यनुपंसककायस्थितिष्वपि वेदितव्यं, कर्मभूमकमनुष्यनपुंसकायस्थितौ क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्त उत्कर्षतः पूर्वकोटी पृथक्त्वं भावना प्रागिव, धर्म्मचरणं प्रतीत्य जघन्यत एकं समयमुत्कर्षतो देशोना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org