SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/६७ तिरिक्खजोणियणपुंसकस्स जह० अंतो० उक्को० सागरोवमसयपुहुत्तं सातिरेगं । एगिदियतिरिक्खजोणियनपुंसकस्स जह० अंतो० उक्को० दो सागरोवमसहस्साइं संखेजवासमन्भहिया, पुढविआउतेउवाऊणं जह० अंतो० उक्को० वणस्सइकालो । वणस्सतिकाइयाणं जह० अंतो० उक्को० असंखेनं कालं जाव असंखेजा लोया, सेसाणं बेइंदियादीणंजाव खहयराणं जह० अंतो० उक्को० वणस्सतिकालो । मणुस्सनपुंसकस्स खेतं पडुच्च जह० अंतो० उक्को० वणस्सतिकालो, धम्मचरणं पडुचजह० एगसमयं उक्को० अनंतं कालं जावअवड्डपोगगलपरियट्ट देसूणं, एवं कम्मभूमकस्सवि भरतेरवतस्स पुबविदेहअवरविदेहकस्सवि। ___अकम्मभूमकमणुस्सणपुंसकस्सणं भंते! केवतियं कालं०?, जम्मणं पडुच्च जह० अंतो० उको० वणस्सतिकालो, संहरणं पडुचजह० अंतो० उक्को० वणस्सतिकालो एवंजाव अंतरदीवत्ति॥ वृ. 'नपुंसगस्स णं भंते !' इत्यादि सुगम, नवरमन्तर्मुहूर्त तिर्यग्मनुष्यापेक्षया द्रष्टव्यं, प्रयस्त्रिंशत्सागरोपमाणि सप्तमपृथिवीनारकापेक्षया ।। तदेवं सामान्यतः स्थितिरुक्ता, सम्प्रति विशेषतस्तां विचिचिन्तयिषुः प्रथमतः सामान्यतो विशेषतश्च नैरयिकनपुंसकविषयामाह 'नेरइयनपुंसगस्सण मित्यादि, सामान्यतो नैरयिकनपुंसकस्य जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्वशत्सागरोपमाणि, विशेषचिन्तायां रत्नप्रभापृथिवीनरयिकनपुंसकस्य जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षत एकं सागरोपमं शर्करापृथिवीनरयिकनपुंसकसस्य जघन्यत एकंसागरोपममुत्कर्षतस्त्रीणिसागरोपमाणि वालुकाप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त पङ्कप्रभापृथवीनैरयिकनपुंसकस्य जघन्यतः सप्त सागरोपमाणि उत्कर्षतोदश घूमप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यतो दशसागरोपमाणि उत्कर्षतः सप्तदश तमःप्रभापृथिवीनैरयिकनपुंसकस्यजघन्यतः सप्तदशसा० उत्कर्षतोद्वाविंशति अधःसप्तमपृथिवीनैरयिकनपुंसकस्य जघन्यतो द्वाविंशति सा० उत्कर्षतस्त्रयस्त्रिंशत्, क्वचिदतिदेशसूत्रं 'जहा पन्नवणाए ठिइपदे तहे' त्यादि, तत्राप्येवमेवातिदेशव्याख्याऽपि कर्तव्या सामान्यतस्तिर्यग्योनिकनपुंसकस्य स्थिति धन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, सामान्यत एकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, विशेषचिन्तायां पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिर्वर्षसहस्राणि अकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्यजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सप्त वर्षसहसणि तेजःकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्महूर्तमुत्कर्षतस्त्रीणि रात्रिन्दिवानि वातकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि वर्षसहस्राणि वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो दश जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवानि । चतुरिन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः षण्मासाः । सामान्यतः पञ्चेन्द्रियतिर्यग्योनिकनपुंसकस्यजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, विशेषचिन्तायां जलचरस्य स्थलचरस्य खचरस्यापि पञ्चेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्य-तोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी। सामान्यतो मनुष्यनपुंसकस्यापि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, कर्मभूमकमनुष्यनपुंसकस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, 'धर्मचरणं' बाह्यवेष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy