________________
जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/६७ पूर्वकोटी, अत्रापि भावना पूर्ववत् । एवं भरतैरावतकर्मभूमकमनुष्यनपुंसककायस्थिती पूर्वविदेहापरविदेहकर्म-भूमकमनुष्यनपुंसककायस्थिती च वाच्यं, सामान्यतोऽकर्मभूमनुष्यनपुंसककायस्थितिचिन्तायां जन्म प्रतीत्य जघन्यतोऽन्तर्मुहूर्त तत ऊर्द्ध मरणादिभावात् उत्कर्षतो देशोना पूर्वकोटी । एवं हैमवतहैरण्यवतहरिवर्षरम्यकवर्षदेवकुरुत्तरकुर्वन्तरद्वीपकमनुष्यनपुंसककायस्थितिष्वपि वक्तव्यम् । तदेवमुक्ता कायस्थिति। - साम्प्रतमन्तरमभिधित्सुरिदमाह- 'नपुंसगस्सण मित्यादि, नपुंसकस्यणमिति वाक्यालबारे भदन्त ! अन्तरं कालतः कियच्चिरं भवति?, नपुंसको भूत्वा नपुंसकत्वात्परिभ्रष्टः पुनः कियता कालेन नपुंसको भवतीत्यर्थः, भगवानाह-गौतम!जघन्यतोऽन्तर्मुहूर्त, एतावतापुरुषादिकालेन व्यवधानात्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, पुरुषादिकालस्यैतावत एव सम्भवात्, तथा चात्र सङ्ग्रहणिगाथा॥१॥ “इस्थिनपुंसा संचिट्ठणेसु पुरिसंतरे य समओ उ ।
पुरिसनपुंसा संचिट्ठणंतरे सागर पुहुत्तं ॥" अस्या अक्षरगमनिका-संचिट्ठणा नाम सातत्येनावस्थानं, तत्र स्त्रिया नपुंसकसय च सातत्येनावस्थाने पुरुषान्तरे च जधन्यत एकः समयः तथा यथा प्रागभिहितम्–“इत्थीए णं भंते ! इत्थीत्ति कालतो कियच्चिरं होइ?, गोयमा ! एगेणं आदेसेणंजह० एगं समयं' इत्यादि, तथा नपुंसगे णं भंते ! नपुंसगत्ति कालतो कियनिरं होइ ?, जह० एक्कं समयं” इत्यादि, -
"पुरिसस्स णं भंते ! अंतरं कालतो कियच्चिर होइ ?, गोयमा ! जहन्नेणं एवं समयं" इत्यादि। तथापुरुषस्य नपुंसकस्य यथाक्रमं संचिट्ठणा-सातत्येनावस्थानमन्तरंचोत्कर्षतः ‘सागरपृथकत्वं' पदैकदेशे पदसमुदायोपचारात् सागरोपमशतपृथकत्वं, तथा चप्रागभिहितम्-"पुरिसे णंभंते! पुरिसेत्तिकालतोकियच्चिरहोइ?,गोयमा! जहन्नेणंअंतोमुहत्तंउक्कोसेणंसागरोवमसयपुहुत्तं सातिरेगं" नपुंसकान्तरोत्कर्षप्रतिपादकं चेदमेवाधिकृतं तत्सूत्रमिति । तथा सामान्यतो नैरयिकनपुंसकस्यान्तरंजघन्यतोऽन्तर्मुहूर्त, सप्तमनरकपृथिव्या उद्धृत्य तन्दुलमत्स्यादिभवेष्वन्तर्मुहूर्त स्थित्या भूयः सप्तमनरकपृथिवीगमनस्य श्रवणात्, उत्कर्षतो वनस्पतिकालः, नरकभवादुवृत्य पारम्पर्येण निगोदेषुमध्ये गत्वाऽनन्तंकालमवस्थानात्, एवं विशेषचिन्तायां प्रतिपृथिव्यपि वक्तव्यं
तथा सामान्यचिन्तायां तिर्यग्योनिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं, सातिरेकत्वभावनाप्रागिव, विशेषचिन्तायांसामान्यतएकेन्द्रियतिर्यग्योनिकनपुंसकस्यान्तरमन्तर्मुहूर्ततावता द्वीन्द्रियादिकालेन व्यवघानात्, उत्कर्षतोद्वेसागरोपमसहन, सङ्ख्येयवर्षाणि त्रसकायस्थितिकालस्य एकेन्द्रियत्वव्यवधायकस्योत्कर्षतोऽप्येतावत् एव सम्भवात्
पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोवनस्पतिकालः एवमप्कायिकतेजःकायिकवायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकानामपि वक्तव्यं । वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्यजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्घयेयंकालंयावत्, सचासङ्घयेयः कालोऽसङ्खयेया उत्सर्पिण्यवसर्पिण्यःकालतः,क्षेत्रतोऽसङ्खयेया लोकाः, किमुकतं भवति? -असङ्खयेयलोकाकाशनदेशानां प्रतिसमयमेकैकापहारे यावत्य उत्सपिण्यवसर्पिण्यो भवन्ति तावत्यइत्यर्थः, वनस्पतिभवाअच्युतस्यान्यत्रोत्कर्षत एतावन्तं कालमवस्थानसम्भवात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org