SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -२, सर्वस्तोका अनुत्तरोपपातिकदेवपुरुषाः, क्षेत्रपल्योपमासङ्ख्येयभागवत्यार्काशप्रदेशराशिप्रमाणत्वात्, तेभ्य उपरितनग्रैवेयकदेवपुरुषाः सङ्ख्येयगुणाः, बृहत्तरक्षेत्रपल्योपमासङ्ख्येयभागवर्तिनभः- प्रदेशराशिभावख्यात्, कथमेतदवसेय- मिति चेदुच्यते-विमानबाहुल्यात्, तथाहि-अनुत्तरदेवानां पञ्च विमानानि, विमानशतं तूपरित- नौवेयकप्रस्तटे, प्रतिविमानं वासङ्ख्येया देवाः, तथा चाधोऽबोधवर्तीनि विमानानि तथा तथा देवा अपिप्राचुर्येण लभ्यन्ते, ततोऽवसीयते-अनुत्तरविमानवासिदेवपुरुषापेक्षया बृहत्तरक्षेत्रपल्योपमासङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणाउपरितनग्रैवेयकप्रस्तटेदेवपुरुषाः (संख्येयगुणा) एवमुत्तरत्रापि भावना विधेया, तेभ्यो मध्यमग्रैवेय-कप्रस्तटदेवपुरुषाः सङ्ग्येयगुणाः, तेभ्योऽप्यधस्तनौवेयकप्रस्तटदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यच्युतकल्पदेवपुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यारणकल्पदेवपुरुषाः सङख्येयगुणाः, यद्यप्यारणाच्युतकल्पौसमश्रेणीको समविमान-सङ्ख्याकौ च तथाऽपि कृष्णपाक्षिकास्तथास्वा- भाव्याप्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते। __ अथ के ते कृष्णपाक्षिकाः?, उच्यते, इह द्वये जीवाः, तद्यथा-कृष्णपाक्षिकाः शुक्लपाक्षिकाच, तत्र येषां किञ्चिदूनोऽपार्द्धपुद्गलपरावतः संसारस्ते शुक्लपाक्षिकाः, इतरे दीर्घसंसारभाजिनः कृष्णपाक्षिकाः उक्तञ्च॥७॥ "जेसिमववो पुग्गलपरियट्टो सेसओ य संसारो। तेसुक्कपक्खिया खलु अहिए पुण कण्हपक्खीया ।।" अत एव स्तोकाः शुक्लपाक्षिकाः, अल्पसंसाराणं स्तोकानामेव सम्भवात्, बहवः कृष्णपाक्षिकाः, दीर्घसंसारणामनन्तानमन्तानां भावात्, अथ कथमेतदवसातवयं तता कृष्णपाक्षिकाः प्राचुर्येण दक्षिमस्यां दिशि समुत्पद्यन्ते, उच्यते, तथास्वाभाव्यात्, तब तथास्वाभाव्यमेवं पूर्वाचार्यैयुक्तिभिरुपबृंहितं कृष्णपाक्षिकाः खलु दीर्घसंसारभजिन उच्यन्ते, दीर्घसंसारभाजिनश्च बहुपापोदयात्, बहुप्रापोदयाश्च क्रूरकर्माणः, क्रूरकर्माणश्चप्रायस्तथास्वामाव्याद् तद्भवसिद्धिका अपि दक्षिणस्या दिशि समुत्पद्यन्ते, यत उक्तम्॥१॥ “पायमिह कूरकम्मा भवसिद्धीयावि दाहिणिल्लेसु। नेरइयतिरियमणुया सुराइठाणेसु गच्छंति ।।" तत् दक्षिणस्यां दिशि प्राचुर्येण कृष्णपाक्षिकाणां सम्भवादुपपद्यते-अच्युतकल्पदेवपुरुषापेक्षयाऽऽरणकल्पदेवपुरुषाः सङ्ग्येयगुणाः, तेभ्योऽपिप्राणतकल्पदेवपुरुषाः सङ्ग्येयगुणाः, तेभ्योऽप्यानतकल्पदेवपुरुषाः सङ्ग्येयगुणाः, अत्रापि प्राणतकल्पापेक्षया सङ्ग्येयगुणत्वं कृष्णपाक्षिकाणां दक्षिणस्या दिशि प्राचुर्येण भावात्, एते च सर्वेऽप्यनुत्तरविमानवास्यादय आनतकल्पवासिपर्यन्तदेवपुरुषाः प्रत्येक क्षेत्रपल्योपमासङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणाद्रष्टव्याः “आणयपाणयभाई पल्लस्सासंखभागो उ" इति वचनात, केवलमसङ्येयो भागो विचित्र इति परस्परं यथोक्तं सङ्येयगुणत्वं न विरुध्यते, आनतकल्पदेवपुरुषेभ्यः सहन रकल्पवासिदेवपुरुषाअसङ्ख्येयगुणाः, घनीकृतस्य लोकस्यैकप्रादेक्याः श्रेणेरसङ्ख्येयतमे भागेयावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्योऽपि महाशुक्रकल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy