SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८४ जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/६४ बृहत्तरश्रेण्यसाझ्येयभागाकाशप्रदेशराशिप्रमाणत्वात्, कथमेतत्प्रत्येमिति चेदुच्यते-विमानबाहुल्यात्, तथाहि-षट्सहस्राणि विमानानांसहनारकल्पेचत्वारिंशत्सहस्रणिमहाशुक्र, अन्यचाधोविमानवासिनो देवा बहुबहुतराः स्तोकस्तोकता उपरितनोपरितनविमानवासिनस्तत उपपद्यन्ते सहस्रारकल्पदेवपुरुषेभ्यो महाशुक्रकल्पवासिदेवपुरुषा असङ्येयगुणाः, तेभ्योऽपि लान्तककल्पदेवपुरुषा असङ्ख्येयगुणाः, बृहत्तमश्रेण्यसङ्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात्। -तेभ्योऽपि ब्रह्मलोककल्पवासिदेवपुरुषा असङ्खयेयगुणाः, भूयोबृहत्तमश्रेण्यसद्ध्येयभागवतयाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपिब्रह्मलोककल्पवासदेवपुरुषाअसङ्ग्येयगुणाःष भूयोबृहत्तमश्रेण्सङ्येयभागवत्याशिप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि माहेन्द्रकल्पदेवपुरुषा असङ्ग्येयगुणाः, भूयस्तरबृहत्तमनभः श्रेण्यसङ्ग्येयभागभागगताकाशप्रदेशमानत्वात्, तेभ्यः सनत्कुमारकल्पदेवाअसङ्ख्येयगुणाः, विमानबाहुल्यात्, तथाहि-द्वादशशतसहस्राणि सनत्कुमारकल्पे विमानानामष्टौ शतसहस्राणि माहेन्द्रकल्पे अन्यच्च दक्षिणदिग्भावर्ती सनत्कुमारकल्पोमाहेनद्रकल्पश्चोत्तरदिग्वर्तीदक्षिणस्यांच दिशिबहवः समुत्पद्यन्तेकृष्णपाक्षिकाः, तत उपपद्यन्ते माहेन्द्रकल्पात्सनत्कुमारकल्पे देवा असङ्ख्येयगुणाः, एते च सर्वेऽपि सहनारकल्पवासिदेवादयः सनत्कुमारकल्पवासिदेवपर्यन्ताः प्रत्येकं स्वस्थाने चिन्त्यमाना घनीकृतलोकैकश्रेण्यसङ्येयभागगताकाशप्रदेशराशिप्रमाणा द्रष्टव्याः ।केवलं श्रेण्यसङ्ख्येयभागोऽसङ्ख्येयभेदभिन्नस्तत इत्थमसोयगुणतयाऽल्पबहुत्व- मभिधीयमानं न विरोधमाक, सनत्कुमारकल्पदेवपुरुषेभ्य ईशानकल्पदेवपुरुषाअसत्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धिनिद्वितीये वर्गमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्सङ्ख्याकासु धनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषुयावन्तो नभःप्रदेशास्तेषांयावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात्, तेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्ग्येयगुणाः, विमानबाहुल्यात्, तथाहि - अष्टाविंशति शतसहस्राणि विमानानामशानकल्पे द्वात्रिंशच्छतसहस्राणि सौधर्मकल्पे, अपि च दक्षिणदिग्वर्ती सौधर्मकल्प ईशानकल्पश्चोत्तरदिग्वी, दक्षिणस्यां च दिशि बहवः कृष्णपाक्षिका उत्पद्यन्ते, तत ईशानल्पवासिदेवपुरुषेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सङ्ग्येयगुणाः, नन्वियं युक्ति सनत्कुमारमाहेन्द्रकल्पयोरप्युक्ता, परंतत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असङ्ग्येयगुणा उक्ता इह तु सौधर्मे कल्पे सङ्ख्येयगुणास्तदेतत्कथम्?, उच्यते, तथावस्तुस्वाभाव्यात्, एतच्चावसीयते प्रज्ञापनाद सर्वत्र तथाभणनात्, तेभ्योऽपि भवनवासिदेवपुरुषा असङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिरुप-जायतेतावत्सङ्ख्याकासुघनीकृतस्य लोकस्यैकप्रादेशिकीषुश्रेणिषुयावन्तो नभःप्रदेशास्तेषां यावान् द्वात्रिंशत्तमो भावस्तावप्रमाणत्वात्। तेभ्यो व्यन्तरदेवपुरुषाअसङ्घयेयगुणाः, सङ्घयेययोजनकोटीकोटीप्रमाणैकप्रादेशिक श्रेणिमात्राणिखण्डानियावन्त्येकस्मिन् प्रतरे भवन्ति तेषांयावान् द्वात्रिंशत्तमो भागस्तावप्रमाणत्वात्, तेभ्यः सङ्ख्येयगुणा ज्योतिष्कदेवपुरुषाः षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैकप्रादेशिकश्रेणिमात्राणिखण्डानियावन्त्येकस्मिन्प्रतरेभवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाण- त्वात् ।। सम्प्रति पञ्चममल्पबहुत्वमाह-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy