SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-२, तिरिक्खजोणित्थीणमंतर मित्यादि, यत्तिर्यग्योनिकस्त्रीणामन्तरं प्रागभिहितं तदेव तिर्यग्योनिकपुरुषाणामप्यविशेषितं वक्तव्यं, तच्चैवम् सामान्यतस्तिर्यकपुरुषस्य जघन्यतोऽन्तरमन्तर्मुहूर्त तावत्कालस्थितिना मनुष्यादिभवेन व्यवधानात्, उत्कर्षतो वनस्पतिकालोऽसङ्येयपुद्गलपरावर्ताख्यः, तावता कालेनामुक्त सत्यां नियोगतः पुरुषत्वयोगात्, एवं विशेषचिन्तायां जलचरपुरुषस्य स्थलचरपुरुषस्य खचरपुरुषस्यापि प्रत्येकं जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं । सम्प्रति मनुष्यपुरुषत्वविषयान्तरप्रतिपानार्थमतिद्देशमाह-'जं मणुस्सइत्थीणमंतरं तं मणुस्सपुरिसाण मिति, यन्मनुष्यस्त्रीणामन्तरं प्रागभिहितं तदेव मनुष्यपुरुषाणामपि वक्तव्यं, तचैवम्-सामान्यतो मनुष्यपुरुषस्यजघन्यतः क्षेत्रमधिकृत्यान्तरमनुतर्मुहूर्त, तच्च प्रागिव भावनीयं, उत्कर्षतो वनस्पतिकालः, धर्मचरणमधिकृत्य जघन्यत एक समयं, चरणपरिणामात्परिभ्रष्टस्य समयानन्तरं भूयोऽपि कस्यचिच्चरणप्रतिपत्तिसम्भवात्, उत्कर्षतो देशोनपार्द्धपुद्गलपरावतः, एवं भरतैरावतकर्मभूमकमनुष्यपुरुषस्य पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषस्यजन्म प्रतीत्य चरणमधिकृत्य च प्रत्येकं जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं । सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीत्य जघन्यतोऽन्तरं दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, अकर्मभूमकमनुष्यपुरुषत्वेन मृतस्य जघन्यस्थितिषुदेवेषूत्पद्यते, ततोऽपि च्युत्वा कर्मभूमिषु स्त्रीत्वेन वा पुरुषत्वेन वोत्पद्यकस्याकर्मभूमित्वेन भूयोऽप्युत्पादात्, देवभवा च्युत्वाऽनन्तरम कर्मभूमिषु मनुष्यत्वेन तिर्यक्संज्ञिपञ्चेन्द्रियत्वेन वा उत्पादाभावादपान्तराले कर्मभूमिकेषुमृत्वोत्पादाभिधानं, उत्क्षतो वनस्पतिकालोऽन्तरं, संहरणंप्रतीत्य जघन्यतोऽन्तरमन्तर्मुहूर्त, अकर्मभूमेः कर्मभूमिषु संहत्यान्तर्मुहूर्तानन्तरं तथाविधबुद्धिपरावर्तादिभावतो भूयस्तत्रव नयनसम्भवात्, उत्कर्षतोवनस्पतिकालः, एतावतः कालादूर्द्धमकर्मभूमिषूत्पत्तिवत्, संहरणस्यापि नियोगतो भावात्।। एवं हैमवतैरवण्यवतादिष्वप्यकर्मभूमिषुजन्मतः संहरणतश्च जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं यावदन्तरद्वीपकाकर्मभूमकमनुष्यपुरुषवक्तव्यता। सम्प्रति देवपुरुषाणामन्तरप्रतिपादनार्थमाह-'देवपुरिसस्सणंभंते!' इत्यादि, देवपुरुषस्य भदन्त! कालतः कियच्चिरमन्तरं भवति?, भगवानाह-गौतम!जधन्येनान्तर्मुहूर्त, देवभवाच्युत्वा गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमाप्तयनन्तरंतथाविधाध्यवसायमरणेन भूयोऽपिकस्यापि देवत्वेनोत्पादसम्भवात्, उत्कर्षतो वनस्पतिकालः, एवमसुरकुमारादारभ्यनिरन्तरतावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुषस्यान्तरं, आनतकल्पदेवस्यान्तरंजघन्येन वर्षपृथक्त्वं, कस्मादेतावदिहान्तरमिति चेदुच्यते इह यो गर्भस्थ सर्वाभि पर्याप्तिभि पर्याप्तः स शुभाध्यवसायोपेतो मृतः सन् आनतकल्पादारतोयेदेवास्तेषूत्पद्यतेनानतादिषु, तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्धयभावात् । ततो य आनतादिभ्यश्च्युतः सन् भूयोऽप्यानतादिषूत्पत्स्यते स नियमाच्चारित्रमवाप्य, चारित्रंचाष्टमेवर्षे,तत उक्तं जघन्यतो वर्षपृथक्त्वम्, उत्कर्षतोवनस्पतिकालः, एवंप्राणतारणाच्युकल्पग्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरंजधन्यत उत्कर्षतश्च वक्तव्यम्, अनुत्तरोपपातिककल्पातीतदेवपुरुषस्यजघन्यतोऽन्तरवर्षपृथक्त्वमुत्कर्षतः सङ्घयेयानि सागरोपमाणि सातिरेकाणि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy