________________
जीवाजीवाभिगमउपाङ्गसूत्रम् २ /-/ ६२
सङ्घयेयभागन्यूने, उत्कर्षतः परिपूर्णे द्वे पल्योपमे, जघन्यत उत्कर्षतश्च तत्रैतावत आयुषः सम्भवात्, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त न्यूनान्तर्मुहूर्त्तायुषः संहरणाऽसम्भात्, उत्कर्षतो देशोनया पूर्वकोटयाऽभ्यधिके द्वे पल्योपमे, भावनाऽत्र प्राग्वत् । देवकुरूत्तरकुर्वकर्मभूमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यतः पत्योपमासङ्घयेयभागन्यूनानि त्रीणि पल्योपमानि देशोनपूर्वकोटयधिकानि
अन्तरद्वीपक मनुष्यपुरुषो जन्म प्रतीत्य देशोनं पल्योपमासङ्घयेयभागमुत्कर्षतः परिपूर्णं पल्योपमासङ्घयेयभागं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिसमभ्यधिकः पल्योपमासङ्ख्येयभागः । देवाणं जा चेव ठिई सा चेव संचिट्टणा भाणियव्वा' देवानां यैव स्थिति प्रागभिहिता सैव संचिट्ठणा' इति कायस्थितिर्भणितव्या, नन्वनेकभवभावाश्रया कायस्थिति सा कथमेकस्मिन् भवे भवति ?, नैष दोषः, देवपुरुषो देवपुरुषत्वापरित्यागेन कियन्तं कालं यावन्निरन्तरं भवति ? इत्येतावदेवात्र विवक्षितं, तत्र देवो मृत्वाऽऽनन्तर्येण भूयो देवो न भवति ततः 'देवाणं वा ठिई सा चेव संचिट्ठा भाणियव्वा' इत्यतिदेशः कृतः ।
८०
तदेवमुक्तं सातत्येनावस्थानमिदानीमन्तरमाह
मू. (६३) पुरिसस्स णं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! जह० एक्कं समयं उक्को० वणस्सतिकालो तिरिक्खजोणियपुरिसाणं जह० अंतोमु० उक्को० वणस्सतिकालो एवं जाव खयर तिरिक्खजोणियपुरिसाणं । मणुस्सपुरिसाणं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! खेत्तं पडुच्च जह० अंतोमु० उक्को० वणस्सतिकालो, धम्मचरणं पडुच्च जह० एक्कं समयं उक्को० अनंतं कालं अनंताओ उस्स० जाव अवडपोग्गलपरियट्टं देसूणं, कम्मभूमकाणं जाव विदेही जाव धम्मचरणे एक्को समओ सेसं जहित्यीणं जाव अंतरदीवकाणं ।
देवपुरिसाणं जह० अंतो० उक्को० वणस्सतिकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो, जह० अंतो० उक्को० वणस्सतिकालो । आनतदेवपुरिसाणं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जह० पासपुहुत्तं उक्को० आणतदेवपुरिसाणं भंते! केवतियं कालं अंतरं होइ ?, गोयमा ! जह० वासपुहुत्तं उक्को० वणस्सतिकालो, एवं जाव गेवेजदेवपुरिसस्सवि ।
अनुत्तरोववातियदेवपुरिसस्स जह० वासपुहुत्तं उक्को० संखेज्जाई सागरोवमाई साइरेगाइं
बृ. 'पुरिसस्सणं' इत्यादि, पुरुषस्य णमिति वाक्यालङ्कारे पूर्ववत् भदन्त ! अन्तरं कालतः कियचिरं भवति ?, पुरुषः पुरुषत्वात्परिभ्रष्टः सन् पुनः कियता कालेन तदवाप्रोतीत्यर्थः, तत्र भगवानाह-गौतम ! जघन्येनैकं समयं - समयादनन्तरं भूयोऽपि पुरुषत्वमवाप्नोतीति भावः, इयमत्र भावना । यदा कश्चित्पुरुष उपशमश्रेणिगत उपशान्ते पुरुषवेदे समयमेकं जीवित्वा तदनन्तरं म्रियते तदाऽसौ नियमाद्देवपुरुषेषूत्पद्यते इति समयमेकमन्तरं पुरुषत्वस्य, ननु स्त्रीनपुंसकयोरप श्रेणिलाभो भवति तत्कस्मादनयोरप्येवमेकः समयोऽन्तरं न भवति ?, उच्यते, स्त्रीया नपुंसकस्य च श्रेण्यारूढा ववेदकभावानन्तरं मरणेन तथाविधशुभाध्यवसायतो नियमेन देवपुरुषत्वेनोत्पादात्, उत्कर्षतो वनस्पतिकालः, स चैवमभिलपनीयः
"अनंताओ उस्सप्पिणीओ ओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइ मागो" इति ।
तदेवं सामान्यतः पुरुषत्वस्यान्तरमभिधाय सम्प्रति तिर्यकपुरुषविधयमतिदेशमाह- 'जं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org