________________
जीवाजीवाभिगमउपाङ्गसूत्रम् २/- /६०
अंतरदीवगा, सेत्तं मणुस्सपुरिसा ।। से किं तं देवपुरिसा ?, देवपुरिसा चउव्विहा पण्णत्ता, इत्थीभेदो भाणितव्वी जाव सव्वट्टसिद्धा ।
७६
बृ. 'से किं तं पुरिसा' इत्यादि, अथ के ते पुरुषाः ?, पुरुषास्त्रिविधाः प्रज्ञप्ताः, तद्यथातिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्च ॥ से किं तमित्यादि, अथ के ते तिर्यग्योनिकपुरुषाः ?, तिर्यग्योनिकपुरुषास्त्रिविधाः प्रज्ञप्तास्तद्यथा - जलचरपुरुषाः स्थलचरपुरुषाः खचरपुरुषाश्च । मनुष्यपुरुषा अपि त्रिविधास्तद्यथा - कर्मभूमका अकर्मभूमका अन्तरद्वीपकाश्च ।
देवसूत्रमाह- 'से किं तमित्यादि, अथ के ते देवपुरुषाः ?, देवपुरुषाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो वानमन्तरा ज्योतिष्का वैमानिकाश्च, भवनपतयोऽसुरादिभेदेन दशविधा वक्तव्याः, वानमन्तराः पिशाचादिभेदेनाष्टविधाः, ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः, वैमानिकाः कल्पोपपन्नकल्पातीतभेदेन द्विविधाः, कल्पोपपन्नाः सौधर्मादिभेदेन द्वादशविधाः, कल्पातीता ग्रैवेयकानुत्तरोपपातिकभेदेन द्विविधाः, तथा चाह - "जाव अणुत्तरोववाइया” इति ।
उक्तो भेदः, सम्प्रति स्थितिप्रतिपादनार्थमाह
मू. (६१) पुरिसस्स णं भंते! केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! जह० - अंतोमु० उक्को० तेत्तीसं सागरोवमाई । तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिती सा चेव भणियव्वा || देवपुरिसाणवि जाव सव्वट्ठसिद्धाणं ति । ताव ठिती जहा पन्नवणाए तहा भा०
बृ. 'पुरिसस्स णं भंते' इत्यादि, पुरुषस्य स्वस्वभवमजहतो भदन्त ! कियन्तं कालं यावत्स्थिति प्रज्ञप्ता ?, भगवानाह – जघन्यतोऽन्तर्मुहूर्त, तत ऊर्ध्व मरणभावात्, उत्कर्षतम्नयस्त्रिंशत्सागरोपमाणि, तान्यनुत्तरसुरापेक्षया द्रष्टव्यानि, अन्यस्यैतावत्याः स्थितेरभावात् । तिर्यग्योनिकानामौधिकानां जलचराणां स्थलचराणां खचराणां स्त्रिया या स्थितिरुक्ता तथा वक्तव्या, मनुष्यपुरुषस्याप्यधिकस्य कर्मभूमिकस्य सामान्यतो विशेषतो भरतैरावतकस्य पूर्वविदेहापरविदेहकस्य अकर्मभूमस्य सामान्यतो विशेषतो हैमवतैरण्यवतकस्य हरिवर्षरम्यकस्य देवकुरूत्तरकुरूकस्यान्तरद्वीपकस्य यैवात्मीये आत्मीये स्थाने स्त्रयाः स्थिति सैव पुरुषस्यापि वक्तव्या, तद्यथा
सामानिकतिर्यग्योनिकपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रणि पल्योपमानि, जलचरपुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, चतुष्पदस्थलचरपुरुषाणां जघन्येनान्तमुहूर्त्तमुत्कर्षतस्त्रणि पल्योपमानि, उर-परिसर्पस्तलचरपुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, एवं भुजपरिसर्पस्थलचरपुरुषाणां खचरपुरुषाणामपि जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पल्योपमासङ्घयेयभागः, सामान्यतोमनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रणि पल्योपमानि, धर्मचरममधिकृत्य जघन्यतोऽन्तर्मुहूर्त, एतच्च बाह्यलिङ्गप्रव्रज्याप्रतपत्तिमङ्गीकृत्य वेदितव्यं, अन्यथा चरणपरिणामस्यैकसामायिकस्यापि सम्भवादेकं समयमिति ब्रूयात्, अथवा देशचरणमधिकृत्येदं वक्तव्यं, देशचरमप्रपत्तेर्बहुलभङ्ग तथा जघन्यतोऽप्यन्तर्मुहूर्तसम्भवात्, तत्र सर्वचरणसम्भवेऽपि यदिदं देशचरणमधिकृत्योक्तं तद्देशचरणपूर्वकं प्रायः सर्वचरणमिति प्रतिपत्यर्थं, तता चोक्तम्“सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होइ ।
॥१॥
चरणोवसमखयाणं सागर संखंतरा होंति ।" इति ।
अत्र यदाद्यं व्याख्यानं तत्स्त्रीवेदचिन्तायामपि द्रष्टव्यं यच्च स्त्रीवेदचिन्तायां व्याख्यातं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International