________________
प्रतिपत्ति:- २,
लद्धं” इत्येतावन्मात्रस्यैव जघन्यस्थित्यानयनस्य करणस्य विद्यमानत्वात्, कर्मप्रकृतिसङ्ग्रहणीकारस्त्वित्यं जघन्यस्थित्यानयनाय करणसूत्रमाह
॥१॥
"वग्गुकोसठिईणं मिच्छत्तुक्कसेगेण जं लद्धं । सेसाणं तु जहन्नं पलियासंखेज्जगेणूणं ॥"
७५
अस्याक्षरगमनिका -इह ज्ञानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते, दर्शनावरणीयप्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शन महनीयवर्गः, चारित्रमोहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्ग:, नोकषायमोहनयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरावर्गः, एतेषां वर्गाणां या आत्मीया आत्मीया उत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटयादिका तस्या मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हृते सति यल्लभ्यते तत्पल्योपमासङ्ख्येयभागन्यूनं सत् उक्तशेषाणां निद्रादीनां प्रकृतीनां जघन्यस्थितेः परिमाणमिति ।
ततस्तन्मतेन स्त्रीवेदस्य जधन्या स्थितिदद्व सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनौ, तथाहि - नोकषायमोहनीयस्योत्कृष्टा स्थितिर्विशतिसागरोपमकोटीकोटयः, तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हियमाणे सून्यं शून्येन पातयेत् लब्धौ सागरोपमस्य सप्तभागौ तौ पल्योपमासङ्घयेयभागहीनौ क्रियेते इति ।
उत्कृष्ट स्थिति पञ्चदशसागरोपमकोटीकोटयः, इह स्थितिर्द्विधाकर्मरूपताऽवस्थानलक्षणा अनुभवयोग्या च तत्रेयं कर्मरूपताऽवस्थानलक्षणा द्रष्टव्या, अनुभवयोग्या पुनरबाधाहीना, (सा) च येषां कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतान्यबाधा, स्त्रीवेदस्य चाधिकृतस्योत्कृष्टा स्थिति पञ्चदश सागरोपमकोटीकोटयस्ततः पञ्चदश वर्षशतान्यबाधा, तथा चाह
“पन्नरस वाससथाई अबाहा" इति किमुक्तं भवति ? - स्त्रीवेदकमं उत्कृष्टस्थितिकं बद्धं सत्वरूपेण पञ्चदश वर्षशतानि यावन्न जीवस्य स्वविपाकोदयमादर्शयति तावत्कालमध्ये दलिकनिषेकस्याभावात्, तथा चाह - "अबाहूणिया' इत्यादि, 'अबाधोना' अबाधाकालपरिहीना कर्मस्थितिरनुभवयोग्येति गम्यते, यतः 'अबाधोनः' अबाधाकालपरिहीनः कर्मनिषेकःकर्मदलिकरचनेति ।
सम्प्रति स्त्रीवेदकर्मोदयजनितो यः स्त्रीवेदः स किंस्वरूपः ? इत्यावेदयन्नाह - 'इत्थिवए णं भंते!' इत्यादी, स्त्रीवेदोणमिति पूर्ववत् भदन्त ! 'किं प्रकारः ' किंस्वरूपः प्रज्ञप्तः ?, भगवानाह - गौतम ! फुम्फुकाग्निसमानः, फुम्फुकशब्दो देशीत्वात्कारीषवचनस्ततः कारीषाग्निसमानः परिमलनमदनदाहरूप इत्यर्थः, प्रज्ञप्तः ।
उपसंहारमाह- 'सेत्तं इत्थियाओ' ॥ तदेवमुक्ताः स्त्रियः, सम्प्रति पुरुषप्रतिपादनार्थमाहभू. (६०) से किं तं पुरिसा ?, पुरिसा तिविहा पन्नत्ता, तंजहा - तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा || से किं तं तिरिक्खजोणियपुरिसा ?, २ तिविहा पन्नता, तंजहा- जलयरा raयरा खहयरा, इत्थिभेदो भाणितव्वो, जाव खहयरा, सेत्तं खहयरा सेत्तं खहयरतिरिक्खजोणियपुरसा । से किं तं मणुस्सपुरिसा ?, २ तिविधा पन्नत्ता, तंजहा- कम्मभूमगा अकम्पभूमगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org