SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७४ जीवाजीवाभिगमउपाङ्गसूत्रम् २/-1५८ प्रदेशराशि_त्रिंशत्तमभागहीनस्तावप्रमाणत्वात्, ताभ्यो व्यन्तरदेवस्त्रियोऽ- सङ्ख्येयगुणाः, सङ्ख्येययोजनप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानियावन्त्येकस्मिन् प्रतरे भवन्तितेभ्योऽपि द्वात्रिंशत्तमे भागेऽपनीते यच्छेषमवतिष्ठते तावप्रमाणत्वात्तासां, ताभ्यः सङ्ख्यंय गुणा ज्योतिष्कदेवस्त्रियः, षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो त्तमे द्वात्रिंशत्तमे भागेऽपसारिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणत्वात् उक्तं चतुर्थमल्पबहुत्वम् ।। इदानींसमस्तस्त्रीविषयंपञ्चममल्पमाह-सर्वस्तोका अन्तरद्वीपकाकर्मभूमकमनुष्यस्त्रियः, ताभ्यो देवकुस्त्तरकुर्वकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणाः ताभ्योऽपि हरिवर्षरम्यकस्त्रियः सङ्ख्येयगुणाःताभ्योऽपि हैमवतहैरण्यवतस्त्रियः सङ्ख्येयगुणाः ताभ्योऽपि भरतैरावतकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणाः ताभ्योऽपि पूर्वविदेहापरविदेहमनुष्यस्त्रियः सङ्ख्येयगुणाः, अत्र भावना प्राग्वत्, ताभ्यो वैमानिकदेवस्त्रियोऽसङ्ख्येयगुणाः, असङ्खयेयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात्तासां ताभ्यो भवनवासिदेवस्त्रियोऽसङ्ख्यातगुणाः, अत्र युक्ति प्रागेवोक्ता, ताभ्यः खचरति र्यग्योनिकस्त्रियोऽसङ्खयेयगुणाः, प्रतरासङ्खयेयभागवय॑सङ्खयेयश्रेणगताकाशप्रदेराशिपरमाणत्वा-त्तासांताभ्यः स्थलचरतिर्यगेस्त्रियोऽसङ्घयेयगुणबृहत्तरप्रतरासङ्घयेयभागवय॑सङ्खयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् । ताभ्यो जलचरतिर्यग्योनिकस्त्रियः सङ्ख्येयगुणाः, बृहत्तमप्रतरासङ्ख्येयभागवयसङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, ताभ्यो व्यन्तरदेवस्त्रियः सङ्ख्येयगुणाः, सङ्ख्येययोजनकोटाकोटीप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतेभवन्तितेभ्यो द्वात्रिंशत्तमे भागेऽपहतेयावान राशिरवतिष्ठतेतावप्रमाणत्वात्, ताभ्योऽपि ज्योतिष्कदेवस्त्रियः सङ्ख्येयगुणाः, एतच्च प्रागेव भावितम्। इहस्त्रीत्वानुभावः स्त्रीवेदकर्मोदयइति स्त्रीवेदकर्मणोजघन्यतउत्कर्षतश्च स्थितिमानमाह मू. (५९) इस्थिवेदस्स णं भंते ! कम्मस्स केवइयं कालं बंधठिती पन्नत्ता?, गोयमा ! जहन्नेणं सागरोवमस्स दिवड्दो सत्तभागो उपलिओवमस्स असंखेज्जतिभागेण ऊणो उक्को० पन्नरस सागरोवमकोडाकोडी, पन्नरस वाससयाई अबाधा, अबाहूणिया कम्मठिती कम्पणिसेओ। इथिवेदेणंभंते ! किंपगारे पण्णत्ते?, गोयमा! फुफुअग्गिसमाणे पण्णत्ते, सेत्तंइस्थियाओ वृ. 'स्त्रीवेदस्य' स्त्रीवेदनाम्नोणमिति वाक्यालङ्कारेभदन्त! कर्मणः कियन्तं कालंबन्धस्थिति प्रज्ञप्ता?, भगवानाह-गौतम ! जघन्येन सागोरपमस्य सार्द्धः सप्तभागः पल्योपमासङ्ख्येयभागन्यूनः, कथमिति चेदुच्यते इह स्त्रीवेदादीनां कर्मणांस्वस्मात् २ उत्कृष्टस्थितिबन्धात्मिथ्यात्वसत्कया उत्कृष्टया स्थित्वा सप्ततिसागरोपमकोटाकोटीप्रमाणया भागे हृते यल्लभ्यते तत्पल्योपमासङख्येयभागन्यूनं जघन्यस्थिति:। _ "सेसाणुक्कोसाओमिच्छत्तुक्कसएणजेलद्ध"मित्यादिवचनप्रमाण्यात्, तत्रस्त्रीवेदस्योत्कृष्टः स्थितिबन्धः पञ्चदशसागरोपमकोटीकोटयः, तासां मिथ्यात्वस्थित्या भागो ह्रियते, शून्यं शून्येन पातयेत् जाता उपरि पञ्चदश अघस्तात्सप्तति अनयोश्च छेद्यच्छेदकरास्योर्दशभिरपवर्तना जात उपर्येकः साद्धःअधस्तात्सप्त आगतमेकसागरोपमस्य साद्धः सप्तभागः,पल्यपमासङख्येयभागन्यूनः क्रियते, इयंच व्याख्या मूलटीकाऽनुसारेण कृता, पञ्चसङ्ग्रहमतेनापीदमेव जयन्यिथतिपरिमाणं केवलं पल्योपमासङखेययभागहीनं (न) वक्तव्यं, तन्मतेन “सेसाणुक्कसाओ मिच्छत्तठिईए जं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy