________________
प्रतिपत्तिः -२,
॥ इदानी तिर्यक्स्त्रियास्तिर्यकस्त्रीत्वमजहत्याः कालमानं विचिन्तयिषुरिदमाह_ 'तिरिक्खजोणिइथिए णं भंते !, इत्यादि, तिर्यकस्त्री णमिति वाक्यालङ्कारे भदन्त ! तिर्यक्स्त्रीति कालतः कियच्चिरं भवति?, भगवनाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्तकस्याश्चित्तावप्रमाणायुष्कतयातदनन्तरं मृत्वा वेदान्तराधिगमाद्विलक्षणमनुष्यभवान्तराधिगमाद्वा, कथमुत्कर्षतस्त्रणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि? इति चेदुच्यते-इह नराणां तिरश्चां चोत्कर्षतोऽष्टौ भवाः प्राप्यन्ते नाधिकाः । “नरतिरियाणं सत्तट्टभवा" इति वचनात्, तत्र सप्त भवाः सङ्येयवर्षायुषोऽष्टमस्त्वसङ्खयेयवर्षायुरेव, तथाहि पर्याप्तमनुष्याः पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यञ्चो वा निरन्तरं यथासङ्घयं सप्त पर्याप्तमनुष्यभवान् सप्त पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यगभगवान् वाऽनुभूय यद्यष्टमे भवे भूयः पर्याप्तमनुष्याः पर्याप्तसंज्ञिपञ्चेन्द्रियतिर्यञ्चो वा समुत्पद्यन्ते ततो नियमादसङ्घयेयवर्षायुष एव न सङ्घयेयवर्षायुषः, असङ्खयेयवर्षायुषश्च मृत्वा नियमतो देवलोकेषूत्पद्यन्ते, ततोनवमोऽपिमनुष्यभवः संज्ञिपञ्चेन्द्रियतिर्यग्भवो वा निरन्तरंन लभ्यते, अतएव च पाश्चात्याः सप्त भवा निरन्तरं भवन्तः सङ्ख्येयवर्षायुष एवोपपद्यन्तेनैकोऽप्यसङ्ख्येयवर्षायुः, असङ्ख्येयवर्षायुभवानन्तरं भूयोमनुष्यभवस्य तिर्यग्भवस्य वाऽसम्भवात्, तत्र यदा उत्कर्षतस्तिर्यस्त्रीवेदसहिताः पाश्चात्याः सप्तापि भवा पूर्वकोटयायुषो लभ्यन्ते अष्टमस्तु भवो देवकुर्वादिषु तदा भवन्त्युत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तिर्यकस्त्रीत्वस्यावस्थानम्।।
अत्रैवविशेषचिन्तां चिकीर्षुराह-'जलयरीए' इत्यादि, जलचर्या स्त्रीया जलचरस्त्रीत्वेन निरन्तरं भवन्त्या जघन्यतोऽवस्थानमन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं, सप्तपूर्वकोटयायुर्भवानन्तरंजलचरस्त्रीणामवश्यं जलचरस्त्रीत्वच्युतिभावात्, 'चउप्पयथलयरीएजहा ओहियाए' इति, चतुष्पदस्थलचरस्त्रया यथा औधिक्यास्तिर्यकस्त्रियाउक्तंतथा द्रष्टवंय, तच्चैवम् जघन्यतोऽन्तर्मुहूर्ततत ऊर्ध्वं तद्भावपरित्यागसम्भवात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च प्रागिव भावनीयानि ।
उरःपरिसर्पस्थलचरस्त्रिया भुजपरिसर्पस्थलचरस्त्रीयाश्च यथाजलचरस्त्रियास्तथा वक्तव्यं, तच्चैवं-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं तच्च पूर्ववद्भावनीयम् । खचरस्त्रिया जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पल्योपमासङ्ख्येयभागः पूर्वकोटिपृथकत्वाभ्यधिक उत्कर्षतोऽवस्थानमिति ।तदेवमुक्तं तिर्यस्त्रियाःसामान्यतोविशेषतश्चअवस्थानमान, सम्प्रतिमनुष्यस्त्रीयाआह
'मणुस्सित्थियाए' इत्यादि, मनुष्यस्त्रयाः सामान्यतो यथा औधिक्यास्तिर्यस्त्रियाः, तच्चैवं-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च सामान्यतस्तिर्यस्त्रीवद्भावनीयानि । कर्मभूमकमनुष्यस्त्रयः क्षेत्रं प्रतीत्य सामान्यतः कर्मक्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, ततऊर्ध्वतद्भावपरित्यागसम्भवात्, उत्कर्षतस्त्राणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र सप्त भवामहाविदेहेषुअष्टमो भवोभरतैरावतेष्वेकान्तसुषमादौ त्रिपल्योपमप्रमाण इति । 'धर्मचरणंप्रतीत्य' चारित्रासेवनमाश्रित्य जघन्येनैकंसमय, सर्वविरतिपरिणामस्य तदावरणकर्मक्षयोपशमवैचित्र्यतःसमयमेकं सम्भवात्, तत ऊर्ध्वमरणतःप्रतिपातभावात्, उत्कर्षतो देशोना पूर्वकोटी, समग्रचरणकालस्योत्कर्षतोऽप्येतावन्मात्रप्रमाणत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org