________________
जीवाजीवाभिगमउपाङ्गसूत्रम् २/-१५६
स्त्रीत्वं समयमात्रं, सम्प्रति पूर्वकोटिपृथक्त्वाभ्यधिकदशोत्तरपल्योपमशतभावना क्रियते ।
कश्चिजन्तुरीषु तिरश्चीषु वा पूर्वकोटयायुष्कासु मध्ये पञ्चषान् भवाननुभूय ईशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पद्यते ततः स्वायुःक्षये तस्मात्स्थानाद् भूयोऽपि नारीषु तिरश्चीषु वा मध्ये पूर्वकोट्यायुष्षुरुत्पन्नस्ततो भूयो द्वितीयं वारमीशानदेवलोके पञ्चपञ्चाशत्पन्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोपजातस्ततः परमवश्यं वेदान्तरमवगच्छति, एवं दशोत्तरं पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं प्राप्यते, अत्र पर आह-ननु यदि देवकुरुत्तरकुर्वादिषु पल्योपमत्रयस्थितिकासु स्त्रीषु मध्ये समुत्पद्यते ततोऽधिकाऽपि स्त्रीवेदस्यावस्थितिलभ्यते, ततः किमित्येतावदेवोपदिष्टा?, तदयुक्तम्, अभिप्रायापरिज्ञानात्, तथाहि-नतावद्देवीभ्यश्चयुत्वाऽसङ्ख्येयवर्षायुष्कासु स्त्रीषु मध्ये स्त्रीत्वेनोत्पद्यते, देवयोनेश्चयुतानामसङ्येयवर्षायुष्केषु मध्ये उत्पादप्रतिषेधात्, नाप्यसत्येयवर्षायुष्का सती उत्कृष्टायुष्कासुदेवीषुजायते, यत उक्तंप्रज्ञापनामूलटीकायाम्
“जतो असंखेज्जवासाउयाउकोसियंठिइंन पावेइ' इति, ततो यथोक्तप्रमाणैव स्त्रीवेदस्योत्कृष्टाऽवस्थितिरवाप्यते। द्वितीयेनादेशेन जघन्यत एकसमयमुत्कृष्टतोऽष्टादशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यदिकानि, तत्र समयभावना सर्वत्रापि प्राग्वत्, अष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानिएवं-नारीषुतिरश्चीषुवापूर्वकोटीप्रमाणायुष्कासु मध्ये कश्चिजन्तुः पञ्चषान् भवाननुभूय पूर्वप्रकारेणेशानदेवलोकेवारद्वयमुत्कृष्टस्थितिकासुदेवीषुमध्ये समुत्पद्यमानो नियमतः परिगृहीतास्वेवोत्पद्यतेनापरिगृहीतासु, ततएवंद्वितीयादेशवादिमतेनस्त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वंच तृतीयेनादेशेन जघन्यत एकसमयमुत्कर्षतश्चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वा- भ्यधिकानि, तानि चैवं--पूर्वप्रकारेण सौधर्मदेवलोके परिगृहीतदेवीषु सप्तपल्योपमप्रमाणोत्कृष्टायुष्कासुमध्ये वारद्वयं समुत्पद्यते तत्र एवं तृतीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानं चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वं च । चतुर्थेनादेशेन जघन्यत एक समयमुत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं, कथम् ? इति चेदुच्यते, नारीषु तिरश्चीषु वा पूर्वकोटयायुष्कासु पञ्चषान् भवाननुभूय पूर्वप्रकारेण सौधर्मदेवलोके पञ्चाशत्पल्योपमप्रामाणोत्कृष्टायुष्कास्व- परिगृहीतदेवीषु मध्ये देवीत्वेनोत्पद्यते, तत एवं चतुथदिशवादिमतेन पल्योपमशतं पूर्वकोटि-पृथक्त्वाभ्यधिकं भवति ।
__ पञ्चमेनादेशेन जघन्यत एवं समयमुत्कर्षतः पल्योपमपृथक्त्वंपूर्वकोटिपृथक्त्वाभ्यधिकं, तवं नारीषु तिरश्चीषु वा पूर्वकोटयायुष्कासु मध्ये सप्त भवाननुभूयाष्टमभवे देवकुर्वादिषु त्रिपल्योपमस्थितिकासुस्त्रीषुमध्येस्त्रीत्वेन समुत्पद्यते, ततोमृत्वा सधर्मदवलोकेजघन्यस्थितिकासु देवीषुमध्ये देवीत्वेनोपजायते, तदनन्तरंआवश्यं वेदान्तरमधिगच्छति, ततः पञ्चमादेशवादिमतेन स्त्रीवेदस्यावस्थानं पूर्वकोटिपृथक्त्वाभ्यधिकं सपल्योपमपृथक्त्वं, ते ह्येवमाहुर्नानाभवप्रमाणद्वारे-यदिस्त्रीवेदस्योत्कृष्टमवस्थानंचिन्त्यतेततइस्थमेतावदेव लभ्यते, नाधिकमन्यथा चेति ।
___अमीषांच पञ्चानामादेशानामन्यतमादेशमीचीनतानिर्णयोऽतिशयज्ञानिभिः सर्वोत्कृष्टश्रुतलब्मिसंपन्नैर्वा कर्तुशक्यते,ते च सूत्रकृप्रतिपत्तिकाले नासीरनिति सूत्रकृन निर्णयंकृतवानिति तदेवं सामान्यतः स्त्रीस्त्रीत्वं नैरन्तर्येणामुञ्चन्ती यावन्तंकालमवतिष्ठते तावत्काल प्रमाणमुक्तम्
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org