SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ७० जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/५६ भरतैरावतकर्मभूमकमनुष्यस्त्रियाः स्त्रत्वं क्षेत्रप्रतीत्य' भरतायेवाश्रित्य जघन्येनान्तर्मुहूर्त तच्च प्राग्वद्भावनीयम्, उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि चैवं-पूर्वविदेहमनुष्यस्त्री अपरविदेहमनुष्यस्त्री वा पूर्वकोटयायुष्का केनापि भरतादावेकान्तसुषमादौ संहता,साच यद्यपिमहाविदेहक्षेत्रोत्प्नातथाऽपि प्रागुक्तामागधपुरुषहटान्तबलेन भारत्यैरावतीयावेतिव्यपदिश्यते, ततःसा भारत्यादिव्यपदेशंप्राप्ता पूर्वकोटिंजीवित्वा स्वायुःक्षयतस्तत्रैव भरतादावेकान्तसुषमाप्रारम्भे समुत्पन्ना, ततएवंदेशोनपूर्वकोटयभ्यधिकंपल्योपमत्रयमिति धर्मचरणं प्रतीत्य कर्मभूमिजस्त्रिया इव भावनीयं, जघन्यत एक समयमुत्कर्षतो देशोनां पूर्वकोटींयावत्, पूर्वविदेहापरविदेहकर्मभूमिजमनुष्यस्त्रियास्तु क्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, तच्च सुप्रतीतं, प्राग्भावितत्वात्, उत्कर्षतः पूर्वकोटिपृथक्त्वं, तत्रैव भूय उत्पत्या, धर्मचरणं प्रतीत्य समागतकर्मभूमिजस्त्रियाइव वक्तव्यं, जघन्यत एवंसमयमुत्कर्षतो देशोनांपूर्वकोटिंयावदिति भावार्थः । उक्ता सामान्यतो विशेषतश्च कर्मभमूकमनुष्यस्त्रीवक्तव्यता, साम्प्रतमकर्मभूमकमनुष्यस्त्रीवक्तव्यतां चिकीर्षु प्रथमतः सामान्येनाह 'अकम्मभमूगमणुस्सित्थीणंभंते!' इत्यादि, अकर्मभूमकमनुष्यस्त्र, णमितिवाक्यालङ्कारे, अकर्मभूमिकमनुष्यस्त्रीतिकालतः कियच्चिरंभवति?, भगवानाह-गौतम! जन्म तत्रैवसम्भूतिलक्षणं प्रतीत्य' आश्रित्यजघन्येन पल्योपमंदेशोनं, अष्टभागाधूनमपि देशोनं भवतिततो विशेषस्थापनायाह-पल्योपमस्यासङ्ग्येयभागोनं जघन्यतः उत्कर्षतस्त्रीणि पल्योपमानि, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमन्तर्मुहूर्तायुःशेषायाः संहतिभावात, उत्कर्षेण त्रीणिपल्योपमानि देशोनया पूर्वकोटयाऽभ्यधिकानि, कथम्? इतिचेदुच्यते-काचित्पूर्वविदेहमनुष्यस्त्र अपरविदेहमनुष्यस्त्री वादेशोनपूर्वकोटयायुःसमन्विता देवकुर्वादौ संहृता, साचपूर्वद्दष्टान्तबलेन देवकुर्वादिका जाता, ततः सा देशोनां पूर्वकोटिंजीवित्वा मृत्वा च तत्रैव त्रिपल्योपमायुष्का समजनि, तत एवं देशोनपूर्वकोट्यधिकं पल्योपमत्रयमिति, अनेन संहरणतो जघन्योत्कृष्टावस्थानकालमानप्रदर्शनेन न्यूनान्तर्मुहूर्त्तायुःशेषाया गर्भस्त्रया वा न संहरणमिति प्रतिपादितम्, अन्यथा जघन्यतोऽन्तमुहूर्तमुत्कर्षचिन्तायां पूर्वकोटया देशोनता न स्यादिति। - अकर्मभूमिकमनुष्यस्त्रविषयामेव विशेषचिन्तां करोति–'हेमवये'त्यादि, हैमवतैरण्यवतहरिवर्षरम्यकवर्षदेवकुरुत्तरकुर्वन्तरद्वीपिकाणांजन्मप्रतीत्ययायस्याः स्थितिस्ततस्तस्या अवस्थानं वाच्यं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो या यस्या उत्कष्टा स्थिति सा तस्या देशोनया पूर्वकोट्याऽभ्यधिका वक्तव्या, सा चैवं-हैमवतैरण्यवतयोर्मनुष्यस्त्री जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमासद्धेययभागन्यूनम्, उत्कर्षतः परिपूर्णपल्योपम, संहरणमधिकृत्य जघन्येनान्तमुहूर्तम्, अन्तर्मुहूर्तायुःशेषाया एव संहरणभावात्, उत्कर्षतः पल्योपमं देशोनया पूर्वकोटयाऽभ्यधिकं, तच्च देशोनपूर्वकोटयायुःसमन्वितायास्तत्र संहरणे तत्रैव च मृत्वोत्पन्नाया भावनीयम्। हरिवर्षरम्यकयोर्जन्मप्रतीत्यजघन्येन पल्योपमासङ्ख्येयभागन्यने द्वेपल्योपमे, उत्कर्षतः परिपूर्णे द्वे पल्योपमे । संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोटयाऽभ्यधिके द्वेपल्योपमे, भावना प्रागिव । देवकुरुत्तरकुरुषुजन्मप्रतीत्य जघन्यतःपल्योपमासंख्येयभागन्यूनानि त्रीणि पल्योपमानि, उत्कर्षतस्त्रीणि पल्योपमानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy