________________
प्रतिपत्ति:- १,
सर्ववस्तुपर्यायप्रपञ्चसाक्षात्कारिणी वित्रप्तिरुल्लसति, उक्तञ्ज
119 11
५७
"यथा जात्यस्य रत्नस्य, निशेषमलहानित: । स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ।।' इति ।
येऽज्ञानिनस्ते द्वयज्ञानिनस्त्र्यज्ञानिनो वा, तत्र ये द्वयज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनः, ये त्र्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च । योगद्वारे मनोयोगिनो वाग्योगिनः काययोगिनोऽयोगनश्च तत्रायोगिनः शैलेशीमवस्थां प्रतिपन्नाः, उपयोगद्वारमाहारद्वारं च द्वीन्द्रियवत्, उपपात एतेष्वध- सप्तमनरकादिवर्जेभ्यः, उक्तञ्च“सत्तममहिनेरइया तेऊ वाऊ अंतरूव्वट्टा । नवि पावे माणुस्सं तहेवऽसंखाउया सव्वे ॥"
॥ १ ॥
इति, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, समुद्घातमधिकृत्य मरणचिन्तायां समवहता अपि म्रियन्ते असमवहता अपि, च्यवनद्वारेऽनन्तरमुदृत्य सर्वेषु नैरयिकेषु सर्वेषु च तिर्यग्योनिषु सर्वेषु मनुष्येषु सर्वेषु देवेष्वनत्तरोपपातिकपर्यवसानेषु गच्छन्ति, 'अत्येगइया सिज्झति जाव अंतं करेंति' इति, अस्तीति निपातोऽत्र बहुवचनार्थ, सन्त्येकक निष्ठितार्था भवन्ति यावत्करणात् "बुज्झंति मुच्द्यंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंती 'ति द्रष्टव्यं, तत्राणिमाद्यैश्वर्याप्ता तथापि मनुष्यकृत्यापेक्षया निष्ठितार्था इति ।
असर्वविदोऽपि कैश्चित्सिद्धा इष्यन्ते ततो मा भूत्तेषु संप्रत्यय इति तदपोहायाह
'बुध्यन्ते' निरावरणत्वात्केवलावबोधेन समस्त वस्तुजातम्, एते चासिद्धा अपि भवस्थकेवलिन एवंभूता वर्त्तन्ते तन्न मा भूदेतेष्वेव प्रतीतिरित्याह- 'मुच्यन्ते' पुण्यापुण्यरूपेण कृच्छ्रेण कर्मणा, एतेऽपि चापरिनिर्वृत्ता एव परैरिष्यन्ते- 'मुक्तिपदे प्राप्ता अपि तीर्थनिकारदर्शनादिहागच्छन्ती 'ति वचनात्, ततो मा भूत्तद्गोचरा मन्दमतीनां धीरित्याह- 'परिनिर्वान्ति' विध्यात- समस्तकर्महुतवहपरमाणवो भवन्तीति, किमुक्तं भवति ? - सर्वदुःखानां शारीरमानसभेदामन्तंविनाशं कुर्वन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाः पञ्चगतिकाः, सिद्धगतावपि गमनात्, 'परीत्ताः' प्रत्येकशरीरिणः 'सङ्घयेयाः सङ्ख्येयकोटीप्रमाणत्वात् प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! ।
उपसंहारमाह- 'सेत्तं मणुस्सा' ॥ अधुना देवानाह
मू. (५०) से किं तं देवा ?, देवा चउव्विहा पन्नत्ता, तंजहा-भवणवासी वाणमंतरा जोइसाय वेमाणिया । से किं तं भवणवासी ?, २ दसविधा पन्नत्ता, तंजहा - असुरा जाव थणिया, सेतं भवणवासी से किं तं वाणमंतरा ?, २ देवभेदो सव्वो भाणियव्वो जावते समासतो दुविहा पन्नत्ता, तंजहा- पजत्ता य अपजत्ता य, तओ सरीरगा - वेउव्विए तेयए कम्पए ।
ओगाहणा दुविधा - भवधारणिजा य उत्तरवेउब्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्त्रेणं अंगुलस्स असंखेज्जभागं उक्कोसेणं सत्त रयणीओ, उत्तरवेउब्विया जहन्त्रेणं अंगुलसंखेजति० उक्को सेणं जोयणसयसहस्सं, सरीरगा छण्हं संघयणाणं असंघयणी नेवट्ठी नेव छिरा नेव हारू नेव संघयणमत्थि ।
जे पोग्गला इट्ठा कंता जाव ते तेसिं संघायत्ताए परिणमंति, किंसंठिता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा - भवधारणिज्जा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिजा ते णं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International