________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १ /-/ ४९ यावत्स्पर्शनेन्द्रियोपयुक्ता नोइन्द्रियोपयुक्ताश्च तत्र नोइन्द्रियोपयुक्ताः केवलिनः समुद्घातद्वारे सप्तति समुद्घाताः मनुष्येषु सर्वभावसम्भवात्, समुद्घातसङ्ग्राहिका चेमा गाथा"वेयणकसायसमरणंतिए य वेडव्विए य आहारे ।
,
11911
केवलियसमुग्धा सत्त समुग्धा इमे भणिया ।।"
संज्ञिद्वारे संज्ञिनोऽपि नोसंज्ञिनोअसंज्ञिनोऽपि तत्र नोसंज्ञिनो असिंज्ञिनः केवलिनः । वेदद्वारे स्त्रिवेदा अपि पुरुषवेदा अपि नपुंसकवेदा अपि अवेदा:- सूक्ष्मसम्परायादयः, पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः, भाषामनः पर्याप्तयोरेकत्वेन विवक्षणात् ।
tष्टिद्वारे त्रिविधध्ष्टयः, तद्यथा - केचिन्मिथ्याध्ष्टयः केचित्सम्यग्दृष्टयः केचित्सम्यग्मिथ्यादृष्टयः, दर्शनद्वारे चतुर्विधदर्शनाः, तद्यता- चक्षुर्दर्शना अचक्षुर्दर्शना अवधिदर्शनाः केवलदर्शनाः, ज्ञानद्वारे ज्ञानिनोऽज्ञानिनश्च तत्र मिथ्याध्टयोऽन्येनः सम्यग्दृष्टयो ज्ञानिनः, 'नाणाणि पंच तिन्नि अन्नाणाणि भयणाते' इति, ज्ञानानि पञ्च मतिज्ञानादीनि, अज्ञानानि त्रीणि मत्यज्ञानादीनि, तानि भजनया वक्तव्यानि, सा च भजना एवम् ।
,
केचिद्विज्ञानिनः केचित्त्रिज्ञानिनः केचिच्चतुर्ज्ञानिनः केचिदेकज्ञानिनः, तत्र येद्विज्ञाननस्ते नियमादाभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च ये त्रिज्ञानिनस्ते मतिज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, अथवाऽऽभिनिबोधिकज्ञानिनः श्रुतज्ञानिनो मनः पर्यवज्ञानिनश्च, अवधिज्ञानमन्तरेणापि मनः पर्यवज्ञानस्य सम्भवात्, सिद्धप्राभृतादौ तथाऽनेकशोऽभिधानात्, ये चतुर्ज्ञानिनस्ते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनः पर्यवज्ञानिनश्च ये एकज्ञानिनस्ते केवलज्ञानिनः, केवलज्ञानसद्भावे शेषज्ञानापगमात्, “नेट्ठमि छाउमत्थिए नाणे” इति वचनात्, ननु केवलज्ञानप्रादुर्भावे कथं शेषज्ञानापगमः ?, यावता यानि शेषाणि मत्यादीनि ज्ञानानि स्वस्वावरणक्षयोपशमेन जायन्ते ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भवेयुश्चारित्रपरिणाभवत्, उक्चञ्च119 ||
५६
“आवरणदेसविगमे जाई विनंति मइसुयाईणि । आवरणसव्वविगमे कह ताइं न होंति जीवस्स ॥"
उच्यते, इह यथा जात्यस्य भरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद् यथा यथा देशतो मलविलयस्तथा तथा देशतोऽभिव्यक्तिरुप्यजायते, साच क्वचित्कदाचित्कथञ्चिवती - त्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलाकलापावलम्बिनिखिलपदार्थसार्थपरिच्छेद- करणैकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्य यावन्नाद्यापि निखिलकर्ममला- पगमस्तावद् यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा तस्य विज्ञप्तिरुज्जृम्भते, साच क्वचित्कदाचित्कथञ्चिदनेकप्रकारा, उक्तञ्च
119 11
"मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः ।
कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥”
सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्क्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निशेषावरणप्रहाणावशेदेशज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org