________________
प्रतिपत्तिः-१,
पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णाए अंतरदीवेसु गम्भवतंतियमणुस्साणं चेव उच्चारेसुवापासवणेसुवा खेलेसुवा सिंघाणएसुवा वंतेसुवा पित्तेसुवा सोणिएसु वा सुक्कसु वा सुक्कपोग्गलपरिसाडेसुवा कवगयजीवकलेवरेसु वा थीपुरिससंजोगेसु वा नगरनिद्धमणेसुवा सब्वेसु चेव असुइट्ठाणेसु, एत्य णं समुच्छिमणुस्सा संमुच्छंति अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए असन्त्री मिच्छादिट्ठी सव्वाहिं पज्जत्तीहिंअपज्जत्तगाअंतोमुहत्ताउयाचेवकालं करेंति" एतच निगदसिद्धम् । सम्प्रति शरीरादिद्वारप्रतिपादनार्थमाह
'तेसि णं भंते !' शरीराणि त्रीणि औदारिकतैजसकार्मणानि अवगाहना जघन्यत उत्कर्षतश्चाङ्गुलासङ्खयेयभागप्रमाणा, संहननसंस्थानकषायलेश्याद्वाराणि यथा द्वीन्द्रियाणां, इन्द्रियद्वारे पञ्चेन्द्रियाणि, संज्ञिद्वारवेदद्वारे अपि द्वीन्द्रियवत्, पर्याप्तिद्वारेऽपर्याप्तयः पञ्च, द्दष्टिदर्शनज्ञानयोगोपयोगद्वाराणि (यथा) पृथिवीकायिकानां, आहारोयथा द्वीन्द्रियाणां, उपपातो नैरयिकदेवतेजोवाय्वसङ्ख्यातवर्षायुष्कवर्जेभ्यः, स्थितिर्जघन्यत उत्कर्षतोऽप्यन्तर्मुहूरत्तप्रमाणा, नवरं जघन्यपदादुत्कृष्टमधिकं वेदितव्यं, मारणान्तिकसमुद्घातेन समवहता अपि नियन्ते असमवहताश्च, अनन्तरमुदृत्य नैरयिकदेवासङ्ख्येयवर्षायुष्कवर्जेषु शेषेषु स्थानेषूत्पद्यन्ते, अत एव गत्यागतिद्वारे द्वयागतिका द्विगतिकास्तिर्यग्मनुष्यगत्यपेक्षया, “परीत्ताः' प्रत्येकशरीरिणोऽसद्धेययाः प्रज्ञप्ताः, हे श्रमण! हेआयुष्मन् !, उपसंहारमाह-‘सेतंसमुच्छिम मणुस्सा' ।
उक्ताः संमूर्छिममनुष्याः, अघुना गर्भव्युत्क्रान्तिकमनुष्यानाह-अथकेतेगर्भव्युत्क्रान्तिकमनुष्याः?, सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यास्त्रिविधाःप्रज्ञप्ताः, तद्यथा-कर्मभूमिकाअकर्मभूमका अन्तरद्वीपजाः, तत्र कर्म-कृषिवाणिज्यादि मोक्षानुष्ठानं वा कर्मप्रधाना भूमिर्येषां ते कर्मभूमाः आर्षत्वात्समासान्तोऽप्रत्ययः, कर्मभूमाएव कर्मभूमकाः, एवमकर्मा-यथोक्तकर्मविकला भूमिर्येषां तेऽकर्मभूमास्त एवाकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपास्तद्गता अन्तरद्वीपगाः।।
“एवंमाणुस्सभेयो भाणियब्दोजहा पन्नवणाए' इति, एवम्' उक्तेन प्रकारेणमनुष्यभेदो भणितव्यो यथा प्रज्ञापनायां, स चातिबहुग्रन्थ इति तत एवपरिभावनीयः, तेसमासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकलापचिन्तायां शरीरद्वारे पञ्च शरीराणि, तद्यथा
औदारिकं वैक्रयिमाहारकं तैजसं कार्मणं च, मनुष्येषु सर्वभावसम्भवात्, अवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्घयेयभागमात्रा उत्कर्षस्त्रीणि गव्यतानि, संहननद्वारे षडपि संहननानि, संस्थानद्वारेषडपि संस्थानानि, कषायद्वारेक्रोधकषायिणोऽपिजाव लोभकषायिणोऽपि अकषायिणोऽपि, वीतरागमनुष्याणामकषायित्वात्, संज्ञाद्वारे आहारसंज्ञाोपयुक्ता जाव लोभसञ्जजोपयुक्ताः, नोसंज्ञोपयुक्ताश्चनिश्चयतोवीतरागमनुष्याः, व्यवहारतः सर्वएव चारित्रिणो, लोकोत्तरचित्त-लाभात्तस्य सञ्जञादशकेनापि विप्रयुक्तत्वात्, उक्तञ्च-- ॥१॥ “निर्वाणसाधकं सर्वं, ज्ञेयं लोकोत्तराश्रयम् ।
संज्ञा लोकाश्रया सर्वा, भवाङ्कुरजलं परम् ।।" लेश्याद्वारे कृष्णद्वारे लीललेश्याः कापोतलेश्यास्तेजोलेश्याः पद्मलेश्याः शुक्ललेश्या अलेश्याश्च, तत्रालेश्याः परमशुक्लध्यायिनोऽयोगिकेवलिनः । इन्द्रियद्वारे श्रोत्रेन्द्रियोपयुक्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org