SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/५० समचउरंससंठिया पन्नत्ता, तत्थ णंजे ते उत्तरवेउब्बिया तेणं नानासंठाणसंठिया पन्नत्ता। . चत्तारि कसाया चत्तारिसण्णा छ लेस्साओ पंच इंदिया पंच समुग्घाता सन्नीवि असन्त्रीवि इत्यिवेदावि पुरिसवेदावि नो नपुंसगवेदा, पज्जत्ती अपजत्तीओ पंच, दिट्ठी तिन्नि तिणि दंसणा, नाणीवि अन्नाणीवि, जे नाणी ते नियमा तिन्नाणी अन्नाणी भयणाए, दुविहे उवओगे तिविहे जोगे आहारोनियमाछदिसिं, ओसन्न कारणं पडुचवण्णतो हालिहसुकिल्लाईजाव आहारमाहारेति, उववातो तिरियमणुस्सेसु। ठितीजहन्नेणं दसवाससहस्साइंउक्कोसेणंतेत्तीसंसागरोवमाइं, दुविधाविमरंति, उचट्टित्ता नो नेरइएसु गच्छंति तिरियमणुस्सेसुजहासंभवं, नो देवेसु गच्छंति, दुगतिया दुआगतिया परित्ता असंखेजा पण्णत्ता, से तं देवा, से तं पंचेदिया, सेत्तं ओराला तसा पाणा ।। वृ.अथ केते देवाः?, सूरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिकाच, ‘एवं भेदो भाणियव्वो जहा पन्नवणाए' इति, ‘एवम्' उक्तेन प्रकारेण भेदो भणितव्यो यथा प्रज्ञापनायां, स चैवम्- “से किं तं भवणवासी ?, दसविहा पन्नत्ता" इत्यादिरूपस्तत एव सव्याख्यानः परिभावनीयः, 'ते समासतो दुविहा पन्नत्ता-पज्जत्तगा य अपज्जत्तगाय' एषामपर्याप्तत्वमुत्पत्तिकाल एव द्रष्टव्यं न त्वपर्याप्तिनामकर्मोदयतः, उक्तञ्च॥१॥ "नारयदेवा तिरियमणुयगब्मजा जे असंखेवासाऊ । एए उ अपज्जत्ता उववाए चेव बोद्धव्या।।" इति। शरीरादिद्वारचिन्तायां शरीरद्वारे त्रीणि शरीराणि वैक्रियं तैजसं कार्मणं च, अवगाहना भवधारणीया जघन्यतोऽङ्गुलासङ्घयेयभागमात्रा उत्कर्षतः सप्तहस्तप्रमाणा, उत्तरवैक्रियाजघन्यतोऽङ्गुलसङ्खयेयभागप्रमाणा उत्कर्षतो योजनशतसहस्रं, संहननद्वारेषण्णांसंहननानामन्यतमेनापि संहननेनासंहननिनः, कुतः ? इत्याह-'नेवट्ठी' इत्यादि, यतो नैव तेषां देवानां शरीरेष्वस्थीनि नैव शिरा नापि स्नायूनि संहननं चास्थिनिचयात्मकमतोऽ स्थ्यादीनामभावात्संहनना- भावः, किन्तु 'जे पोग्गला' इत्यादि, ये पुद्गला इष्टाः-मनस इच्छामापत्राः, तत्र किञ्चिदकान्तमपि केषाञ्चिदिष्टं भवति तत आह-- _ 'कान्ताः' कमनीयाःशुभवर्णोपेतत्वात्, यात्करणात् 'पिया मणुना मणामा' इति द्रष्टव्यं, तत्र यतएव कान्ताअत एव प्रियाः-सदैवात्मनि प्रियबुद्धिमुत्पादयन्ति, तथा शुभाः' शुभरसगन्धस्पर्शात्मकत्वात् ‘मनोज्ञाः' विपाकेऽपि सुखजनकतया मनःप्रह्लादहेतुत्वात् ‘मनापाः' सदैव भोज्यतया जन्तूनां मनांसि आप्नुवन्ति, इत्थम्भूताः पुद्गलास्तेषां शरीरसङ्घाताय परिणमन्ति। संस्थानद्वारे भवधारणीया तनुः सर्वेषामपि समचतुरस्रसंस्थाना उत्तरवैक्रिया नानासंस्थानसंस्थिता, तस्या इच्छावशतः प्रादुर्भावात्, कषायाश्चत्वारः, संज्ञाश्चतस्र, लेश्याः षड्, इन्द्रियाणि पञ्च, समुद्घाताः पञ्च, वेदनाकषायमारणान्तिकवैक्रियतैजससमुद्घातसम्भवात् । संज्ञिद्वारे संज्ञिनोऽपिअसंज्ञिनोऽपि, तेच नैरयिकवद्भावनीयाः,वेदद्वारेस्त्रिवेदाअपिपुरुषवेदा अपि नो नपुंसकवेदाः, पर्याप्तिद्वारं दृष्टिद्वारं दर्शनद्वारं च नैरयिकवत् । ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि चेति विकल्पोऽसंज्ञिमध्यः, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा आभिनिबोधिकज्ञानिनःश्रुतज्ञानिनोऽवधिज्ञानिनश्च, तत्रयेऽज्ञानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy