SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ५२ जीवाजीवाभिगमउपाङ्गसूत्रम् १/४६ स्कन्धकाण्डमतिपुष्टमुपरिचन तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु नेति, तथा यत्रं शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षमोपेतं उरउदरादि चमण्डलं चत्कुब्ज संस्थानं, यत्रपुनरुदरादिप्रमाणलक्षणोपेतं हस्तपादादिकंच हीनं तद्वामनं, यत्र सरह्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुण्डम्, उक्तञ्च॥१॥ "समचउरंसे नग्गोहमंडले साइ खुन वामणए। हुंडेवि य संठाणे जीवाणं छम्मुणेयव्वा ।। ॥२॥ तुलं वित्थडबहुलं उस्सेहबहुंच मडहकोठेंच । __हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं ।।। लेश्याद्वारे षडपि लेश्याः, शुक्ललेश्याया अपि सम्भवात्, समुद्घाताः पञ्च, वैक्रियसमुद्घातस्यापि सम्भवात्, संज्ञिद्वारे संज्ञिनो नो असंज्ञिनः, वेदद्वारे त्रिविधवेदा अपि, स्त्रपुरुषयोर्वेदयोरप्यमीषां भावात्, पर्याप्तिद्वारे पञ्च पर्याप्तयो, भाषामनःपर्याप्तयोरेकत्वेन विवक्षणात, अपर्याप्तिचिन्तायां पञ्चापर्याप्तयः, टिद्वारे त्रिविधष्टयोऽपि, तद्यथा-मिथ्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिथ्याटयश्च, दर्शनद्वारे त्रिविधदर्शना अपि, अवधिदर्शनस्यापि केषाञ्चिद्भावात, ज्ञानद्वारे त्रिज्ञानिनोऽपि, अवधिज्ञानस्यापिकेषाञ्चिद्भावात्, अज्ञानचिन्तायामज्ञानिनोऽपि, विभङ्गस्यापि केषाञ्चित्सम्भवात्, अवधिविभङ्गौच सम्यग्मध्याष्टिभेदेन प्रतिपत्तव्यो, उक्तञ्च- "सम्यग्दृष्टेनि मिथ्यादृष्टेर्विपर्यासः" इति । ___ उपपातद्वारे उपपातो नैरयिकेभ्यः सप्तपृथ्वीविभ्योऽपि, तिर्यग्योनिकेभ्योऽप्यसङ्घयातवर्षायुष्कवर्जेभ्यः सर्वेभ्योऽपि, मनुष्येभ्योऽकर्मभूमिजान्तरद्वीपजासङ्खयातवर्षायुष्कवर्जकर्मभूमिभ्यो, देवेभ्योऽपियावत्सहस्ररात्, परतःप्रतिषेधः, स्थितिद्वारेजघन्यतः स्थितिरत्नमुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽनन्तरमुदृत्य सहनरात्परे ये दासान् वर्जयित्वा शेषेषु सर्वेष्वपि जीवास्थानेषु गच्छन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाश्चतुर्गतिकाः, परीत्ताः' प्रत्येकशरीरिणोऽसङ्खयेयाः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! उपसंहारमाह-'सेत्तं जलयरा गब्भवतियपश्चिदियतिरिक्खजोणिया' ॥सम्प्रति स्थलचरप्रतिपादनार्थमाह मू. (१७) से किं तं थलयरा?, २ दुविहा पन्नत्ता, तंजहा-चउप्पदा य परिसप्पा या से किंतंचउप्पया?,२ चउबिधा पन्नत्ता, तंजहा-एगक्खुरा सोचेव भेदोजावजेयावन्ने तहप्पकारा ते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ता य अपज्जत्ताय। चत्तारि सरीरा ओगाहणा जहन्नेणं अंगुलस्स असंखेज्ज० उक्कोसेणं छ गाउयाई, ठिती उकोसेणं तिनि पलिओमाई नवरं उव्वहिता नेरइएसु चउत्थपुढविंगच्छंति, सेसंजहाजलयराणं जाव चउगतिया चउआगतिया परित्ता असंखिज्जा पन्नता, से तं चउप्पया। से किं तं परिसप्पा?, २ दुविहा पन्नत्ता, तंजहा-उरपरिसप्पा य भुयगपरिसप्पा य, से किंतं उरपरिसप्पा?, २ तहेव आसालियवजो भेदो भाणियब्बो, (तिन्नि) सरीरा, ओगाहणा जहन्नेणं अंगुलस्सअसंखे० उक्कोसेणं जोयणसहस्सं, ठितीजहन्नेणं अंतोमुहत्तं उक्कोसेणंपुवकोडी उचट्टित्ता नेरइएसुजाव पंचमंपुढविताव गच्छेत, तिरिक्खमणुस्सेसुसब्बेसु, देवेसुजाव सहस्सारा। सेसं जहाजलयराणं जाव चउगतिया चउआगइया परित्ता असंखेजा से तं उरपरिसप्पा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy