________________
जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व० / २ / ३७८
उत्सर्पिण्यवसर्पिएयः कालतः क्षेत्रतोऽकुलस्यासङ्घयेयो भागः, बादरकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् । बादरस्यान्तरं जघन्येनान्तर्मुहूर्त उत्कर्षतोऽसङ्घयेयं कालं, असङ्घयेया उत्सर्पिण्यवसर्पिण्य कालतः क्षेत्रतोऽसत्येया लोकाः, सूक्ष्मस्य जघन्यत उत्कर्षतश्चैतावत्कालप्रमाणत्वात्, नोसूक्ष्मनोबादरस्य साद्यपर्यवसितस्य हेतौ षष्ठी, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति न्यायात्, ततोऽयमर्थ -साद्यपर्यवसितत्वान्नास्त्यन्तरमन्यथाऽपर्यवसितत्वायोगात् । अल्पबहुत्वचिन्तायां सर्वस्तोकानोसूक्ष्मानोबादराः, सिद्धानामल्पत्वात्, तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽप्यनन्तत्वात्, तेभ्यः सूक्ष्मा असङ्घयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्ख्यातगुणत्वात् ॥
सू. (३७९) अहवा तिविहा सव्वजीव्वा पन्नत्ता, तंजहा- सन्नी असन्नी नोसन्नीनोअसन्नी, सनी भंते! कालओ० ?, जह० अंतो० उक्को० सागरोवमसतपुहुत्तं सातिरेगं, असन्नी जह० अंतो० उक्को० वणस्सतिकालो, नोसन्नीनो असन्नी साइए अपज्जवसिते ।
सन्निस्स अंतरं जह० अंतो० उक्को० वणस्सतिकालो, असन्निस्स अंतरं जह० अंतो० उक्को० सागरोवमसयपुहुत्तं सातिरेगं, ततियस्स नत्थि अंतरं । अप्पाबहू० सव्वत्थोवा सण्णी नोसन्नीनो असन्नी अनंतगुणा असन्नी अनंतगुणा ||
४९२
वृ. 'अहवा तिविहा' इत्यादि, 'अथवा' प्रकारान्तरेण त्रिप्रकाराः सर्वजीवाः प्रज्ञप्तास्तद्यथासंज्ञिनोऽसंज्ञिनो नोसंज्ञिनोऽसंज्ञिनश्च तत्र संज्ञिनः - समनस्काः असंज्ञिनः - अमनस्काः उभयप्रतिषेधवर्त्तिनः सिद्धाः । कायस्थितिचिन्तायां संज्ञिनो जघन्येनान्तर्मुहूर्त, तत ऊर्द्ध भूयोऽपि कस्यचिद् संज्ञिषु गमनात्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं तत ऊर्ध्वं वश्यं संसारिणः सतोऽसंज्ञिषु गमनात्, असंज्ञिनो जघन्यतोऽन्तर्मुहूर्त, तत ऊर्ध्वं कस्यापि पुनरपि संज्ञिषु गमनातू, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः स चैवं-- अनन्ता उत्स र्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, असङ्ख्येयाः पुद्गलपरावर्त्ताः, तेच पुद्गलपरावर्त्ता आवलिकाया असङ्ख्येयो भागः, उभयप्रतिषेधवर्त्ती सिद्धः, स च साद्यपर्यवसितः ।
अन्तरचिन्तायां संज्ञिनोऽन्तरं जघन्येनान्तर्मुहूर्त्त उत्कर्षतोऽनन्तं कालं, स चानन्तकाली वनस्पतिकालः, असञ्जिञकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात्, असंज्ञिनोऽन्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं, संज्ञिकालस्य जघन्यत उत्कर्षतश्चैतावप्रमाणत्वात्, नोसंज्ञिनोनोअसंज्ञिनः साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः संज्ञिनो, देवनारकगर्भव्युत्क्रन्तिकतिर्यग्मनुष्याणामेव संज्ञित्वात्, तेभ्य उभयप्रतिषेधवर्त्तिनोऽनन्तगुणाः, वनस्पतिवर्जशेषजीवेभ्यः सिद्धानामनन्त गुणात्वात् । तेभ्योऽसंज्ञिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥
मू. (३८०) अहवा तिविहा सव्वजीवा पन्नत्ता, तंजहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धियानो अभवसिद्धिया, अनाइया सपज्जवसिया भवसिद्धिया, अनाइया अपज्जवसिया अभवसिद्धिया, साई अपज्जवसिया नोभवसिद्धियानो अभवसिद्धिया ।
तिण्sपि नत्थि अंतरं । अप्पाबहु० सव्वत्थोवा अभवसिद्धिया नोभवसिद्धीयानोअभव
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org