________________
प्रतिपत्ति: सर्व०, प्रतिपत्तिः २
४९१
पजत्तगस्स अंतरहं जह० अंतो० उक्को० अंतो०, अपजत्तगस्स जह० अंतो० उक्को० सागरोवसमसयपुहत्तं साइरेगं, तइयस्स नत्थि अंतरं ।
अप्पा बहु० सव्वत्थोवा नोपञ्जत्तगनो अपजत्तगा अपजत्तगा अनंतगुणा पञ्जत्तगा संखित्रगुणा वृ. 'अहवे' त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तका नोपर्याप्तकानोअपर्याप्तकाश्च तत्र पर्याप्तककायिस्थितिचन्तायां जघन्येनान्तर्मुहूर्तं, अपर्याप्तकेभ्यः पर्याप्तेषूत्पद्यान्तर्मुहूर्तात्परतोऽपर्याप्तकेषु भूयोऽपि गमनात्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं तत ऊर्ध्वं नियमतोऽपर्याप्तकभावात्, लब्ध्यपेक्षं चेदं सूत्रं, तेनापान्तराले उपपातापर्याप्तकत्वेऽपि न कश्चिद्दोषः ।
अपर्याप्तकसूत्रे जघन्यतोऽभ्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अपर्याप्तलब्धेर्जघन्यत उत्कर्षतश्चैतावन्मात्रकालत्वात्, नवरं जघन्यपदादुत्कृष्टपदमधिकमवसातव्यं, अन्यथोभयपदोपन्यासायोगात्, उभयप्रतिषेधवर्त्ती सिद्धः, स च साद्यपर्यवसितः । अन्तरचिन्तायां पर्याप्तकस्य जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमन्तरं, अपर्याप्तकाल एव हि पर्याप्तकस्यान्तरं, अपर्याप्तककालश्च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, अपर्याप्तकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, पर्याप्तककालस्य जघन्यत उत्कर्षतश्चैतावठयमाणत्वात्, नोपर्याप्तनो अपर्याप्तकस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पहुत्वचिन्तायां सर्वस्तोकां नोपर्याप्तकनो अपर्याप्तकाः, सिद्धानां शेषजीवापेक्ष- याऽल्पत्वात्, अपर्याप्तका अनन्तगुणाः, निगोदजीवानामपर्याप्तानामन्तानन्तानां सदा लभ्यमानत्वात्, तेभ्यः पर्याप्तकाः सङ्घयेयगुणाः, सूक्ष्मेष्वोधतोऽपर्याप्तकेभ्यः पर्याप्तकानां सङ्घयेयगुणतयाऽ- वाप्यमानत्वात् ॥
मू. (३७८) अहवा तिविहा सव्वजीवा पं० तं० - सुहुमा बायरा नोसुहुमानोबायरा, सुहुमे णं मंते! सुमेत्ति काल केवच्चिरं० ?, जहन्नेणं अंतोमुहुत्तं उक्कोसे० असंखिजं कालं पुढविकालो, बायरा जह० अंतो० उक्को० असंखिङ कालं असंखिज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ खेतओ अंगुलस्स असंखिज्जइभागो ।
-
नोहुमनोबायरए साइए अपज्रवसिए, सुहुमस्स अंतरं बायरकालो, बायरस्स अंतरं सुहमकालो, तइयस्स नोसुहुमनोबायरस्स अंतरं नत्थि । अप्पाबहु० सव्वत्थोवा नोसुहमानोबायरा बायर अनंतगुणा सुहमा असंखेञ्जगुणा ।।
वृ. ' अहवे' त्यादि, अथवा प्रकारान्तरेण सर्वंजीवास्त्रविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मा बादराः नोसूक्ष्मानोबादराः । कायस्थितिचिन्तायां सूक्ष्मस्य जघन्यतोऽन्तर्मुहूतं, तत ऊर्ध्व भूयोऽपि बादरेषु कस्याप्यागमनात्, उत्कर्षतोऽसङ्घयेयं कालं, असङ्घयेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽ सङ्घयेया लोकाः, बादरस्य जघन्यतोऽन्तर्मुहूर्तं तदनन्तरं कस्यचिद् भूयोऽपि सूक्ष्मेषु गमनात्, उत्कर्षतोऽसङ्घयेयं कालं, असङ्घयेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽङ्गुलस्यासङ्घयेयो भागः, एतावतः कालादूर्द्ध नियोगतः संसारिणः सूक्ष्मेषु गमनात्, उभयप्रतिषेपवर्त्ती सिद्धः स च साधपर्यवसितः ।
अन्तरचिन्तायां सूक्ष्मस्यान्तरं जघन्यतोऽन्तर्मुहूर्तं उत्कर्षतोऽसङ्घयेयं कालमसङ्घयेया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International