SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४८६ जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/१/३७२ शतसहस्राणि चतुःसप्तति सहस्राणि सप्तशतानि अष्टापञ्चाशदधिकानि येऽपि चावलिकाया अंशाश्चतुर्विंशतितानि अष्टपञ्चाशदधिकानि तेऽपि मुहूर्तगतोच्छासराशिना गुण्यन्ते, अस्यैव छेदस्यतेअंशा इत्यावलिकानायनार्थं तेनैवभागोहियते, लब्धास्तावत्य एवाबलिकाश्चतुर्विंशतिशतान्यष्टापञ्चाशानि तानिमूलराशौ प्रक्षिप्यन्ते, जातामूलराशिरेका कोटिसप्तषष्टिलक्षाः सप्तसप्तति सहस्राणि द्वे शते षोडशोत्तरे, एतावत्य आवलिका मुहूर्ते भवन्ति, यदिवा मुहूर्तगतानां क्षुलकभवग्रहणानांपञ्चषष्टिसहस्राणिपञ्च शतानिषट्त्रिंशतानिएकभवग्रहणप्रमाणेन षट्पञ्चाशेन शतद्वयेनावलिकानां गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्तञ्च॥१॥ “एगा कोडी सत्तट्टि लक्ख सत्तत्तरी सहस्साय । दोय सया सोलहिया आवलियाओ मुहत्तंमि॥" एवं च यदुच्यते 'संखेज्जाओ आवलियाओ एगे ऊसासनीसासे' इत्यादि तदतीव समीचीनमिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सयोगिभवस्थकेवल्यनाहारकस्यान्तरमभिधित्सुराह-'सजोगिभवत्यकेवलिअनाहारयस्स णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्त, समुदघातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात्, नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसातव्यं अन्यथोभयपदोपन्यासायोगात्।अयोगिभवस्थकेवल्यनाहारकसूत्रेनास्त्यन्तरं, अयोग्यवस्थायां सर्वस्याप्यनाहारकत्वात् । एवं सिद्धस्यापि साधपर्यवसितस्यानाहारक्यान्तराभावो भावनीयः । साम्प्रतमेतेषामाहारकानाहारकाणामल्पबहुत्वमाह-एएसिणं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाअनाहारकाः, सिद्धविग्रहगत्यापनसमुदघातगतसयोगिकेवल्ययोगिकेवलिनामेवानाहारकत्वात्, तेभ्यआहारका असङ्ख्येयगुणाः,अथ सिद्धेभ्योऽनन्तगुणावनस्पतिजीवास्तेचप्राय आहारका इत्यनन्तगणाः कथन भवन्ति?, उच्यते, इह प्रतिनिगोदमसाल्येयो भागः प्रतिसमयं सदा विग्रहगत्यापन्नो लभ्यते, विग्रहगत्यापन्ना अनाहारकाः॥१॥ “विग्गहगइमावन्ना केवलिणो समुहया अजोगीय। सिद्धा य अणाहारा सेसा आहारगा जीवा ।" इतिवचनात् ततोऽसङ्ख्येयगुणा एवाहारका घटन्ते नानन्तगुणा इति ॥ प्रकारान्तरेण भूयो द्वैविध्यमाह म. (३७३)अहवा दुविहासव्वजीवापन्नत्ता, तंजहा-सभासगाअभासगाय॥सभासए णं मंते! सभासएत्तिकालओ केवचिरं होति?, गोयमा! जहन्नेणं एवं समयं उक्को० अंतोमुहत्तं अभासएणं भंते०!, गोयमा! अभासए दुविहे पन्नते-साइए वा अपज्जवसिए सातीए वा सपज्जवसिए, तत्थ णं जे से साइए सपज्जवसिए से जह० अंतो० उक्को० अनंतं कालं अनंता उस्सप्पिणीओसप्पिणीओ वणस्सतिकालो। भासगस्सणंभंते! केवतिकालं अंतरंहोति?, जह० अंतो० उक्को० अनंतकालं वणस्सतिकालो । अभासग० सातीयस्स अपज्जवसियस्स नत्थि अंतरं, सातीयसपज्जवसियस्स जहन्नेणं एकं समयं उक्को० अंतो० अप्पाबहु० सव्वत्थोवा भासगा अभासगा अनंतगुणा। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy