SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - सर्व०, प्रतिपत्तिः १ उत्कर्षतोऽसङ्ख्येयंकालं यावदकुलस्यासङ्घयेयोभागः, यावानेवहिछमस्याहारकस्य कालस्तावनिव छद्मस्थानाहारकस्यान्तरं, छद्मस्थाहारकस्य च जघन्यतः कालोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यःकालतः, क्षेत्रतोऽङ्गुलस्यासङ्ख्येयो भागः, एतावन्तंकालंसततमविग्रहेणोत्पादसम्भवात्, ततश्छद्मस्थानाहारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथ स्थाने २ क्षुल्लकभवग्रहणमित्युक्तंतत्र क्षुल्लकभवग्रहणमितिकः शब्दार्थ? उच्यते, क्षुल्लंलघुस्तोकमित्येकोऽर्थ क्षुल्लमेव क्षुल्लकं-एकायुष्कसंवेदनकालो भवस्तस्य ग्रहणं संबन्धनं भवग्रहणं, क्षुल्लकंच तद्भवग्रहणं च क्षुल्लकभवग्रहणं, तच्चावलिकातश्चिन्त्यमानं षट्पञ्चाशदधिकमावलिकाशतद्वयं, अथैकस्मिन् आनप्राणे कियन्ति क्षुल्लकभवग्रहणानि भवन्ति?,उच्यते, किञ्चित्समधिकानिसप्तदश, कथमिति चेदुच्यते-इह मुहूर्तमध्ये सर्वसङ्ख्ययापञ्चषष्टि सहस्राणिपञ्चेशतानिषट्त्रिंशानिक्षुलकभवग्रहणानां भवन्ति, यत उक्तं चूर्णी॥१॥ “पन्नट्ठिसहस्साइं पंचेव सया हवंति छत्तीसा। खुड्डागभवग्गहणा हवंति अंतोमुत्तमि।" -आनप्राणाश्च मुहूर्ते त्रीणि सहस्रणि सप्त शतानि त्रिसप्तत्यधिकानि, उक्तञ्च॥१॥ "तिनि सहस्सा सत्तय सयाई तेवत्तरिंच ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहिं॥" ततोऽत्रत्रैराशिककवितारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैस्त्रभिः सहस्ररुच्छ्वासानां पञ्चषष्टि सहस्राणि पञ्च शतानि षटत्रिंशानि क्षुल्लकभवग्रहणानां भवनति तत एकेनोच्छ्वासेन किंलभामहे?,अत्रान्त्यराशिनाएककलक्षणेन मध्यराशेर्गुणनाजातःसतावानेव, एकेन गुणितं तदेव भवतीति न्यायात्, तत आधेन राशिना भागहरणं, लब्धाः सप्तदश क्षुल्लकभवाः, शेषात्स्वंशास्तिष्ठन्ति तत्र त्रयोदश शतानि पञ्चनवत्यधिकानि, उक्तश्च॥१॥ “सत्तरस भवग्गहणा खुड्डाणं भवंति आणुपाणुंमि। तेरस चेव सयाई पंचाणइ चेव अंसाणं ।।" अर्थतावद्भिरंशः कियत्य आवलिका लभ्यन्ते?, उच्यते, समधिकचतुर्नवति, तथाहिषट्पञ्चाशदधिकेन शतद्वयेनालिकानां त्रयोदश शतानि पञ्चनवतानि गुण्यन्ते, जातानि त्रीणि लक्षाणि सप्तपञ्चाशत्सहस्राणि शतमेकं विंशत्यधिकं, छेदराशिः स एव ३७७६, लब्धा चतुर्नवतिरावलिकाः, शेषास्त्वंशा आवलिकायास्तिष्ठन्ति चतुर्विंशति शतानि अष्टपञ्चाशानि, छेदः स एव, एवं यदा एकस्मिन्नानप्राणे आवंलिकाः सङ्ख्यातुमिष्यन्ते तदा सप्तदश द्वाभ्यां षट्पञ्चाशदधिकाभ्यांशताभ्यां गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुर्नवतिरावलिकाः प्रक्षिप्यन्ते, तत आवलिकानां चतुश्चत्वारिंशत् शतानि षट्चत्वारिंशानि भवन्ति, उक्तञ्च॥१॥ "अक्को उ आणुपाणू चोयालीसंसया उछायाला। आवलियपमाणेणं अनंतनाणीहिं निद्दिट्टो ।।" यदि पुनर्मुहूर्तेते आवलिकाः सङ्ख्यातुमिष्यन्ते तत एतान्येव चतुश्चत्वारिंशच्छतानि त्रिसप्तत्यधिकानि भवन्तीति सप्तत्रिच्छशतैस्त्रिसप्तत्यधिकैर्गुण्यन्ते, जाता एका कोटी सप्तषष्टि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy