________________
४८४
जीवाजीवाभिगमउपासूत्रम् सर्व०/१/३७२ भवन्ति तावत्य उत्सर्पिण्यवंसापिण्य इति, तावन्तं हि कालमविग्रहेणोत्पाद्यते, अविग्रहोत्पत्ती च सततमाहारकः।
केवल्याहारकप्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, सचान्तकृत् केवलीप्रतिपत्तव्यः, उत्कर्षतोदेशोनापूर्वकोटी, साचपूर्वकोटयायुषोनववर्षादारभ्योत्पन्नकेवलज्ञानस्य परिभावनीया। अनाहारकविषयं सूत्रमाह-'अनाहारएणंभंते' इत्यादि प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम अनाहारको द्विविधः प्रज्ञप्तः-छद्मस्थोऽनाहारकः केवल्यनाहारकश्च, छद्मस्थानाहारकप्रश्नसूत्रं सुगमं भगवानाह-गौतम ! जघन्यत एकं समयं, जघन्याधिकाराद्विसामयिकी विग्रहगतिम- पेक्ष्यैतदवसातव्यं, उत्कर्षतो द्वौ समयौ त्रिसामयिक्या एव विग्रहगतेर्बाहुल्येनाश्रयणात्, आह च चूर्णिकृत्-"यद्यपि भगवत्यां चतुःसामयिकोऽनाहारक उक्तस्तथाऽप्यत्र नाङ्गीक्रयते, कदाचित्कोऽसौ मावो येन, बाहुल्यमेवाणीक्रयते, बाहुल्याच समयद्वयमेवे"ति।केवल्यनाहारकसूत्रपाठसिद्धं, भगवानाह-गौतम! केवल्यनाहारको द्विविधः प्रज्ञप्तस्तद्यथाभवस्थकेवल्यनाहारकः सिद्धकेवल्यनाहारकः ।
'सिद्धकेवलिअनाहारएणंभंते!' इत्यादिप्रश्नसूत्रंसुगम, भगवानाह-गौतम! सादिकापर्यवसितः, सिद्धस्य साधपर्यवसिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावात् ॥ 'भवत्थकेवलिअनाहारएणभंते!' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! भवस्थकेवल्यनाहारको द्विविधः, प्रज्ञप्तः-सयोगिभवस्थकेवल्यनाहारकोऽयोगिभवस्थकेवल्यनाहारकश्च, तत्रायोगिभवस्थकेवल्यनाहारकप्रश्नसूत्रसुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अयोगित्वं नाम हि शैलेश्यवस्था तस्यां नियमादनाहारक औदारिकादिकाययोगाभावात्, शैलेश्यवस्थाचजघन्यतउत्कर्षतश्चान्तर्मुहूर्त, नवरं जघन्यपदादुत्कृष्टमधिकमवसेयं, अन्यथोभयपदोपन्यासायोगात् । 'सजोगिभवत्थकेवलिअणाहारए णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, म०-गौ० अजघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिककेवलिसमुद्घातावस्थायां तृतीयचतुर्थपञ्चमरूपाः तेषु केवलकार्मणकाययोगभावात्, उक्तञ्च॥१॥ "कार्मणशरीरयोगी चतुर्थक पञ्चमेतृतीये च ।
समयत्रयेऽपि तस्माद्भवत्यनाहारको नियमात् ॥" साम्प्रतमन्तरंचिन्तयत्राह-'छउमत्थाहारयस्सणंभंते!' इत्यादि, छद्मस्थाहारकस्य भदन्त अन्तरंकालतः कियचिरं भवति?, भगवानाह-गौतम! जगन्येनैकं समयमुत्कर्षतो द्वौ समयौ, यावानेव हि कालो जघन्यत उत्कर्षतश्च छद्मस्थानाहारकस्य तावानाहरकस्यान्तरकालः, सच कालोजघन्येनैकः समयः उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायांत्रिसामयिक्यांविग्रहगती द्वौ समयावित्याहारकस्याप्यन्तरतावदिति।केवल्याहारक्तप्रश्नसूत्रसुगमं, भगवानाह-गौतम अजघन्योत्कर्षेणत्रयःसमयाः केवल्याहारकोहि सयोगिभवस्थकेवली, तस्य चानाहारकत्वंत्रीनेव समयान् यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति ।
सम्प्रत्यनाहारकस्यान्तरं चिचिन्तयिषुःप्रथमतश्छद्मस्थानाहारकस्याह-'छउमत्थानाहारयस्सणं भंते!' इत्यादि प्रश्नसूत्रसुगम, भगवानाह-गौतम! जघन्येन क्षुल्लकभवग्रहणं द्विसमयोनं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org