________________
प्रतिपत्तिः - १, कापोतलेश्या तृतीयस्यां पृथिव्यां केषुचिन्नरकावासेषु कापोतलेश्या शेषेषु नीललेश्या, चतुर्थ्या नीललेश्या, पञ्चम्यां केषुचिन्नरकावासेषु नीललेश्या, शेषेषु कृष्णलेश्या, षष्ट्यां कृष्णलेश्या, सप्तम्यां परमकृष्णलेश्या, उक्तञ्च व्याख्याप्रज्ञप्तौ॥१॥ "काऊ य दोसु तइयाए मीसिया नीलीया चउत्थीए
पंचमियाए। मीसा कण्हा तत्तो परमकण्हा ।।" इन्द्रियद्वारे पञ्च इन्द्रियाणि स्पर्शनरसननाणचक्षुश्रोत्रलक्षणानि । समुद्घातद्वारे चत्वारः समुद्घाताः-वेदनासमुद्घातः कषायसमुद्घातो वैक्रियसमुद्घातो मारणान्तिकसमुद्घातश्च । संज्ञिद्वारे संज्ञिनोऽसंज्ञिनश्च, तत्र ये गर्भव्युत्क्रान्तिकेभ्य उत्पन्नास्ते संज्ञिन इति व्यपदिश्यनते, ये तु संमूर्छनजेभ्यस्तेऽसंज्ञिनः, ते च रत्नप्रभायामेवोत्पद्यन्ते न परतः, अनाशयाशुभक्रियाया दारुणायां अप्यनन्तरविपाकिन्या एतावन्मात्रफलत्वात्, अत एवाहुवृद्धाः-- ॥१॥ "असन्त्री खलु पढमं दोच्चं व सिरीसवा तइय पक्खी।
___ सीहा जंति चउत्थिं उरगा पुण पंचमिं पुढविं॥ ॥२॥ छट्टि य इत्थियाओ मच्छा मणुया य सत्तमि पुढविं।
एसो परमोवाओ बोद्धवो नरयपुढवीसु॥ वेदद्वारेनपुंसकवेदाः।पर्याप्तिद्वारे पञ्चपर्याप्तयः पञ्चापर्याप्तयः । दृष्टिद्वारे त्रिविधष्टयोऽपि, तद्यथा-मिथ्याध्टयः सम्यग्दृष्टयः सम्यग्मिथ्याष्टियश्थ, दर्शनद्वारे त्रीणि दर्शनानि, तद्यथाचक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं च।
___ ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथाआमिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, येऽत्राज्ञानिनस्तेमत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एष चात्र भावार्थ:-ये नारका असंज्ञिनस्तेऽपर्याप्तावस्थायां द्वयज्ञानिनः पर्याप्तावसथायां तु यज्ञानिनः संज्ञिनस्तूमय्यामप्यवस्थायां त्र्यज्ञानिनः, असंज्ञिभ्य ह्युत्पधमानास्तथाबोधमान्द्यादपर्याप्तावस्थायां नाव्यक्तमप्यवधिमाप्नुवन्तीति।
योगोपयोगाहारद्वाराणिप्रतीतानि उपपातोयथा व्युत्क्रान्तिपदेप्रज्ञापनायांतथा वक्तव्यः, पर्याप्तपञ्चेन्द्रितिर्यग्मनुष्येभ्योऽसङ्ग्यातवर्षायुष्कवर्जेभ्यो वक्तव्यो, न शेषेभ्य इति भावः । स्थितिर्जघन्यतो दश वर्षसहसमणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । समुद्घातमधिकृत्य मरणचिन्ता प्राग्वत् । उद्वर्तनाचिन्ता यथा व्युत्क्रान्तिपदे प्रज्ञापनायां कृता तथा वक्तव्या, अनन्तरमुद्धृत्य संज्ञिपञ्चेन्द्रियतिर्यमनुष्येष्वसङ्ग्यातवर्षायुष्कवर्जितेष्वागच्छन्तीति भावः, अत एव गत्यागतिद्वारे द्वयागतिका द्विगतिकाः, परीत्ताः प्रत्येकशरीरिणोऽसङ्घयेयाः प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन्!, उपसंहारमाह- सेत्तं नेरइया' । उक्ता नैरयिकाः, सम्प्रति तिर्यकपञ्चेन्द्रियानाह
मू. (४१) से किंतं पंचेदियतिरिक्खजोणिया?, २ दुविहा पन्नत्ता, तजहा-संमुच्छिमपंचेदियतिरिक्खजोणिया य गब्भवतियपंचिंदियतिरिक्खजोणिया य॥
वृ. अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-पञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा--संमूर्छिमपञ्चेन्द्रियतिर्यग्योनिका गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र संमूर्छनं संमूर्छा-गर्भोपपातव्यतिरेकेणैव यः प्राणिनामुत्पादस्तेन निर्वृत्ताः संमूर्छिमाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org