________________
४२
जीवाजीवाभिगमउपाङ्गसूत्रम् 9/-/४० बहुलवचनात्करणेऽनीयप्रत्ययः,अपराभवान्तर-वैरिनारकप्रतिघातनार्थमुत्तरकालंयाविचित्ररूपा वैक्रियिकी अवगाहना सा उत्तरवैकुर्विकी, तत्रया सा भवधारणीयाजघन्यतोऽङ्गुलासङ्ख्येयभागः, सचोपपातकाले वेदितव्यः,तथाप्रयत्नभावात, तत्कर्षतः पञ्चधनुःशतानि, इदंचोत्कर्षतःप्रमाणं सप्तमपृथिवीमधिकृत्य वेदितव्यं, प्रतिपृथिवि तूत्कर्षतः प्रमाणं सङ्ग्रहणिटीकातो भावनीयं, तत्र सविस्तरमुक्तत्वात्, उत्तरवैकुर्विकी जघन्यत्सुङ्गुलसङ्खयेयभागो न त्वसङ्ग्येयभागः, तथाप्रयत्नाभावात्, उत्कर्षतो धनुःसहसमिति, इदमप्युत्कर्षपरिमाणं सप्तमनरकपृथिवीमधिकृत्य वेदितव्यं, प्रतिपृथिवि तुसङ्ग्रहणिटीकातः परिभावनीयं, संहननद्वारे।
तेसिणंभंते त्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम! षण्णां संहननानामन्यतमेनापि संहननेन तेषां शरीराण्यसंहननानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, कस्मादसंहननादि इति चेद् अतआह-'नेवठ्ठी' इत्यादि, नैवतेषां शरीराणामस्थीनि, नैवशिरा-धमनिनाड्यो, नापिस्नायूनिशेषशिराः अस्थिनिचयात्मकं च संहननमतोऽस्थ्याधभावादसंहननानि शरीराणि, इयमत्र भावना-इह तत्ववृत्या संहननमस्थिनिचयात्मकं, यत्तु प्रागेकेन्द्रियाणां सेवार्तसंहननमभधायि तदीदा-रिकशरीरसम्बन्धमात्रमपेक्ष्यौपचारिकं, देवा अपि यदन्यत्र प्रज्ञापनादौ वज्रसंहननिन उच्यन्ते तेऽपि गौणवृत्या, तथाहि- इह याशी मनुष्यलोके चक्रवत्यादेविशिष्टवज्रर्षभनाराचसंहननिनः सकलशेषमनुष्यजना- साधारणा शक्ति “दोसोला बत्तीसा सव्वबलेणं तु संकलनिबद्ध"मित्यादिका, ततोऽधिकतरा देवानां पर्वतोत्पाटनादिविषया शक्ति श्रूयते न च शरीरपरिक्लेशइति तेऽपिवज्रसंहननिनइववज्रसंहननिन उक्तानपुनः परमार्थतस्ते संहननिनः, ततो नारकाणामस्थ्यभावात्संहननाभावः, एतेन योऽपरिणतभगवत्सिद्धान्तसारो वावदूकः सिद्धान्तबाहुल्यमात्मनः ख्यापयन्नेवं प्रललाप-“सुत्ते सत्तिविसेसोसंघयणमिहऽटिनिचयो"ति, इति सोऽपाकीर्णोद्रष्टव्यः, साक्षादत्रैव सूत्रे अस्थिनिचयात्मकस्य संहननस्याभिधानात्, अस्थ्यभावे संहननप्रतिषेधादिति।अपरस्त्वाह-नैरयिकाणामस्थ्यभावेकथं शरीरबन्धोपपत्ति? नैष दोषः, तताविधपुद्गलस्कन्धवन् शरीरबन्धोपपत्तेः, अत एवाह
'जे पोग्गला अनिट्ठा' इत्यादि, ये पुद्गलाः 'अनिष्टाः' मनस इच्छामतिक्रान्ताः, तत्र किञ्चित्कमनीयमपि केषाञ्चिदनिष्टं भवति तत आह-न कान्ताः सकान्ता-अकमनीयाः, अत्यन्ताशुभवर्णपितत्वात्, अतएव नप्रियाः, दर्शनापातकालेऽपिन प्रियबुद्धिमात्मन्युत्पादयन्तीति भावः, 'अशुभाः' अशुभरसगन्धस्पर्शात्कत्वात्, ‘अमनोज्ञाः' न मनःप्रहादहेतवो, विपाकतो दुःखजनकत्वात, अमनआपा:-न जातचिदपि भोज्यतया जन्तनां मनांस्याप्वन्तीति भावः, ते ताषां 'संङ्घातत्वेन' तथारूपशरीरपरिणतिभावेन परिणमन्ति।
संस्थानद्वारे तेषां शरीराणि भवधारणीयानि उत्तरवैकुर्विकाणि च हुण्डसंस्थानानि वक्तव्यानि, तथाहि-भवधारणीयानि तेषांशरीराणिभवस्वभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलग्रीवादिरोमपक्षिशरीरकवदतिबीभत्सहुण्डसंस्थानोपेतानि, यान्यप्युत्तरवैक्रियाणि तानि यद्यपिशुभानिवयं विकुर्विष्याम इत्यभिसन्धिना विकुर्वितुमारभन्तेतथाऽपितानि तेषामत्यन्ताशुभतथाविधनामकर्मोदयतोऽवीताशुभतराण्युपजायन्ते इति तान्यपि हुण्डसंस्थानानि । ____ कषायद्वारं संज्ञाद्वारंच प्राग्वत्, लेश्याद्वारे आधास्तिन लेश्याः, तत्राद्ययोर्द्वयोः पृथिव्योः
www.jainelibrary.org
rational Jain Education International
For Private & Personal Use Only